तया᳚ पवस्व॒ धार᳚या॒ यया॒ गाव᳚ इ॒हागम᳚न् ।
जन्या᳚स॒ उप᳚ नो गृ॒हम् ॥
जन्या᳚स॒ उप᳚ नो गृ॒हम् ॥
पदपाठः (Word-by-word)
तया᳚ । प॒व॒स्व॒ । धार᳚या । यया᳚ । गावः᳚ । इ॒ह । आ॒॑गम᳚न् ।
जन्या᳚सः । उप᳚ । नः॒ । गृ॒हम् ॥
जन्या᳚सः । उप᳚ । नः॒ । गृ॒हम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं तया तादृश्या धारया पवस्व क्षर । कीदृश्येत्यत्राह—यया यादृश्या त्वदीयया धारया जन्यासोजन्याः शत्रुजनपदभवागावः इहास्मिन्लोके नोस्माकं संबन्धिगृहमुपागमन्नु- पागच्छन्ति ॥ २ ॥