उ॒रुधा᳚रेव दुहे॒ अग्र᳚ आय॒त्यस्य᳚ व्र॒तेष्वपि॒ सोम᳚ इष्यते ॥
पदपाठः (Word-by-word)
उ॒रुधा᳚रा॑इव । दु॒हे॒ । अग्रे᳚ । आ॒॑य॒ती । अस्य᳚ । व्र॒तेषु᳚ । अपि᳚ । सोमः᳚ । इ॒ष्य॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
अस्मिन्पवमानरूपे इन्द्रे मतिर्मननीयास्मदीयास्तुतिः प्रतिधीयते अस्माभिर्निधीयते वा । दधातेरूपम् । तत्रदृष्टान्तः—इषुर्न यथा इषुः शरः धन्वन् धनुषि प्रतिधीयते तद्वत् । किंच ऊधनि सर्वस्य पोषयितृत्वेन ऊधःस्थानीये इन्द्रे सोमो मदार्थं अस्माभिरुपसर्जि उपसृज्य- ते । कथमिव मातुर्गोरूधनि पयोधारके वत्सोन वत्सोयथा पयःपानार्थं सृज्यते तद्वत् । उरुधारेव बहुविधपयोधारागौरिव । अग्रे वत्सस्य पुरतः आयती गच्छती सती पयोदुहे दुग्धे । तथा सोयमिन्द्रः वत्सभूतेभ्यः स्तोतृभ्यः पुरतोगच्छन् बहुविधान् कामान् दुग्धे । किंच अस्यैतादृशस्यव्रते ष्वपिच सोमइष्यते यष्टृभिः प्रेर्यते खलु ॥ १ ॥