श्रवणम्

9.58.1
तर॒त्स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध᳚सः ।
तर॒त्स म॒न्दी धा᳚वति ॥
▶ पदपाठः (Word-by-word)
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा᳚ । सु॒तस्य᳚ । अन्ध᳚सः ।
तर᳚त् । सः । म॒न्दी । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मंदी देवानां हर्षकरः ससोमः तरत् स्तोतॄन् पाप्मनः सकाशात्तारयन् धावति पवते । तदे- व दर्शयति सुतस्याभिषुतस्यांधसो देवानामन्नात्मकस्य सोमस्य धारा धावतीति । पुनरपि त- देवाहात्यन्तादरार्थं तरत्समन्दी धावति । यद्वास्याऋचोयास्केनोक्तोर्थोद्रष्टव्यस्तद्यथा—तरति- सपापंसर्वं मंदी यः स्तौति धावति गच्व्छत्यूर्ध्वांगतिं धारासुतस्यांधसो धारयाभिषुतस्य सोमस्य मंत्रपूतस्य वाचास्तुतस्येति ॥ १ ॥