नवमं मण्डलम् - सूक्तम् 6

9 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.6 - सम्पूर्णम्

1 / 9
ऋक्: 9.6.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
9.6.1
म॒न्द्रया᳚ सोम॒ धार᳚या॒ वृषा᳚ पवस्व देव॒युः ।
अव्यो॒ वारे᳚ष्वस्म॒युः ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रया᳚ । सो॒म॒ । धार᳚या । वृषा᳚ । प॒व॒स्व॒ । दे॒व॒॑युः ।
अव्यः᳚ । वारे᳚षु । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वृषा कामानां वर्षिता देवयुर्देवकामः अस्मयुरस्मत्कामश्च अव्यः अवेर्वारेषु वालेषु दशापवित्रे मन्द्रया मदकरया धारया पवस्व क्षर ॥ १ ॥

9.6.2
अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति᳚ क्षर ।
अ॒भि वा॒जिनो॒ अर्व᳚तः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्यम् । मद्य᳚म् । मद᳚म् । इन्दो॒ इति᳚ । इन्द्रः᳚ । इति᳚ । क्ष॒र॒ ।
अ॒भि । वा॒जिनः᳚ । अर्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम त्वं इन्द्रईश्वरइतिकृत्वा त्यं तं मद्यं मदकरं मदं रसं अभिक्षर वर्ष । वाजिनोबलवतः अर्वतोश्वांश्चास्मदर्थं अभिक्षरेत्यर्थः ॥ २ ॥

9.6.3
अ॒भि त्यं पू॒र्व्यं मदं᳚ सुवा॒नो अ᳚र्ष प॒वित्र॒ आ ।
अ॒भि वाज᳚मु॒त श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्यम् । पू॒र्व्यम् । मद᳚म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे᳚ । आ ।
अ॒भि । वाज᳚म् । उ॒त । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सुवानोभिषूयमाणस्त्वं पूर्व्यं प्रत्नं त्यं तं प्रसिद्धं मदं मदकरं रसं पवित्रे आसप्रन्तादभ्यर्ष अभिगमय । वाजं बलमस्मानभ्यर्ष । उतापिच श्रवोन्नमभ्यर्ष ॥ ३ ॥

9.6.4
अनु᳚ द्र॒प्सास॒ इन्द᳚व॒ आपो॒ न प्र॒वता᳚सरन् ।
पु॒ना॒ना इन्द्र᳚माशत ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । द्र॒प्सासः᳚ । इन्द᳚वः । आपः᳚ । न । प्र॒॑वता᳚ । अ॒स॒र॒न् ।
पु॒ना॒नाः । इन्द्र᳚म् । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रप्सासोद्रुतगतयः पुनानाः क्षरन्तः इन्दवः सोमाः प्रवता प्रवणेन मार्गेण आपोन आपइव इन्द्रं अन्वसरन् अनुगच्छन्ति आशत व्याप्नुवन्तिच ॥ ४ ॥

9.6.5
यमत्य᳚मिव वा॒जिनं᳚ मृ॒जन्ति॒ योष᳚णो॒ दश᳚ ।
वने॒ क्रीळ᳚न्त॒मत्य᳚विम् ॥
▶ पदपाठः (Word-by-word)
यम् । अत्य᳚म्॑इव । वा॒जिन᳚म् । मृ॒जन्ति᳚ । योष᳚णः । दश᳚ ।
वने᳚ । क्रीळ᳚न्तम् । अति᳚॑अविम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्यविं दशापवित्रमतिक्रम्य वनेरण्ये क्रीलन्तं वर्तमानं यं सोमं दशसंख्याका योषणः स्त्रियः अंगुलयइत्यर्थः । तथाच निगमान्तरं-तमीमण्वीःसमर्य- आगृभ्णन्तियोषणोदशेति । वाजिनं बलिनमत्यमिव अश्वमिव मृजन्ति पवित्रयन्ति उत्तरयासहान्वयः ॥ ५ ॥

9.6.6
तं गोभि॒र्वृष᳚णं॒ रसं॒ मदा᳚य दे॒ववी᳚तये ।
सु॒तं भरा᳚य॒ सं सृ᳚ज ॥
▶ पदपाठः (Word-by-word)
तम् । गोभिः᳚ । वृष᳚णम् । रस᳚म् । मदा᳚य । दे॒व॑वी᳚तये ।
सु॒तम् । भरा᳚य । सम् । सृ॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणं कामानांवर्षितारं देववीतये देवानां पानाय सुतमभिषुतं तं रसं भराय संग्रामाय गोभिः पयोभिः संसृज संयोजय ॥ ६ ॥

9.6.7
दे॒वो दे॒वाय॒ धार॒येन्द्रा᳚य पवते सु॒तः ।
पयो॒ यद᳚स्य पी॒पय᳚त् ॥
▶ पदपाठः (Word-by-word)
दे॒वः । दे॒वाय᳚ । धार᳚या । इन्द्रा᳚य । प॒व॒ते॒ । सु॒तः ।
पयः᳚ । यत् । अ॒स्य॒ । पी॒पय᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाय द्योतमानायेन्द्राय सुतोभिषुतो देवोद्योतमानः सोमोधारया पवते । क्षरति यद्यस्मादस्यसोमस्य पयः पिपयत् इन्द्रमाप्यायितवत् तस्माद्धा- रया पवतइत्यर्थः ॥ ७ ॥

9.6.8
आ॒त्मा य॒ज्ञस्य॒ रंह्या᳚ सुष्वा॒णः प᳚वते सु॒तः ।
प्र॒त्नं नि पा᳚ति॒ काव्य᳚म् ॥
▶ पदपाठः (Word-by-word)
आ॒त्मा । य॒ज्ञस्य᳚ । रंह्या᳚ । सु॒स्वा॒णः । प॒व॒ते॒ । सु॒तः ।
प्र॒त्नम् । नि । पा॒ति॒ । काव्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्यात्मा आत्मभूतः सुतोभिषुतः सोमः सुष्वाणः यजमानेभ्यः कामान् प्रेरयन् रंह्या वेगेन पवते क्षरति प्रत्नं पुरातनं काव्यमात्मनः कवित्वं च निपाति अभिरक्षति ॥ ८ ॥

9.6.9
ए॒वा पु᳚ना॒न इ᳚न्द्र॒युर्मदं᳚ मदिष्ठ वी॒तये᳚ ।
गुहा᳚ चिद्दधिषे॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । पु॒ना॒नः । इ॒न्द्र॒॑युः । मद᳚म् । म॒दि॒ष्ठ॒ । वी॒तये᳚ ।
गुहा᳚ । चि॒त् । द॒धि॒षे॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदिष्ठ अतिशयेन मदकर सोम इन्द्रयुरिन्द्रकामस्त्वं वीतये इन्द्रस्य पानाय एव एवं मदं पुनानः क्षरन् गुहा गुहायां यज्ञशालायामित्यर्थः गिरश्चित् शब्दानपि दधिषे अभिषववेलायां उपरवेषु धारयसि करोषीत्यर्थः ॥ ९ ॥

असृग्रमिति नवर्चं सप्तमं सूक्तम् । असृग्रमित्यनुक्रान्तम् । असितोदेवलोवाऋषिः । तौच कश्यपगोत्रजौ । गायत्रंछन्दः । पवमानसोमोदेवता । उक्तोविनियोगः ।