श्रवणम्

9.99.5 समानपद
तमु॒क्षमा᳚णम॒व्यये॒ वारे᳚ पुनन्ति धर्ण॒सिम् ।
दू॒तं न पू॒र्वचि᳚त्तय॒ आ शा᳚सते मनी॒षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । उ॒क्षमा᳚णम् । अ॒व्यये᳚ । वारे᳚ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।
दू॒तम् । न । पू॒र्व॑चि᳚त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षमाणं अद्भिःसिच्यमानं धर्णसिं सर्वस्यधारकं सोमं अव्यये अविमये वारे वाले पवित्रे पुनन्ति शोधयन्ति । ततः मनीषिणोमेधाविनोयजमानाः तमिमंसोमं दूतंन दूतमिव पूर्वचित्तये देवानां पूर्वमेव प्रज्ञापनाय आशासते प्रार्थयते ॥ ५ ॥