इन्द॒विन्द्रा᳚य बृह॒ते प᳚वस्व सुमृळी॒को अ᳚नव॒द्यो रि॒शादा᳚ः ।
भरा᳚ च॒न्द्राणि᳚ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
भरा᳚ च॒न्द्राणि᳚ गृण॒ते वसू᳚नि दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । इन्द्रा᳚य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒॑मृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः᳚ ।
भर᳚ । च॒न्द्राणि᳚ । गृ॒ण॒ते । वसू᳚नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
भर᳚ । च॒न्द्राणि᳚ । गृ॒ण॒ते । वसू᳚नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो सोम त्वं बृहते महते इन्द्राय तदर्थं पवस्व पात्रेषुक्षर इन्द्रंप्रत्यागच्छ वा । कीदृशः सुमृळीकः इन्द्रस्य सुष्ठुसुखयिता अतएव अनवद्यः गर्हारहितः रिशादा रिशतां बाधकानां असिता एतादृशस्त्वं इन्द्राय पवस्व । किंच गृणते स्तुवते मह्यं चंद्राणि आ- ह्लादकानि वसूनि धनानि भर प्रयच्छ । किंच हे द्यावापृथिवी युवांच पवमानेन परि- प्लुते सत्यौ देवैः सुभगैर्धनैः सह नोस्मान्प्रावतं प्ररक्षतम् ॥ १० ॥