नवमं मण्डलम् - सूक्तम् 28

6 ऋचः

ऋषिः: प्रियमेध देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.28 - सम्पूर्णम्

1 / 6
ऋक्: 9.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.28.1
ए॒ष वा॒जी हि॒तो नृभि᳚र्विश्व॒विन्मन᳚स॒स्पति᳚ः ।
अव्यो॒ वारं॒ वि धा᳚वति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वा॒जी । हि॒तः । नृ॑भिः᳚ । वि॒श्व॒॑वित् । मन᳚सः । पतिः᳚ ।
अव्यः᳚ । वार᳚म् । वि । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमो वाजी गमनशीलो नृभिः हितः अध्वर्युभिः पात्रेनिहितः विश्ववित् सर्वज्ञः मनसः स्तोत्रस्य पतिः स्वामी । अथवा सोमस्यमनोभिमा- नित्वात् मनसः स्वामित्वम् । चन्द्रमा मनोभूत्वा हृदयं प्राविशदितिश्रुतेः । तादृशोसौ अव्योवारं अवेर्वालं दशापवित्रं विधावति विविधं गच्छति ॥ १ ॥

9.28.2
ए॒ष प॒वित्रे᳚ अक्षर॒त्सोमो᳚ दे॒वेभ्य᳚ः सु॒तः ।
विश्वा॒ धामा᳚न्यावि॒शन् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । प॒वित्रे᳚ । अ॒क्ष॒र॒त् । सोमः᳚ । दे॒वेभ्यः᳚ । सु॒तः ।
विश्वा᳚ । धामा᳚नि । आ॒॑वि॒शन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमो देवेभ्यो देवार्थं सुतोभिषुतःसन् पवित्रेअक्षरत् स्रवति । विश्वा सर्वाणि धामानि देवशरीराणि आविशन् प्रविशन् प्रवेष्टुमित्यर्थः ॥ २ ॥

9.28.3
ए॒ष दे॒वः शु᳚भाय॒ते॑धि॒ योना॒वम᳚र्त्यः ।
वृ॒त्र॒हा दे᳚व॒वीत᳚मः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि᳚ । योनौ᳚ । अम᳚र्त्यः ।
वृ॒त्र॒॑हा । दे॒व॒॑वीत᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमोदेवः शुभायते शोभते कुत्र अधियोनौ स्वीये स्थाने । कीदृशएषः अमर्त्यः अमरणधर्मा वृत्रहा शत्रुहन्ता देववीतमो विशेषेण देवानां कामयिता ॥ ३ ॥

9.28.4
ए॒ष वृषा॒ कनि᳚क्रदद्द॒शभि᳚र्जा॒मिभि᳚र्य॒तः ।
अ॒भि द्रोणा᳚नि धावति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वृषा᳚ । कनि᳚क्रदत् । द॒श॑भिः᳚ । जा॒मि॑भिः᳚ । य॒तः ।
अ॒भि । द्रोणा᳚नि । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः वृषा वर्षिता कामानां कनिक्रदत् शब्दंकुर्वन् दशभिर्जामिभिरंगुलिभिः यतोधृतो द्रोणानि द्रुममयानि पात्राण्यभिधावति अभिगच्छति ॥ ४ ॥

9.28.5
ए॒ष सूर्य᳚मरोचय॒त्पव᳚मानो॒ विच᳚र्षणिः ।
विश्वा॒ धामा᳚नि विश्व॒वित् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । सूर्य᳚म् । अ॒रो॒च॒य॒त् । पव᳚मानः । वि॑च᳚र्षणिः ।
विश्वा᳚ । धामा᳚नि । वि॒श्व॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः सूर्यमरोचयत् रोचयति स्वरसेन । पवमानः पूयमानो विचर्षणिः सर्वस्य द्रष्टा विश्ववित् सर्ववित् । नकेवलं सूर्यं किंतु विश्वा सर्वाणि धामानि तेजःस्थानानि रोचयति ॥ ५ ॥

9.28.6
ए॒ष शु॒ष्म्यदा᳚भ्य॒ः सोमः᳚ पुना॒नो अ᳚र्षति ।
दे॒वा॒वीर᳚घशंस॒हा ॥
▶ पदपाठः (Word-by-word)
ए॒षः । शु॒ष्मी । अदा᳚भ्यः । सोमः᳚ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
दे॒व॒॑अ॒वीः । अ॒घ॒शं॒स॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः शुष्मी बलवान् अदाभ्यः अदंभनीयः पुनानः पूयमानः अर्षति गच्छति देवावीर्देवानामविता अघशंसहा अघान् शंसतीत्यघशंसास्तेषां हन्ता ॥ ६ ॥

प्रास्येति षळृचं पंचमं सूक्तं नृमेधस्यांगिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यतेच-प्रास्यनृमेधइति । गतोविनियोगः ।