नवमं मण्डलम् - सूक्तम् 100

9 ऋचः

ऋषिः: रेभसूनू काश्यपौ देवता: पवमानः सोमः छन्दः: अनुष्टुप्

सूक्तम् 9.100 - सम्पूर्णम्

1 / 9
ऋक्: 9.100.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
9.100.1
अ॒भी न᳚वन्ते अ॒द्रुहः᳚ प्रि॒यमिन्द्र᳚स्य॒ काम्य᳚म् ।
व॒त्सं न पूर्व॒ आयु᳚नि जा॒तं रि᳚हन्ति मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । न॒व॒न्ते॒ । अ॒द्रुहः᳚ । प्रि॒यम् । इन्द्र᳚स्य । काम्य᳚म् ।
व॒त्सम् । न । पूर्वे᳚ । आयु᳚नि । जा॒तम् । रि॒ह॒न्ति॒ । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथा मातरोगावः पूर्वे प्रथमे आयुनि वयसि जातंवत्सं रिहंतिलिहन्ति तथा अद्रुहः अद्रोहाः वसतीवर्याख्याः आपः इन्द्रस्यप्रियं काम्यं सर्वैःकाम्यमानं सोममभिनवन्ते अभिग- च्छन्ति ॥ १ ॥

9.100.2
पु॒ना॒न इ᳚न्द॒वा भ᳚र॒ सोम᳚ द्वि॒बर्ह᳚सं र॒यिम् ।
त्वं वसू᳚नि पुष्यसि॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । आ । भ॒र॒ । सोम᳚ । द्वि॒॑बर्ह᳚सम् । र॒यिम् ।
त्वम् । वसू᳚नि । पु॒ष्य॒सि॒ । विश्वा᳚नि । दा॒शुषः᳚ । गृ॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो दीप्यमान हे सोम पुनानः पूयमानस्त्वं द्विबर्हसं द्रयोःस्थानयोः परिबृंहण- शीलं रयिं धनं अस्मभ्यमाभराहर देहि त्वं हि दाशुषोहविर्दत्तवतोयजमानस्य गृहेस्थि- त्वा विश्वानि सर्वाणि वसूनि धनानि पुष्यसि पोषयसि ॥ २ ॥

9.100.3 समानपद
त्वं धियं᳚ मनो॒युजं᳚ सृ॒जा वृ॒ष्टिं न त᳚न्य॒तुः ।
त्वं वसू᳚नि॒ पार्थि᳚वा दि॒व्या च᳚ सोम पुष्यसि ॥
▶ पदपाठः (Word-by-word)
त्वम् । धिय᳚म् । म॒नः॒॑युज᳚म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः ।
त्वम् । वसू᳚नि । पार्थि᳚वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं मनोयुजं मनसा युज्यमानां मनोवेगां धियं ध्यातव्यां धारां सृज पात्रेषु विसृज । तत्रदृष्टान्तः—वृष्टिंन तन्यतुः तनुविस्तारे ऋतन्यञ्जीत्यादिनायतुच् प्रत्ययः तनोति विस्तारयतीति तन्यतुर्मेघः यथा मेघोवृष्टिं सृजति तद्वत् । ततोहेसोम त्वं पार्थिवा पृथि- व्यांभवानि वसूनि धनानि तथा दिव्यानि दिविभवानि धनानिच पुष्यसि अस्मभ्यं पोष- यसि प्रयच्छसीत्यर्थः ॥ ३ ॥

9.100.4
परि᳚ ते जि॒ग्युषो᳚ यथा॒ धारा᳚ सु॒तस्य᳚ धावति ।
रंह᳚माणा॒ व्य१॒᳚व्ययं॒ वारं᳚ वा॒जीव᳚ सान॒सिः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । ते॒ । जि॒ग्युषः᳚ । य॒था॒ । धारा᳚ । सु॒तस्य᳚ । धा॒व॒ति॒ ।
रंह᳚माणा । वि । अ॒व्यय᳚म् । वार᳚म् । वा॒जी॑इ᳚व । सा॒न॒सिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतस्य ते त्वदीया सानसिः संभजनशीला यद्वा स्तोतृभिः संभजनीया रंहमाणा वेगं- कुर्वाणा धारा अव्ययं अविमयं वारं वालं पवित्रं विपरिधावति विशेषेणपरितोगच्छति तत्रदृष्टान्तः—जिग्युषः शत्रूणांजेतुः वीरस्य वाजीव अश्वोयथा युद्धं परितोधावति तद्वत् । जयतेः क्वसौ सन् लिटोर्जेरिति कुत्वं यथेतिपूरकः ॥ ४ ॥

9.100.5
क्रत्वे॒ दक्षा᳚य नः कवे॒ पव᳚स्व सोम॒ धार᳚या ।
इन्द्रा᳚य॒ पात᳚वे सु॒तो मि॒त्राय॒ वरु᳚णाय च ॥
▶ पदपाठः (Word-by-word)
क्रत्वे᳚ । दक्षा᳚य । नः॒ । क॒वे॒ । पव᳚स्व । सो॒म॒ । धार᳚या ।
इन्द्रा᳚य । पात᳚वे । सु॒तः । मि॒त्राय᳚ । वरु᳚णाय । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तदर्शन हे सोम नोस्मभ्यं क्रत्वे प्रज्ञानाय दक्षाय बलाय च त्वं धारया पवस्व क्षर । कीदृशः इन्द्राय पातवे पानार्थं तथा मित्राय वरुणायच सुतोभिषुतः खलु ॥ ५ ॥

9.100.6 समानपद
पव᳚स्व वाज॒सात᳚मः प॒वित्रे॒ धार᳚या सु॒तः ।
इन्द्रा᳚य सोम॒ विष्ण᳚वे दे॒वेभ्यो॒ मधु᳚मत्तमः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । वा॒ज॒॑सात᳚मः । प॒वित्रे᳚ । धार᳚या । सु॒तः ।
इन्द्रा᳚य । सो॒म॒ । विष्ण᳚वे । दे॒वेभ्यः᳚ । मधु᳚मत्॑तमः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वाजसातमः अतिशयेनान्नस्यदाता सुतोभिषुतस्त्वं पवित्रे धारयासह पवस्व क्षर । ततः हे सोम त्वं इन्द्राय विष्णवेच अन्येभ्योमित्रादिभ्योदेवेभ्यश्च मधुमत्तमः अति शयेन माधुर्योपेतोभव ॥ ६ ॥

9.100.7 समानपद
त्वां रि᳚हन्ति मा॒तरो॒ हरिं᳚ प॒वित्रे᳚ अ॒द्रुहः᳚ ।
व॒त्सं जा॒तं न धे॒नव॒ः पव᳚मान॒ विध᳚र्मणि ॥
▶ पदपाठः (Word-by-word)
त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः᳚ । हरि᳚म् । प॒वित्रे᳚ । अ॒द्रुहः᳚ ।
व॒त्सम् । जा॒तम् । न । धे॒नवः᳚ । पव᳚मान । वि॑ध᳚र्मणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम विधर्मणि विविधं हविषांधारके यज्ञे अद्रुहः द्रोहवर्जितः मातरोमातृ- भूता वसतीवर्यः हरिं हरितवर्णं त्वां पवित्रे स्थितं रिहन्ति लिहन्ति आस्वादयन्ति । कथमिव यथा धेनवोजातंवत्सं लिहन्ति तथा ॥ ७ ॥

9.100.8 समानपद
पव᳚मान॒ महि॒ श्रव᳚श्चि॒त्रेभि᳚र्यासि र॒श्मिभि᳚ः ।
शर्ध॒न्तमां᳚सि जिघ्नसे॒ विश्वा᳚नि दा॒शुषो᳚ गृ॒हे ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । महि᳚ । श्रवः᳚ । चि॒त्रेभिः᳚ । या॒सि॒ । र॒श्मि॑भिः᳚ ।
शर्ध᳚न् । तमां᳚सि । जि॒घ्न॒से॒ । विश्वा᳚नि । दा॒शुषः᳚ । गृ॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान महि महत् श्रवः श्रवणीयमन्तरिक्षं चित्रेभिश्चित्रैर्नानाषिधैश्चायनीयैर्वा र- श्मिभिः परियासि परिगच्छसि । तथा शर्धन् वेगंकुर्वस्त्वं दाशुषो हविर्दत्तवतोयजमानस्य- गृहे स्थित्वा विश्वानि सर्वाणि तमांसि तमोरूपाणि रक्षांसि जिघ्नसे हंसि एवं द्यावा- पृथिव्योः वर्तसे इत्यर्थः ॥ ८ ॥

9.100.9
त्वं द्यां च᳚ महिव्रत पृथि॒वीं चाति᳚ जभ्रिषे ।
प्रति᳚ द्रा॒पिम᳚मुञ्चथा॒ः पव᳚मान महित्व॒ना ॥
▶ पदपाठः (Word-by-word)
त्वम् । द्याम् । च॒ । म॒हि॒॑व्र॒त॒ । पृ॒थि॒वीम् । च॒ । अति᳚ । ज॒भ्रि॒षे॒ ।
प्रति᳚ । द्रा॒पिम् । अ॒मु॒ञ्च॒थाः॒ । पव᳚मान । म॒हि॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महिव्रत महाकर्मन् बहुविधकर्मन् सोम त्वं द्यां द्युलोकंचपृथिवींच अतिजभ्रिषे अ- त्यन्तंबिभर्षि । डुभृञ् धारणपोषणयोः । तस्यछन्दसिलिटि सर्वविधीनांछन्दासविकल्पितत्वा- दत्र इडागमः । अन्तरिक्षे सोमात्मनेति पृथिव्यां लतारूपेणेति एवंलोकद्वयवर्तित्वम् । हे पव- मान क्षरन् सोम त्वं महित्वना महत्त्वेनयुक्तःसन् द्रापिं कवचं प्रत्यमुंचथाः प्रतिमुंचसि संवृणोषि ॥ ९ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण साय- णाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके चतुर्थोध्यायः ॥ ४ ॥