अमृ᳚क्तेन॒ रुश᳚ता॒ वास᳚सा॒ हरि॒रम᳚र्त्यो निर्णिजा॒नः परि᳚ व्यत ।
दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर᳚णं च॒म्वो᳚र्नभ॒स्मय᳚म् ॥
दि॒वस्पृ॒ष्ठं ब॒र्हणा᳚ नि॒र्णिजे᳚ कृतोप॒स्तर᳚णं च॒म्वो᳚र्नभ॒स्मय᳚म् ॥
पदपाठः (Word-by-word)
अमृ᳚क्तेन । रुश᳚ता । वास᳚सा । हरिः᳚ । अम᳚र्त्यः । निः॒॑नि॒जा॒नः । परि᳚ । व्य॒त॒ ।
दि॒वः । पृ॒ष्ठम् । ब॒र्हणा᳚ । निः॒॑निजे᳚ । कृ॒त॒ । उ॒प॒॑स्तर᳚णम् । च॒म्वोः᳚ । न॒भ॒स्मय᳚म् ॥
दि॒वः । पृ॒ष्ठम् । ब॒र्हणा᳚ । निः॒॑निजे᳚ । कृ॒त॒ । उ॒प॒॑स्तर᳚णम् । च॒म्वोः᳚ । न॒भ॒स्मय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अमर्त्यो मनुष्यधर्मरहितो हरिर्हरितवर्णः सोमः निर्णिजानः उदकेन शोध्यमानःसन् अमृक्तेन । मृजीशौचालंकारयोः । अनिर्णिक्तेनापि रुशता स्वतः शुक्लवर्णेन पयोरूपेण वास- सा परिव्यत परित आच्छादयति । सोमेपरिपूते गव्येन पयसा मिश्रीकुर्वन्ति खलु । तदु- च्यते ततः सोयंसोमः दिवोद्युलोकस्य पृष्ठं पृष्ठभागेतिष्ठन्तमादित्यं बर्हणा बर्हणाय पापा- नामुद्यमनकारिणे पापनाशिने निर्निजे निर्निजनाय परिपवनाय कृत द्युलोके अकार्षीत् । सहि स्वदीप्त्या सर्वंनिर्णेक्ति । कृत कृणोतेर्लुङि ह्रस्वादिति सिचोलोपः । तदेवाह चम्वोः द्यावापृथिवीनामैतत् चमन्ति भक्षयन्ति अत्रदेवामनुष्याइति तयोरुपस्तरणं आच्छादनशीलं नभस्मयमादित्यमयं आदित्यस्य स्वभूतं तेजश्च सर्वेषां निर्णेजनायाकार्षीत् ॥ ५ ॥