सिन्धो᳚रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष᳚च्युता॒ मदा᳚सो गा॒तुमा᳚शत ।
शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु᳚ष्पदे॒॑स्मे वाजा᳚ः सोम तिष्ठन्तु कृ॒ष्टयः᳚ ॥
शं नो᳚ निवे॒शे द्वि॒पदे॒ चतु᳚ष्पदे॒॑स्मे वाजा᳚ः सोम तिष्ठन्तु कृ॒ष्टयः᳚ ॥
पदपाठः (Word-by-word)
सिन्धोः᳚॑इव । प्र॒व॒णे । नि॒म्ने । आ॒शवः᳚ । वृष᳚॑च्युताः । मदा᳚सः । गा॒तुम् । आ॒श॒त॒ ।
शम् । नः॒ । नि॒॑वे॒शे । द्वि॒॑पदे᳚ । चतुः᳚॑पदे । अ॒स्मे इति᳚ । वाजाः᳚ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः᳚ ॥
शम् । नः॒ । नि॒॑वे॒शे । द्वि॒॑पदे᳚ । चतुः᳚॑पदे । अ॒स्मे इति᳚ । वाजाः᳚ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वृषच्युताः । वृषहिंसासंक्लेशनदानेष्वपि । वृषभिः सोमस्यदातृभिः ऋत्विग्भिश्च्युताः प- रिस्रुता मदासोमादकाः सोमाः स्तुतिभिः प्राप्तव्ये इन्द्रेगातुं गमनमाशत व्याप्नुवन्ति । तत्र दृष्टान्तः—सिन्धोरिव प्रवणे गच्छन्त्युदकानि यत्रेति तत्प्रवणं तस्मिन्निम्नेस्थले सिन्धोर्नद्या- आशवोव्याप्ता आपोयथा गच्छन्ति तद्वत् । अथप्रत्यक्षः । हेसोम नोस्माकं निवेशे स्वगृहंप्रति प्रवेशने निर्गमने वा द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय पशवे शं सुखं कुरु । किंच हे सोम अस्मे अस्मासु वाजाअन्नानि कृष्टयः पुत्रादिकाः प्रजाश्च तिष्ठन्तु अन्नादिकं देही- त्यर्थः ॥ ७ ॥