नवमं मण्डलम् - सूक्तम् 39

6 ऋचः

ऋषिः: बृहन्मतिः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.39 - सम्पूर्णम्

1 / 6
ऋक्: 9.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.39.1
आ॒शुर᳚र्ष बृहन्मते॒ परि᳚ प्रि॒येण॒ धाम्ना᳚ ।
यत्र᳚ दे॒वा इति॒ ब्रव᳚न् ॥
▶ पदपाठः (Word-by-word)
आ॒शुः । अ॒र्ष॒ । बृ॒ह॒त्॑म॒ते॒ । परि᳚ । प्रि॒येण᳚ । धाम्ना᳚ ।
यत्र᳚ । दे॒वाः । इति᳚ । ब्रव᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहन्मते महामते सोम प्रियेण देवानां प्रियतमेन धाम्ना शरीरेण धारया आशुः शीघ्रःसन् पर्यर्ष परिगच्छ । यत्रदेवाइन्द्रादयो वर्तन्ते इतिब्रवन् ब्नुवन्नुच्चारयन् तां दिशं गच्छामीति ब्रुवन्नित्यर्थः ॥ १ ॥

9.39.2
प॒रि॒ष्कृ॒ण्वन्ननि᳚ष्कृतं॒ जना᳚य या॒तय॒न्निषः᳚ ।
वृ॒ष्टिं दि॒वः परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
प॒रि॒॑कृ॒ण्वन् । अनिः᳚॑कृतम् । जना᳚य । या॒तय᳚न् । इषः᳚ ।
वृ॒ष्टिम् । दि॒वः । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अनिष्कृतं संस्कृतं यजमानं स्थानं वा परिष्कृण्वन् संस्कुर्वन् जनाय यागकर्त्रे इषोन्नानि यातयन् निर्गमयन् दिवोन्तरिक्षात् वृष्टिं परिस्रव ॥ २ ॥

9.39.3
सु॒त ए᳚ति प॒वित्र॒ आ त्विषिं॒ दधा᳚न॒ ओज᳚सा ।
वि॒चक्षा᳚णो विरो॒चय᳚न् ॥
▶ पदपाठः (Word-by-word)
सु॒तः । ए॒ति॒ । प॒वित्रे᳚ । आ । त्विषि᳚म् । दधा᳚नः । ओज᳚सा ।
वि॒॑चक्षा᳚णः । वि॒॑रो॒चय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतः सोमःसन् पवित्रे दशापवित्रे आइत्यनर्थकः ओजसा बलेन शीघ्रं एति गच्छति । कीदृशःसन् त्विषिं दीप्तिं दधानो धारयन् विचक्षणः सर्वं पश्यन् विरोचयन् दीपयंश्च । किं देवानितिशेषः ॥ ३ ॥

9.39.4
अ॒यं स यो दि॒वस्परि᳚ रघु॒यामा᳚ प॒वित्र॒ आ ।
सिन्धो᳚रू॒र्मा व्यक्ष᳚रत् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । यः । दि॒वः । परि᳚ । र॒घु॒॑यामा᳚ । प॒वित्रे᳚ । आ ।
सिन्धोः᳚ । ऊ॒र्मा । वि । अक्ष᳚रत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं ससोमः पवित्रे आसिच्यमानइतिशेषः । सिंधोर्जलस्राविण्याऊर्मा ऊर्मौ संघाते व्यक्षरत् विविधं क्षरति । सइत्युक्तं कइत्याह-योदिवस्परि द्युलोकस्योपरि रघुयामा लघुगमनः देवप्राप्तौ सोयमिति संबन्धः ॥ ४ ॥

9.39.5
आ॒विवा᳚सन्परा॒वतो॒ अथो᳚ अर्वा॒वतः᳚ सु॒तः ।
इन्द्रा᳚य सिच्यते॒ मधु᳚ ॥
▶ पदपाठः (Word-by-word)
आ॒॑विवा᳚सन् । प॒रा॒॑वतः᳚ । अथो॒ इति᳚ । अ॒र्वा॒॑वतः᳚ । सु॒तः ।
इन्द्रा᳚य । सि॒च्य॒ते॒ । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतःसोमः परावतः दूरनामैतत् दूरस्थानात् अथो अपिचार्वावतोन्तिकस्थांश्च देवानाविवासन् रसेन परिचरणायेत्यर्थः इन्द्रायेन्द्रार्थं मधु मधुसदृशः सोमः सिच्यते ॥ ५ ॥

9.39.6
स॒मी॒ची॒ना अ᳚नूषत॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
योना᳚वृ॒तस्य᳚ सीदत ॥
▶ पदपाठः (Word-by-word)
स॒मी॒ची॒नाः । अ॒नू॒ष॒त॒ । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
योनौ᳚ । ऋ॒तस्य᳚ । सी॒द॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समीचीनाः सम्यगंचिताः संगताःस्तोतारोनूषत स्तुवन्ति । किंच सोमं हरिं हरितवर्णं हिन्वन्ति प्रेरयन्ति गमयन्ति अद्रिभिर्ग्रावभिः । यस्मादेवं तस्मात् ऋतस्य यज्ञस्य योनौ स्थाने सीदत निषण्णाभवत हे देवाः ॥ ६ ॥

पुनानइति षळृचं षोडशं सूक्तं ऋष्याद्याः पूर्ववत् । पुनानइत्यनुक्रान्तम् । गतोविनियोगः ।