श्रवणम्

9.74.7
श्वे॒तं रू॒पं कृ᳚णुते॒ यत्सिषा᳚सति॒ सोमो᳚ मी॒ढ्वा{4} असु᳚रो वेद॒ भूम᳚नः ।
धि॒या शमी᳚ सचते॒ सेम॒भि प्र॒वद्दि॒वस्कव᳚न्ध॒मव᳚ दर्षदु॒द्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
श्वे॒तम् । रू॒पम् । कृ॒णु॒ते॒ । यत् । सिसा᳚सति । सोमः᳚ । मी॒ढ्वान् । असु᳚रः । वे॒द॒ । भूम᳚नः ।
धि॒या । शमी᳚ । स॒च॒ते॒ । सः । ई॒म् । अ॒भि । प्र॒॑वत् । दि॒वः । कव᳚न्धम् । अव᳚ । द॒र्ष॒त् । उ॒द्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्वेतं दीप्यमानं शुक्लं रूपं कृणुते तदाकरोति । यद्यदा सिषासति स्वर्गं संभक्तुमिच्छति सोमेपात्राण्यागते सति तत्तेजसानुरंजितानां तेषां श्वेतं रूपं भवति । ततोमीढ्वान् मिहसे- चने अस्मात् क्वसौ दाश्वान् साह्वान् मीढ्वांश्चेति निपातनादभिमतरूपसिद्धिः । कामानां सेक्ता असुरः प्राज्ञः बलवान्वा सोमः भूमनः बहुधनानि वेद स्तोतृभ्योदातुं जानाति प्रयच्छतीतियावत् । सईं सोचिलोपेचेदितिसुलोपः सोयं धिया प्रज्ञानेन प्रवत् प्रकृष्टानि शमी द्वितीयायाः पूर्वसवर्णदीर्घः कर्माणि अभिसचते अभितः समवैति । किंच दिवोन्तरि- क्षात् उद्रिणं उदकवन्तं कवन्धं मेघं कवंधशब्देन मेघोभिधीयते । तात्स्थ्यात्ताच्छब्द्यमिति । मेघं अवदर्षत् अवदारयति विवृतद्वारंकरोति । मेघं विदार्यान्तरिक्षाद्वृष्टिं करोतीत्यर्थः ॥ ७ ॥