दि॒वो रेत᳚सा सचते पयो॒वृधा॒ तमी᳚महे सुम॒ती शर्म᳚ स॒प्रथः᳚ ॥
पदपाठः (Word-by-word)
दि॒वः । रेत᳚सा । स॒च॒ते॒ । प॒यः॒॑वृधा᳚ । तम् । ई॒म॒हे॒ । सु॒॑म॒ती । शर्म᳚ । स॒॑प्रथः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सपवमानसोमोवने वननीये वसतीवर्याख्येउदके जातउत्पन्नः शिशुर्न शिशुरिव अवचक्र- दत् अवाङ्मुखंक्रन्दति उदकमध्ये शब्दंकरोतिखलु । यद्यदा वाजी बलवानन्नवान्वा अरुष- आरोचमानः यद्वा वाजी अश्वइव अरुषः अर्तेरुषच् । गमनशीलः सोमः स्वः स्वर्गलोकं सिषासति संभक्तुमिच्छति । सनोतेः सनीडभावे आत्वं सनोतेरिति सांहितिकं षत्वम् । सोयं पयोवृधा गवामोषधीनां च क्षीरस्यवर्धकेन रेतसोदकेन सह दिवोद्युलोकात् सचतेपार्थि- वलोकं समवेति । तं तादृशं प्रसिद्धं सोमं सप्रथः सर्वतः पृथुतरं धनादिना युक्तं शर्मगृहं तद्वयं सुमती । सुपांसुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः । सुमत्या शोभनया स्तुत्या ईमहे याचामहे । ईमहइतियाच्चाकर्मा । ईङ्गतौ दैवादिकश्छान्दसः श्यनोलुक् ॥ १ ॥