नवमं मण्डलम् - सूक्तम् 25

6 ऋचः

ऋषिः: दृळ्हच्युत आगस्त्यः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.25 - सम्पूर्णम्

1 / 6
ऋक्: 9.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.25.1
पव᳚स्व दक्ष॒साध᳚नो दे॒वेभ्य᳚ः पी॒तये᳚ हरे ।
म॒रुद्भ्यो᳚ वा॒यवे॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । द॒क्ष॒॑साध᳚नः । दे॒वेभ्यः᳚ । पी॒तये᳚ । ह॒रे॒ ।
म॒रुत्॑भ्यः᳚ । वा॒यवे᳚ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरे हरितवर्ण पापहर्तर्वा सोम दक्षसाधनः दक्षोबलं तस्यसाधको मदोमदकरश्च त्वं पवस्व क्षर देवेभ्यः इन्द्रादिभ्यः पीतये पानाय । तथा मरुद्भ्योवायवेच पीतये पवस्व ॥ १ ॥

9.25.2
पव᳚मान धि॒या हि॒तो॒३॒᳚॑भि योनिं॒ कनि᳚क्रदत् ।
धर्म᳚णा वा॒युमा वि᳚श ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । धि॒या । हि॒तः । अ॒भि । योनि᳚म् । कनि᳚क्रदत् ।
धर्म᳚णा । वा॒युम् । आ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान सोम धिया कर्मणा अस्मद्व्यापारेण अंगुल्यावा हितोधृतःसन् कनिक्रदत् शब्दंकुर्वन् योनिं स्थानं ग्रहं वा अभिविशेतिशेषः । तदेवाह धर्मणा कर्मणा वायुं वायुसंबंधिनं पात्रमित्यर्थः । तदाविश प्रविश ॥ २ ॥

9.25.3
सं दे॒वैः शो᳚भते॒ वृषा᳚ क॒विर्योना॒वधि᳚ प्रि॒यः ।
वृ॒त्र॒हा दे᳚व॒वीत᳚मः ॥
▶ पदपाठः (Word-by-word)
सम् । दे॒वैः । शो॒भ॒ते॒ । वृषा᳚ । क॒विः । योनौ᳚ । अधि᳚ । प्रि॒यः ।
वृ॒त्र॒॑हा । दे॒व॒॑वीत᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः संशोभते देवैः सह योनौ स्थाने स्वीये अधिष्ठितः वृषा कामानां वर्षकः कविः क्रान्तप्रज्ञः प्रियः प्रियभूतः सर्वेषाम् । यद्वा प्रीणयिता वृत्रहा वृत्रस्यहन्ता देववीतमः अतिशयेन देवान् कामयमानः एवं महानुभावः सोमः संशोभते ॥ ३ ॥

9.25.4
विश्वा᳚ रू॒पाण्या᳚वि॒शन्पु᳚ना॒नो या᳚ति हर्य॒तः ।
यत्रा॒मृता᳚स॒ आस᳚ते ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । रू॒पाणि᳚ । आ॒॑वि॒शन् । पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः ।
यत्र᳚ । अ॒मृता᳚सः । आस᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वा सर्वाणि रूपाणि आविशन् पुनानः पूयमानोहर्यतः कमनीयः हर्यगतिकान्त्योः । ईदृशोयाति गच्छति यत्रामृतासः अमृतादेवा आसते विष्ठंति तं देशं याति ॥ ४ ॥

9.25.5
अ॒रु॒षो ज॒नय॒न्गिर॒ः सोमः᳚ पवत आयु॒षक् ।
इन्द्रं॒ गच्छ᳚न्क॒विक्र᳚तुः ॥
▶ पदपाठः (Word-by-word)
अ॒रु॒षः । ज॒नय᳚न् । गिरः᳚ । सोमः᳚ । प॒व॒ते॒ । आ॒यु॒षक् ।
इन्द्र᳚म् । गच्छ᳚न् । क॒वि॑क्र᳚तुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुष आरोचमानः सोमोगिरः शब्दान् जनयन् पवते क्षरति । किंकुर्वन् आनुषक् अनुषक्तमिन्द्रं गच्छन् व्याप्नुवन् कविक्रतुः क्रान्तप्रज्ञः ॥ ५ ॥

9.25.6
आ प᳚वस्व मदिन्तम प॒वित्रं॒ धार᳚या कवे ।
अ॒र्कस्य॒ योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । म॒दि॒न्॑त॒म॒ । प॒वित्र᳚म् । धार᳚या । क॒वे॒ ।
अ॒र्कस्य᳚ । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदिन्तम मादितृतम कवे क्रान्तप्रज्ञ सोम त्वं पवित्रं अतिक्रम्य धारया आपवस्व । किमर्थं अर्कस्यार्चनीयस्येन्द्रस्य योनिं स्थानं आसदं प्राप्तुम् ॥ ६ ॥

तममृक्षन्तेति षळृचं द्वितीयंसूक्तं दृह्ळच्युतपुत्रस्य इध्मवाहनाम्नाआर्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-तममृक्षन्तेध्मवाहो दार्ढच्युतइति । गतोविनियोगः ।