नवमं मण्डलम् - सूक्तम् 99

8 ऋचः

ऋषिः: रेभसूनू काश्यपौ देवता: पवमानः सोमः छन्दः: बृहती

सूक्तम् 9.99 - सम्पूर्णम्

1 / 8
ऋक्: 9.99.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
9.99.1
आ ह᳚र्य॒ताय᳚ धृ॒ष्णवे॒ धनु᳚स्तन्वन्ति॒ पौंस्य᳚म् ।
शु॒क्रां व᳚य॒न्त्यसु᳚राय नि॒र्णिजं᳚ वि॒पामग्रे᳚ मही॒युवः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ह॒र्य॒ताय᳚ । धृ॒ष्णवे᳚ । धनुः᳚ । त॒न्व॒न्ति॒ । पौंस्य᳚म् ।
शु॒क्राम् । व॒य॒न्ति॒ । असु᳚राय । निः॒॑निज᳚म् । वि॒पाम् । अग्रे᳚ । म॒ही॒युवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यताय सर्वैःस्पृहणीयाय धृष्णवे शत्रूणांधर्षणशीलाय सोमाय पौंस्यं पुंस्त्वस्याभिव्यं- जकं धनुरातन्वंति धनुषि ज्यांकुर्वन्तीति सोमस्य धाराविसर्गार्थं वितायमानं पवित्रमभि- धीयते । तदेव विवृणोति महीयुवः पूजाकामा ऋत्विजः विपां मेधाविनां देवानामग्ने पुर- स्तात् शुक्रां शुक्लवर्णां निर्निजं ययासोमोनिर्निज्यते तां असुराय बलवते वयन्ति वित- न्वंति । दशापवित्रं विस्तारयन्तीत्यर्थः । वयतिर्गतिकर्मा ॥ १ ॥

9.99.2
अध᳚ क्ष॒पा परि᳚ष्कृतो॒ वाजा{4}᳚ अ॒भि प्र गा᳚हते ।
यदी᳚ वि॒वस्व᳚तो॒ धियो॒ हरिं᳚ हि॒न्वन्ति॒ यात᳚वे ॥
▶ पदपाठः (Word-by-word)
अध᳚ । क्ष॒पा । परि᳚॑कृतः । वाजा᳚न् । अ॒भि । प्र । गा॒ह॒ते॒ ।
यदि᳚ । वि॒वस्व᳚तः । धियः᳚ । हरि᳚म् । हि॒न्वन्ति᳚ । यात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षपा सुपांसुलुगितिपंचम्याआकारः क्षपाया रात्रेः अध अनन्तरं प्रातःकाले परिष्कृतः भूषणार्थे संपर्युपेभ्यइति करोतेःसुडागमः । अद्भिरलंकृतः यद्वा क्षपयित्र्यां सेनायां अलं- कृतः सोमः वाजान् अन्नानि बलानिवा अभिलक्ष्य प्रगाहते प्रगच्छति । विवस्वतः परि- चरणवतोयजमानस्य धियः कर्मसाधनभूता अंगुलयः हरिं हरितवर्णं पतमंशुं यातवे पात्रा ण्यभिगमनाय यदि हिन्वन्ति प्रेरयन्ति तर्हि सवनानि गच्छतीति ॥ २ ॥

9.99.3
तम᳚स्य मर्जयामसि॒ मदो॒ य इ᳚न्द्र॒पात᳚मः ।
यं गाव᳚ आ॒सभि᳚र्द॒धुः पु॒रा नू॒नं च᳚ सू॒रयः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः᳚ । यः । इ॒न्द्र॒॑पात᳚मः ।
यम् । गावः᳚ । आ॒स॑भिः᳚ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सोमस्य तं रसं मर्जयामसि मर्जयामः अलंकुर्मोवा योमदोमदकरोरसः इन्द्रपा- तमः इन्द्रेणात्यन्तं पातव्योभवति । किंच गावोगन्तारः सूरयः स्तोतारः पुराच नूनमिदा- नींच यंसोमरसं आसभिः दधुर्धारयन्ति पिबन्तीतियावत् । यद्वा गावोधेनवः यंसोमं तृ- णादुष्ववस्थितमासभिरास्यैः दधुर्धारयन्ति तृणरूपेण भक्षयन्ति ॥ ३ ॥

9.99.4 समानपद
तं गाथ᳚या पुरा॒ण्या पु᳚ना॒नम॒भ्य᳚नूषत ।
उ॒तो कृ᳚पन्त धी॒तयो᳚ दे॒वानां॒ नाम॒ बिभ्र᳚तीः ॥
▶ पदपाठः (Word-by-word)
तम् । गाथ᳚या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ ।
उ॒तो इति᳚ । कृ॒प॒न्त॒ । धी॒तयः᳚ । दे॒वाना᳚म् । नाम᳚ । बिभ्र᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानं पूयमानं तं सोमं पुराण्या पुराकृतया गाथया स्तुत्या अभ्यनूषत स्तोतारोभि- ष्टुवन्ति । नुस्तवने लुङिरूपम् । उतो अपिच नामकर्मार्थं नमनं बिभ्रतीर्बिभ्राणाः धीतयोंगु- लयः देवानां सोमरूपहविः प्रदानाय कृपन्त कल्पयन्ति समर्थाभवन्ति । कृपूसामर्थ्ये ॥ ४ ॥

9.99.5 समानपद
तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् ।
दू॒तं न पू॒र्वचि᳚त्तय॒ आ शा᳚सते मनी॒षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । उ॒क्षमा᳚णम् । अ॒व्यये᳚ । वारे᳚ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।
दू॒तम् । न । पू॒र्व॑चि᳚त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षमाणं अद्भिःसिच्यमानं धर्णसिं सर्वस्यधारकं सोमं अव्यये अविमये वारे वाले पवित्रे पुनन्ति शोधयन्ति । ततः मनीषिणोमेधाविनोयजमानाः तमिमंसोमं दूतंन दूतमिव पूर्वचित्तये देवानां पूर्वमेव प्रज्ञापनाय आशासते प्रार्थयते ॥ ५ ॥

9.99.6
स पु᳚ना॒नो म॒दिन्त᳚म॒ः सोम᳚श्च॒मूषु᳚ सीदति ।
प॒शौ न रेत᳚ आ॒दध॒त्पति᳚र्वचस्यते धि॒यः ॥
▶ पदपाठः (Word-by-word)
सः । पु॒ना॒नः । म॒दिन्॑त᳚मः । सोमः᳚ । च॒मूषु᳚ । सी॒द॒ति॒ ।
प॒शौ । न । रेतः᳚ । आ॒॑दध᳚त् । पतिः᳚ । व॒च॒स्य॒ते॒ । धि॒यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मदिन्तमः अत्यन्तं मादयिताससोमः पुनानः पूयमानःसन् चमूषु चमसेषु सीदति । ततः पशौन यथापशौ कश्चिद्वृषभोरेतआदधत् आदधाति तद्वच्चमसादिषु रेतः स्वीयंरसं आदधत् आदधानः धियः कर्मणः पतिः पालयिता यं सोमोवचस्यते अभिषूयते ॥ ६ ॥

9.99.7
स मृ᳚ज्यते सु॒कर्म᳚भिर्दे॒वो दे॒वेभ्य᳚ः सु॒तः ।
वि॒दे यदा᳚सु संद॒दिर्म॒हीर॒पो वि गा᳚हते ॥
▶ पदपाठः (Word-by-word)
सः । मृ॒ज्य॒ते॒ । सु॒कर्म᳚॑भिः । दे॒वः । दे॒वेभ्यः᳚ । सु॒तः ।
वि॒दे । यत् । आ॒सु॒ । स॒म्॑द॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेभ्य्तोदेवार्थं सुतोभिषुतः देवोद्योतमानः स्तोतव्योवा ससोमः सुकर्मभिः ऋत्विग्भिः मृज्यते परिपूयते यद्यदायंसोमः आसु प्रजासु संददिः सम्यग्धनदानशीलइति विदे ज्ञायते तदानां महीर्महतीरपोवसतीवरीः विगाहते विशेषेणाभिगच्छति यदासोममभिषुण्वन्ति तदा तेभ्योधनं प्रयच्छतीत्यर्थः ॥ ७ ॥

9.99.8
सु॒त इ᳚न्दो प॒वित्र॒ आ नृभि᳚र्य॒तो वि नी᳚यसे ।
इन्द्रा᳚य मत्स॒रिन्त᳚मश्च॒मूष्वा नि षी᳚दसि ॥
▶ पदपाठः (Word-by-word)
सु॒तः । इ॒न्दो॒ इति᳚ । प॒वित्रे᳚ । आ । नृ॑भिः᳚ । य॒तः । वि । नी॒य॒से॒ ।
इन्द्रा᳚य । म॒त्स॒रिन्॑त᳚मः । च॒मूषु᳚ । आ । नि । सी॒द॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सुतोभिषुतः यतः आयतः सर्वतोविस्तृतस्त्वं नृभिः कर्मनेतृभिरृत्विग्भिः पवि त्रे विनीयसे विशॆषेण नीयमानोभवसि । ततः मत्सरिन्तमः अतिशयेन मादयिता त्वं इन्द्रायेन्द्रार्थं चमूषु चमसेष्वानिषीदसि ॥ ८ ॥

अभीनवन्तइति नवर्चंचतुर्थंसूक्तं पूर्ववदृषिदेवते सर्वाअनुष्टुभः । तथाचानुकम्यते—अभी- नवन्तेनवेति । गतोविनियोगः ।