नवमं मण्डलम् - सूक्तम् 58

4 ऋचः

ऋषिः: अवत्सारः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.58 - सम्पूर्णम्

1 / 4
ऋक्: 9.58.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.58.1
तर॒त्स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध᳚सः ।
तर॒त्स म॒न्दी धा᳚वति ॥
▶ पदपाठः (Word-by-word)
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा᳚ । सु॒तस्य᳚ । अन्ध᳚सः ।
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मंदी देवानां हर्षकरः ससोमः तरत् स्तोतॄन् पाप्मनः सकाशात्तारयन् धावति पवते । तदे- व दर्शयति सुतस्याभिषुतस्यांधसो देवानामन्नात्मकस्य सोमस्य धारा धावतीति । पुनरपि त- देवाहात्यन्तादरार्थं तरत्समन्दी धावति । यद्वास्याऋचोयास्केनोक्तोर्थोद्रष्टव्यस्तद्यथा—तरति- सपापंसर्वं मंदी यः स्तौति धावति गच्व्छत्यूर्ध्वांगतिं धारासुतस्यांधसो धारयाभिषुतस्य सोमस्य मंत्रपूतस्य वाचास्तुतस्येति ॥ १ ॥

9.58.2
उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त᳚स्य दे॒व्यव᳚सः ।
तर॒त्स म॒न्दी धा᳚वति ॥
▶ पदपाठः (Word-by-word)
उ॒स्रा । वे॒द॒ । वसू᳚नाम् । मर्त᳚स्य । दे॒वी । अव᳚सः ।
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसूनां धनानां उस्रोत्सरणशीला प्रदात्री देवी द्योतमाना स्तूयमानावा यस्य सोमस्य धारा मर्तस्य मनुष्यं यजमानं अवसोरक्षितुं वेद जानाति । सिद्धमन्यत् ॥ २ ॥

9.58.3
ध्व॒स्रयो᳚ः पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे ।
तर॒त्स म॒न्दी धा᳚वति ॥
▶ पदपाठः (Word-by-word)
ध्व॒स्रयोः᳚ । पु॒रु॒॑सन्त्योः᳚ । आ । स॒हस्रा᳚णि । द॒द्म॒हे॒ ।
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ध्वस्रयोः पुरुषंत्योर्ध्वस्रः कश्चिद्राजा पुरुषन्तिश्च कश्चित् तयोरुभयोरत्रेतरेतरयोगविवक्ष- या द्विवचनं द्रष्टव्यम् । सहस्राणि धनानां सहस्राण्यादद्महे वयं प्रतिगृह्णीमः । तदस्माभिःप्रतिगृ- हीतं धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयतइतिसोमस्यस्तुतिः । सिद्धमन्यत् । यथा वत्सार- एतयोर्धनानि प्रतिजग्राहैवं तरंतपुरुमीह्ळौ प्रतिजगृहतुः । तथाच शाट्यायनकं—अथहवैतरं- तपुरुमीह्ळौ वैददश्वीध्वस्रयोः पुरुषंत्योर्बहुप्रतिगृह्य गरगिराविवमेनाते तौहस्मांगुल्यासातं प्रतिमृशाते तावकामयेतामसातंनाविवेदं सातंस्यादात्तमिवैव नप्रतिगृहीतमितिभावे तच्चतुरृ- चमपश्यतां तेनप्रत्यैतां ततोवैतयोरसातं सातमभवदात्तमिवैव नप्रतिगृहीतं सयः प्रतिप्रतिगृ- ह्य कामयेतेत्यादि ॥ ३ ॥

9.58.4
आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म᳚हे ।
तर॒त्स म॒न्दी धा᳚वति ॥
▶ पदपाठः (Word-by-word)
आ । ययोः᳚ । त्रिं॒शत᳚म् । तना᳚ । स॒हस्रा᳚णि । च॒ । दद्म᳚हे ।
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ययोर्ध्वस्रपुरुषंत्योस्त्रिंशतं त्रीणिशतानि सहस्राणि तना वस्त्राण्यादद्महे वयंप्रतिगृह्णीमः । तयोरस्माभिः प्रतिगृहीतं तत्सर्वमप्रतिगृहीतमस्त्विति सोमं ऋषिः प्रार्थयते इति सोमस्यैवस्तु तिः । सिद्धमन्यत् ॥ ४ ॥

पवस्वेति चतुरृचं पंचत्रिंशं सूक्तं ऋष्याद्याःपूर्ववत् । पवस्वेत्यनुक्रान्तम् । गतोविनियोगः ।