नवमं मण्डलम् - सूक्तम् 73

9 ऋचः

ऋषिः: पवित्रः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.73 - सम्पूर्णम्

1 / 9
ऋक्: 9.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
9.73.1 समानपद
स्रक्वे᳚ द्र॒प्सस्य॒ धम᳚त॒ः सम᳚स्वरन्नृ॒तस्य॒ योना॒ सम᳚रन्त॒ नाभ᳚यः ।
त्रीन्त्स मू॒र्ध्नो असु᳚रश्चक्र आ॒रभे᳚ स॒त्यस्य॒ नावः᳚ सु॒कृत᳚मपीपरन् ॥
▶ पदपाठः (Word-by-word)
स्रक्वे᳚ । द्र॒प्सस्य᳚ । धम᳚तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य᳚ । योना᳚ । सम् । अ॒र॒न्त॒ । नाभ᳚यः ।
त्रीन् । सः । मू॒र्ध्नः । असु᳚रः । च॒क्रे॒ । आ॒॑रभे᳚ । स॒त्यस्य᳚ । नावः᳚ । सु॒॑कृत᳚म् । अ॒पी॒प॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्रक्वे यज्ञस्य हनुस्थानीये स्रक्वे ओष्ठप्रान्तो हनुरुच्यते । अधिषवणफलके धमतोभिषूय- माणस्य द्रप्सस्य सोमस्यांशवः समस्वरन् संगच्छन्ते । तदास्यशब्दयन् वा ऋतस्य सत्यभूत- स्य यज्ञस्य योना उत्पत्तिस्थाने नाभयः सोमरसाः समरन्त संगच्छन्ते । अर्तेः समोगमी- त्यादिनात्मनेपदं सर्तिशास्त्यर्तिभ्यश्चेतिच्लेरङ् । अथ असुरोबलवान् सर्वेषांप्रीणनात् प्राण- दाता वा ससोमः मूर्ध्नः समुच्छ्रितान् त्रीन् लोकान् आरभे आरंभणाय मनुष्यदेवादीनां सं- चरणाय चक्रे करोति । किंच सत्यस्य सत्यभूतस्य सोमस्य नावः नौकाइव स्थिताः चतस्रः स्थाल्यः आदित्याग्रयणोक्थ्यध्रुवस्थाल्यइति ताः स्थाल्यः सुकृतं सुष्ठु कर्माणि कुर्वन्तं यज- मानमपीपरन् अभिमतदानेन पूजयन्ति वा । पारयतेर्लुङि चङि सन्वद्भावाभ्यासेत्वदीर्घाः ॥ १ ॥

9.73.2 समानपद
स॒म्यक्स॒म्यञ्चो᳚ महि॒षा अ᳚हेषत॒ सिन्धो᳚रू॒र्मावधि᳚ वे॒ना अ᳚वीविपन् ।
मधो॒र्धारा᳚भिर्ज॒नय᳚न्तो अ॒र्कमित्प्रि॒यामिन्द्र᳚स्य त॒न्व᳚मवीवृधन् ॥
▶ पदपाठः (Word-by-word)
स॒म्यक् । स॒म्यञ्चः᳚ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः᳚ । ऊ॒र्मौ । अधि᳚ । वे॒नाः । अ॒वी॒वि॒प॒न् ।
मधोः᳚ । धारा᳚भिः । ज॒नय᳚न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र᳚स्य । त॒न्व᳚म् । अ॒वी॒वृ॒ध॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिषाः पूज्याः महान्तोवा ऋत्विजः सम्यंचः परस्परंसंगताः सन्तः सम्यगहेषत सोमं स- म्यक् प्रेरयन्ति अभिषुण्वन्तीतियावत् । हिगतौ वृद्धौच लुङि सिचि रूपं ततः वेनाः वेनतेः कान्तिकर्मणइतियास्कः । स्वर्गादिफलंकामयमानाऋत्विजः सिंधोः स्यन्दमानस्योदकस्य ऊ- र्मावधि संघे वसतीवर्यादिषु जलेषु सोममवीविपन् कंपयंति तत्र प्रेरयन्तीत्यर्थः । वपतेर्ण्य न्तस्य लुङि चङि णौचङ्युपधायाह्रस्वइतिह्रस्वः । किंच अर्कमर्चनीयंस्तोत्रं जनयन्तः कुर्व- न्तः ते प्रियां प्रियतमां इन्द्रस्य तन्वं धाम च मधोर्मदकरस्य सोमस्य धाराभिः अवीवृधन् वर्धितवन्तः । वर्धतेर्लुङि चांङ रूपं ॥ २ ॥

9.73.3 समानपद
प॒वित्र᳚वन्त॒ः परि॒ वाच᳚मासते पि॒तैषां᳚ प्र॒त्नो अ॒भि र᳚क्षति व्र॒तम् ।
म॒हः स᳚मु॒द्रं वरु᳚णस्ति॒रो द᳚धे॒ धीरा॒ इच्छे᳚कुर्ध॒रुणे᳚ष्वा॒रभ᳚म् ॥
▶ पदपाठः (Word-by-word)
प॒वित्र᳚॑वन्तः । परि᳚ । वाच᳚म् । आ॒स॒ते॒ । पि॒ता । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् ।
म॒हः । स॒मु॒द्रम् । वरु᳚णः । ति॒रः । द॒धे॒ । धीराः᳚ । इत् । शे॒कुः॒ । ध॒रुणे᳚षु । आ॒॑रभ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवित्रवन्तः पवित्रेण शोधकेन सामर्थ्येनयुक्ताः सोमस्य रश्मयः वाचं सोमस्थितां मा- ध्यमिकां वाचं पर्यासते पर्युपविशन्ति । सोमः अन्तरिक्षेतिष्ठतिखलु । सोमोवैराजागंधर्वेष्वा- सीदित्याम्नानात् । ततः प्रत्नः पुराणः एषां रश्मीनां पितायंसोमश्च व्रतं प्रकाशनात्मकं क- र्माभिरक्षति अवितं करोति । किंच वरुणः सर्वस्य स्वतेजसाच्छादकः सोयं सोमः महो- महत् समुद्रमन्तरिक्षनामैतत् महदन्तरिक्षं तैरश्मिभिः तिरोदधे अन्तर्हितमकरोत् सर्वंव्या- प्नोदितियावत् । तमिमं सोमं धीराः इत् इदवधारणे कर्मणि कुशलाः प्राज्ञाएव ऋत्विजः धरुणेषु सर्वस्य धारकेषु वसतीवर्याख्येषूदकेषु आरभं आरब्धुं शेकुः शक्रुवन्ति च रभेस्तु- मर्थे शकिणमुल्कमुलौइति कमल् लित्स्वरेण मध्योदात्तः ॥ ३ ॥

9.73.4
स॒हस्र᳚धा॒रे॑व॒ ते सम᳚स्वरन्दि॒वो नाके॒ मधु᳚जिह्वा अस॒श्चतः᳚ ।
अस्य॒ स्पशो॒ न नि मि᳚षन्ति॒ भूर्ण᳚यः प॒देप᳚दे पा॒शिनः᳚ सन्ति॒ सेत᳚वः ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑धारे । अव᳚ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके᳚ । मधु᳚॑जिह्वाः । अ॒स॒श्चतः᳚ ।
अस्य᳚ । स्पशः᳚ । न । नि । मि॒ष॒न्ति॒ । भूर्ण᳚यः । प॒दे॑प᳚दे । पा॒शिनः᳚ । स॒न्ति॒ । सेत᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रधारे बहूदकधारा यस्मात् द्रवन्ति तत्तथोक्तमन्तरिक्षं तस्मिन् वर्तमानास्ते सोम- रश्मयः अव अवस्तात् स्थितां पृथिवीं समस्वरन् वृष्ट्यासंयोजयन्तीत्यर्थः । किंच दिवो- द्युलोकस्य नाके समुच्छ्रितेदेशे वर्तमानाः मधुजिह्वाः मध्वग्राः सोमतेजसा अग्रेभ्योहि मधू त्पन्नंभवति । अतोमधुजिह्वाः असश्चतः संगतवर्जिताः पृथक् पृथक् दिवि अवस्थिताः । अस्यसोमस्य स्वभूताःस्पशः चारभूताः रश्मयः भूर्णयः क्षिप्रगामिनः सन्तोन निमिषन्ति निमेषं न कुर्वन्ति । किंतु पाशिनः सुकृतिनश्च ज्ञातुं सर्वदा जाग्रतीत्यर्थः । अथवा राजा- नोदुष्टान् विवारयितुं सर्वदा जागरणं कुर्वन्ति तद्वत् । एवं ते रश्मयः पदेपदे स्थानेस्थाने सेतवः संबद्धाःसन्तः पाशिनः पापकृतां बाधकाः सन्ति भवन्ति ॥ ४ ॥

9.73.5
पि॒तुर्मा॒तुरध्या ये स॒मस्व᳚रन्नृ॒चा शोच᳚न्तः सं॒दह᳚न्तो अव्र॒तान् ।
इन्द्र᳚द्विष्टा॒मप᳚ धमन्ति मा॒यया॒ त्वच॒मसि᳚क्नीं॒ भूम᳚नो दि॒वस्परि᳚ ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । मा॒तुः । अधि᳚ । आ । ये । स॒म्॑अस्व᳚रन् । ऋ॒चा । शोच᳚न्तः । स॒म्॑दह᳚न्तः । अ॒व्र॒तान् ।
इन्द्र᳚॑द्विष्टाम् । अप᳚ । ध॒म॒न्ति॒ । मा॒यया᳚ । त्वच᳚म् । असि᳚क्नीम् । भूम᳚नः । दि॒वः । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितुर्मातुः द्यावापृथिव्योः । द्यौर्मेपिताजनितानाभिरत्रबन्धुर्मेमातापृथिवीमहीयमित्या- दिषु । द्यावापृथिव्योः मातापितृत्वाम्नानात् । द्यावापृथिवीभ्यां ये सोमस्य रश्मयः अध्या समस्वरन् अधिकं प्रादुर्भूताअभवन् । तेऋचा ऋत्विग्भिः क्रियमाणया स्तुत्या शोचन्तो- दीप्यमानाः अव्रतान् कर्मरहितान् यजमानान् संदहन्तः सम्यक् विनाशयन्तः ते रश्मयः इन्द्रद्विष्टां इन्द्राय द्वेषकारिणीम् । क्तेचेति पूर्वपदप्रकृतिस्वरः । इन्द्रेणद्विष्टां वा असिक्नीम् । रात्रिनामैतत् । रात्रिवत् कृष्णरूपां त्वचं राक्षसमित्यर्थः । मायया कर्मणा प्रज्ञया वा भूमनोविस्तृताः भूलोकात् दिवस्परि द्युलोकाच्च अपधमन्ति अपगतं कुर्वन्ति अपघ्नन्ती- त्यर्थः ॥ ५ ॥

9.73.6
प्र॒त्नान्माना॒दध्या ये स॒मस्व᳚र॒ञ्छ्लोक᳚यन्त्रासो रभ॒सस्य॒ मन्त᳚वः ।
अपा᳚न॒क्षासो᳚ बधि॒रा अ᳚हासत ऋ॒तस्य॒ पन्थां॒ न त᳚रन्ति दु॒ष्कृतः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒त्नात् । माना᳚त् । अधि᳚ । आ । ये । स॒म्॑अस्व᳚रन् । श्लोक᳚॑यन्त्रासः । र॒भ॒सस्य᳚ । मन्त᳚वः ।
अप᳚ । अ॒न॒क्षासः᳚ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य᳚ । पन्था᳚म् । न । त॒र॒न्ति॒ । दुः॒॑कृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्लोकयंत्रासः श्लोकाः स्तुतयः स्तुतिनियमना रभसस्यमन्तवः वेगमतिमन्यमानाः ए- तादृशायेसोमरश्मयः प्रत्नात् पुराणात् मानात् अन्तरिक्षादध्यासमस्वरन् सहप्रादुर्भूताअ- भवन् तान् रश्मीन् अनक्षासः चक्षुर्वर्जिताः साधुपदार्थानामद्रष्टारोनराः बधिराः देवता- स्तुतिश्रवणवर्जिताः पापकृतोनरश्च अपहासत तान् परित्यजन्ति । दर्शिनः श्रवणवन्तोमेधा- विनस्तु नपरिजहति किंतु स्तुवन्ति । तदेवाह—ऋतस्य सत्यस्य पंथां मार्गभूतमेषां गणं दुष्कृतः पापकृतोनरानतरन्ति नोत्तारयन्ति सुकृतिनस्तु तरन्तीत्यभिप्रायः ॥ ६ ॥

9.73.7 समानपद
स॒हस्र᳚धारे॒ वित᳚ते प॒वित्र॒ आ वाचं᳚ पुनन्ति क॒वयो᳚ मनी॒षिणः᳚ ।
रु॒द्रास᳚ एषामिषि॒रासो᳚ अ॒द्रुह॒ः स्पश॒ः स्वञ्च᳚ः सु॒दृशो᳚ नृ॒चक्ष᳚सः ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑धारे । वि॑त᳚ते । प॒वित्रे᳚ । आ । वाच᳚म् । पु॒न॒न्ति॒ । क॒वयः᳚ । म॒नी॒षिणः᳚ ।
रु॒द्रासः᳚ । ए॒षा॒म् । इ॒षि॒रासः᳚ । अ॒द्रुहः᳚ । स्पशः᳚ । सु॒॑अञ्चः᳚ । सु॒॑दृशः᳚ । नृ॒॑चक्ष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवयः क्रान्तकर्माणः अतएव मनीषिणः प्राज्ञाऋत्विजः सहस्रधारे अनेकधारोपेते वि- तते कर्मणि विस्तृते पवित्रे शुध्युत्पादकेसोमे वर्तमानां वाचं माध्यमिकां सोमःखलु वि- श्वावसुप्रभृतिगंधर्वाश्चान्तरिक्षेतिष्ठन् । सोमोवैराजागंधर्वेष्वासीदि तिश्रवणात् । तत्रवर्तमानं सोमं देवागोपया वाचा क्रीतवन्तः तदासोद्मोवाक् तिष्ठतीति शक्यते वक्तुम् । तस्मात् सोमे- स्थितां माध्यमिकांवाचमापुनंति संस्कुर्वन्ति स्तुवन्तीतियावत् । यउक्तगुणां मरुतांमातरं माध्यमिकां वाचं स्तुवन्ति तेषां रुद्रासोरुद्रपुत्रा मध्यमवाचापुत्रामरुतः स्पशः वाचावशिनो- भवन्ति । कीदृशा इषिरासः इषिरागमनशीलाः अद्रुहः स्तोतॄणामद्रोग्धारः । कर्मणिक्विबौणा दिकः । परैरहिंस्याः स्वंचः शोभनाञ्चनाः अतएव सुदृशः सुदर्शनाः नृचक्षसोनृणांकर्मनेतॄणां द्रष्टारः ॥ ७ ॥

9.73.8
ऋ॒तस्य᳚ गो॒पा न दभा᳚य सु॒क्रतु॒स्त्री ष प॒वित्रा᳚ हृ॒द्य१॒᳚न्तरा द᳚धे ।
वि॒द्वान्त्स विश्वा॒ भुव᳚ना॒भि प᳚श्य॒त्यवाजु᳚ष्टान्विध्यति क॒र्ते अ᳚व्र॒तान् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । गो॒पाः । न । दभा᳚य । सु॒॑क्रतुः᳚ । त्री । सः । प॒वित्रा᳚ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ ।
वि॒द्वान् । सः । विश्वा᳚ । भुव᳚ना । अ॒भि । प॒श्य॒ति॒ । अव᳚ । अजु᳚ष्टान् । वि॒ध्य॒ति॒ । क॒र्ते । अ॒व्र॒तान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य सत्यभूतस्य यज्ञस्य गोपा गोपायिता अतएव सुक्रतुः शोभनकर्मा सोमः नद भाय दंभाय स्तंभनाय नभवति परैर्दंभयितुं नशक्यतइत्यर्थः । किंच ससोमः त्री शेश्छन्दसि बहुलमितिलुक् त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि त्रीणि पवित्राणि हृद्यन्तः हृदयस्या- न्तः आददे आदधाति स्वस्मिन् संगमयतीत्यर्थः । अपिच विद्वान् सर्वंजानानः ससोमः विश्वा भुवना सर्वाणि भुवनानि अभिपश्यति ततः कर्ते करोतेरौणादिकस्तप्रत्ययः कर्मण्य- जुष्टानप्रियान् अतएबाव्रतानयजमानान् अवविध्यति अवाङ्मुखान् कृत्वा ताडयति हिन- स्तीतियावत् ॥ ८ ॥

9.73.9
ऋ॒तस्य॒ तन्तु॒र्वित᳚तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु᳚णस्य मा॒यया᳚ ।
धीरा᳚श्चि॒त्तत्स॒मिन᳚क्षन्त आश॒तात्रा᳚ क॒र्तमव᳚ पदा॒त्यप्र᳚भुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । तन्तुः᳚ । वि॑त᳚तः । प॒वित्रे᳚ । आ । जि॒ह्वायाः᳚ । अग्रे᳚ । वरु᳚णस्य । मा॒यया᳚ ।
धीराः᳚ । चि॒त् । तत् । स॒म्॑इन᳚क्षन्तः । आ॒श॒त॒ । अत्र᳚ । क॒र्तम् । अव᳚ । प॒दा॒ति॒ । अप्र᳚॑भुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य सत्यभूतस्य यज्ञस्य तन्तुस्तनिता पवित्रे अविवालमये दशापवित्रे विततोवि- स्तृतः । यद्वा पवित्रे अन्तरिक्षे विस्तृतः सोमः वरुणस्य जिह्वायाअग्रे मायया कर्मणा आ- स्थित वरुणजिह्वाग्रे आपस्तिष्ठन्ति तासु सोमोवसतीति वसतीवर्याद्युदकेस्थितइत्यर्थः । ततः धीराश्चित् कर्मणिप्राज्ञाएव तत् वरुणजिह्वाग्रस्थानं समिनक्षन्तः इनक्षतिर्गतिकर्मा । संव्याप्नुवन्तः सन्तआशत । स्तुतिभिर्हविर्भिर्वा प्राप्नुवन् यः पुनः कर्तं कालाध्वनोरितिद्विती- या । कर्मणिअप्रभुः समर्थोन भवति सोद्यमत्रास्मिन्नेवलोके अवपदाति अवस्तान्नरकेपतति नोपरिगच्छति । पदगतौ लेट्यडागमः तस्मात् । सर्वैः अग्निष्टोमादिकर्म कर्तव्यमित्येषोर्थो- भिहितोभवति ॥ ९ ॥

शिशुर्नेतिनवर्चं सप्तमंसूक्तं दैर्घतमस्यस्य कक्षीवतआर्षं पवमानसोमदेवताकं अष्टमीत्रिष्टुप् शिष्टाजगत्यः । तथाचानुक्रम्यते—शिशुर्नकक्षीवांस्त्रिष्टुबष्टमीति । गतः सूक्तविनियोगः ।