नवमं मण्डलम् - सूक्तम् 8

9 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.8 - सम्पूर्णम्

1 / 9
ऋक्: 9.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
9.8.1
ए॒ते सोमा᳚ अ॒भि प्रि॒यमिन्द्र᳚स्य॒ काम᳚मक्षरन् ।
वर्ध᳚न्तो अस्य वी॒र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमाः᳚ । अ॒भि । प्रि॒यम् । इन्द्र᳚स्य । काम᳚म् । अ॒क्ष॒र॒न् ।
वर्ध᳚न्तः । अ॒स्य॒ । वी॒र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते अभिषुता इमे सोमाः अस्येन्द्रस्य वीर्यं शक्तिं वर्धन्तो वर्धयन्त इन्द्रस्य कामं काम्यं प्रियं प्रीतिकरं रसं अभ्यक्षरन् अभिपवन्ते अभ्यवर्षन् ॥ १ ॥

9.8.2
पु॒ना॒नास᳚श्चमू॒षदो॒ गच्छ᳚न्तो वा॒युम॒श्विना᳚ ।
ते नो᳚ धान्तु सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नासः᳚ । च॒मू॒॑सदः᳚ । गच्छ᳚न्तः । वा॒युम् । अ॒श्विना᳚ ।
ते । नः॒ । धा॒न्तु॒ । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते प्रसिद्धाः सोमाः पुनानासः पुनानाः अभिषूयमाणाः चमूषदः चमसेषु सीदन्तो वायुमश्विना अश्विनौच गच्छन्तः प्राप्नुवन्तो नोस्मभ्यं सुवीर्यं शोभनवीर्यं धान्तु धारयन्तु प्रयच्छन्त्वित्यर्थः ॥ २ ॥

9.8.3
इन्द्र᳚स्य सोम॒ राध᳚से पुना॒नो हार्दि᳚ चोदय ।
ऋ॒तस्य॒ योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । सो॒म॒ । राध᳚से । पु॒ना॒नः । हार्दि᳚ । चो॒द॒य॒ ।
ऋ॒तस्य᳚ । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पुनानोभि षूयमाणोहार्दि अभिलषितस्त्वं इन्द्रस्य राधसे संराधनाय ऋतस्य यज्ञस्य योनिं स्थानं आसदं यथेन्द्रआसीदति तथेन्द्रं चोदय प्रेरय ॥ ३ ॥

9.8.4
मृ॒जन्ति᳚ त्वा॒ दश॒ क्षिपो᳚ हि॒न्वन्ति᳚ स॒प्त धी॒तयः᳚ ।
अनु॒ विप्रा᳚ अमादिषुः ॥
▶ पदपाठः (Word-by-word)
मृ॒जन्ति᳚ । त्वा॒ । दश᳚ । क्षिपः᳚ । हि॒न्वन्ति᳚ । स॒प्त । धी॒तयः᳚ ।
अनु᳚ । विप्राः᳚ । अ॒मा॒दि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वा त्वां दश दशसंख्याकाः क्षिर्पोगुलयः । विशः क्षिप इत्यंगुलिनामसुपाठात । मृजन्ति परिचरन्ति सप्त सप्तसंख्याकाः धीतयो होत्रकाश्च त्वां हिन्वन्ति स्वस्वन्यापारैः प्रीणयन्ति विप्रामेधाविनश्च त्वामन्वमादिषुः अनुमादयन्ति ॥ ४ ॥

9.8.5
दे॒वेभ्य᳚स्त्वा॒ मदा᳚य॒ कं सृ᳚जा॒नमति᳚ मे॒ष्य᳚ः ।
सं गोभि᳚र्वासयामसि ॥
▶ पदपाठः (Word-by-word)
दे॒वेभ्यः᳚ । त्वा॒ । मदा᳚य । कम् । सृ॒जा॒नम् । अति᳚ । मे॒ष्यः᳚ ।
सम् । गोभिः᳚ । वा॒स॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम मेष्यः अवेर्लोमानि कं उदकं च अतिसृजानं त्वा त्वां देवेभ्यो देवानां विभक्तिव्यत्ययः मदाय मदार्थं गोभिर्गोविकारैः पयोभिः संवास- यामसि संवासयामः ॥ ५ ॥

9.8.6
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा᳚ण्यरु॒षो हरि᳚ः ।
परि॒ गव्या᳚न्यव्यत ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । क॒लशे᳚षु । आ । वस्त्रा᳚णि । अ॒रु॒षः । हरिः᳚ ।
परि᳚ । गव्या᳚नि । अ॒व्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानः कलशेषु कुंभेषु निषिच्यमानः अरुषः आरोचमानः हरिर्हरितवर्णः सोमोगव्यानि दध्यादीनि वस्त्राणि वासांसीव पर्यव्यत पर्याच्छादयति ॥ ६ ॥

9.8.7
म॒घोन॒ आ प᳚वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः᳚ ।
इन्दो॒ सखा᳚य॒मा वि᳚श ॥
▶ पदपाठः (Word-by-word)
म॒घोनः᳚ । आ । प॒व॒स्व॒ । नः॒ । ज॒हि । विश्वाः᳚ । अप᳚ । द्विषः᳚ ।
इन्दो॒ इति᳚ । सखा᳚यम् । आ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम मघोनो धनवतोनोस्मान् प्रत्यापवस्व क्षर । विश्वा विश्वान् द्विषोद्वेष्टृन् अपजहि मारयच सखायं प्रियमिन्द्रं आविश आप्नुहिच ॥ ७ ॥

9.8.8
वृ॒ष्टिं दि॒वः परि᳚ स्रव द्यु॒म्नं पृ᳚थि॒व्या अधि᳚ ।
सहो᳚ नः सोम पृ॒त्सु धा᳚ः ॥
▶ पदपाठः (Word-by-word)
वृ॒ष्टिम् । दि॒वः । परि᳚ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि᳚ ।
सहः᳚ । नः॒ । सो॒म॒ । पृ॒त्॑सु । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं दिवोद्युलोकाद्वृष्टिं वर्षं परिस्रव वर्ष । पृथिव्याअधि पृथिव्याम् । अधिः सप्तम्यर्थानुवादी । द्युम्नमन्नं चोत्पादयेतिशेषः । नोस्माकं सहोबलंच पृत्सु संग्रामेषु धाः धेहि ॥ ८ ॥

9.8.9
नृ॒चक्ष᳚सं त्वा व॒यमिन्द्र᳚पीतं स्व॒र्विद᳚म् ।
भ॒क्षी॒महि᳚ प्र॒जामिष᳚म् ॥
▶ पदपाठः (Word-by-word)
नृ॒॑चक्ष᳚सम् । त्वा॒ । व॒यम् । इन्द्र᳚॑पीतम् । स्वः॒॑विद᳚म् ।
भ॒क्षी॒महि᳚ । प्र॒॑जाम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नृचक्षसं नृणां द्रष्टारं स्वर्विदं सर्वज्ञं इन्द्रपीतं इद्रेण पीतं त्वा त्वां पिबन्तोवयं काश्यपासिताः काश्यपादेवलावा प्रजां पुत्रादिकामिषमन्नंच भक्षीमहि भजेमहि ॥ ९ ॥ परिप्रियेति नवर्चं नवमं सूक्तं ऋष्याद्याः पूर्ववत् । परिप्रियेत्यनुक्रान्तम् । उक्तोविनियोगः ।