श्रवणम्

9.74.4
आ॒त्म॒न्वन्नभो᳚ दुह्यते घृ॒तं पय᳚ ऋ॒तस्य॒ नाभि᳚र॒मृतं॒ वि जा᳚यते ।
स॒मी॒ची॒नाः सु॒दान᳚वः प्रीणन्ति॒ तं नरो᳚ हि॒तमव᳚ मेहन्ति॒ पेर᳚वः ॥
▶ पदपाठः (Word-by-word)
आ॒त्म॒न्॑वत् । नभः᳚ । दु॒ह्य॒ते॒ । घृ॒तम् । पयः᳚ । ऋ॒तस्य᳚ । नाभिः᳚ । अ॒मृत᳚म् । वि । जा॒य॒ते॒ ।
स॒मी॒ची॒नाः । सु॒॑दान᳚वः । प्री॒ण॒न्ति॒ । तम् । नरः᳚ । हि॒तम् । अव᳚ । मे॒ह॒न्ति॒ । पेर᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत्मन्वत् अनोनुडितिनुडागमः । आत्मन्वत् सारवत् घृतं पयश्च नभोनभस आदित्य- रूपात् सोमोदुह्यते । किंच ऋतस्य यज्ञस्य नाभिः णहबन्धने स्वमोर्नपुंसकादिति सोलु- ङ्न भवति सर्वविधीनां छन्दसि विकल्पितत्वात् । नाभिर्यज्ञस्यबन्धकं अमृतमुदकंच विजा- यते तस्मादेवप्रादुर्भवति । ततः सुदानवः शोभनस्तुतिहविर्दानवन्तोयजमानाः समीचीनाः परस्परंसंगताःसन्तः तमिमंसोमं प्रीणंति प्रीणयन्ति स्तुतिभिस्तर्पयंति । अथ नरोनेतारः पेरवः । पारक्शणे मापोरित्वेरुन्नितिरुन् प्रत्ययः सर्वस्यरक्षकाः सोमरश्मयः हितं निहितं अवावस्तात् वर्तमानं पार्थिकमुदकं मेहन्ति वर्षन्ति । मिहसेचने भौवादिकः । यद्वा हित- मुदकंपृथिवीं प्रति मेहन्ति ॥ ४ ॥