पव᳚मानो असिष्यद॒द्रक्षां᳚स्यप॒जङ्घ᳚नत् ।
प्र॒त्न॒वद्रो॒चय॒न्रुचः᳚ ॥
प्र॒त्न॒वद्रो॒चय॒न्रुचः᳚ ॥
पदपाठः (Word-by-word)
पव᳚मानः । अ॒सि॒स्य॒द॒त् । रक्षां᳚सि । अ॒प॒॑जङ्घ᳚नत् ।
प्र॒त्न॒॑वत् । रो॒चय᳚न् । रुचः᳚ ॥
प्र॒त्न॒॑वत् । रो॒चय᳚न् । रुचः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
रक्षांसि राक्षसानपजंघनदपघ्नन् रुचः आत्मीयादीप्तीः प्रत्नवत् पुराणवत् रोचयन् दीपयन् पवमानः सोमोसिस्यदत् स्यन्दते ॥ ५ ॥
उत्तइति पंचर्चं षड्विंशं सूक्तं आंगिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकं तथा चानुक्रान्तं—उत्तेशुष्मासउचथ्यइति । उक्तोविनियोगः ।