अ॒द्भिः सो᳚म पपृचा॒नस्य᳚ ते॒ रसो॑व्यो॒ वारं॒ वि प᳚वमान धावति ।
स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ॥
स मृ॒ज्यमा᳚नः क॒विभि᳚र्मदिन्तम॒ स्वद॒स्वेन्द्रा᳚य पवमान पी॒तये᳚ ॥
पदपाठः (Word-by-word)
अ॒त्॑भिः । सो॒म॒ । प॒पृ॒चा॒नस्य᳚ । ते॒ । रसः᳚ । अव्यः᳚ । वार᳚म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ ।
सः । मृ॒ज्यमा᳚नः । क॒वि॑भिः᳚ । म॒दि॒न्॑त॒म॒ । स्वद᳚स्व । इन्द्रा᳚य । प॒व॒मा॒न॒ । पी॒तये᳚ ॥
सः । मृ॒ज्यमा᳚नः । क॒वि॑भिः᳚ । म॒दि॒न्॑त॒म॒ । स्वद᳚स्व । इन्द्रा᳚य । प॒व॒मा॒न॒ । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान पवित्रेण पूयमान हे सोम अद्भिर्वसतीवर्यादिभिरुदकैः पपृचानस्य संपृच्य- मानस्य ते तव रसोव्ययः अवेर्वारं वालं दशापवित्रं विधावति विविधं प्राप्नोति । ततः हे मदिन्तम मादयितृतम हे पवमानसोम त्वं कविभिः क्रान्तकर्मभिः ऋत्विग्भिर्मृज्यमानः पूयमानः सन् इन्द्राय पीतये इन्द्रस्य पानार्थं स्वदस्व प्रियरसोभव ॥ ९ ॥
अभिप्रियाणीतिपंचर्च अष्टमं सूक्तं भार्गवस्यकवेरार्षं जागतं पवमानसोमदेवताकम् । तथानुक्रम्यते—अभिप्रियाणिपंचकविरिति । गतोविनियोगः ।