नवमं मण्डलम् - सूक्तम् 31

6 ऋचः

ऋषिः: गोतमो राहूगणः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.31 - सम्पूर्णम्

1 / 6
ऋक्: 9.31.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.31.1
प्र सोमा᳚सः स्वा॒ध्य१॒᳚ः पव᳚मानासो अक्रमुः ।
र॒यिं कृ᳚ण्वन्ति॒ चेत᳚नम् ॥
▶ पदपाठः (Word-by-word)
प्र । सोमा᳚सः । स्वा॒ध्यः᳚ । पव᳚मानासः । अ॒क्र॒मुः॒ ।
र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राक्रमुः प्रायच्छन्ति कलशंप्रति । केसोमासः सोमाः । कीदृशाः स्वाध्यः सुध्यानाः सुकर्माणोवा पवमानासः पूयमानाः चेतनं प्रज्ञापनं रयिं धनं कृण्वन्ति कुर्वंत्यस्माकम् ॥ १ ॥

9.31.2
दि॒वस्पृ᳚थि॒व्या अधि॒ भवे᳚न्दो द्युम्न॒वर्ध᳚नः ।
भवा॒ वाजा᳚नां॒ पति᳚ः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । पृ॒थि॒व्याः । अधि᳚ । भव᳚ । इ॒न्दो॒ इति᳚ । द्यु॒म्न॒॑वर्ध᳚नः ।
भव᳚ । वाजा᳚नाम् । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो वाजानामन्नानांपतिः स्वामी त्वं दिवोद्युलोकस्य पृथिव्या भूलोकस्यअधि द्युम्नवर्धनो द्योतमानस्य हिरण्यादिलक्षणधनस्य वर्धयिता भव अस्माकं लोकद्वये यत् द्युम्नमस्ति तस्य वर्धयिता भवास्मभ्यमित्यर्थः ॥ २ ॥

9.31.3
तुभ्यं॒ वाता᳚ अभि॒प्रिय॒स्तुभ्य᳚मर्षन्ति॒ सिन्ध᳚वः ।
सोम॒ वर्ध᳚न्ति ते॒ महः᳚ ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । वाताः᳚ । अ॒भि॒॑प्रियः᳚ । तुभ्य᳚म् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः ।
सोम᳚ । वर्ध᳚न्ति । ते॒ । महः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तुभ्यं वाता वायवः अभिप्रियोभितर्पयितारोभवन्ति । तथा सिन्धवः स्यन्दमाना नद्यः तुभ्यं अर्षन्ति गच्छन्ति अभिषूयमाणस्य तवा- प्यायनायैवं कुर्वन्तीत्यर्थः । तउभये अमी ते तव महो महत्वं वर्धन्ति वर्धयन्ति ॥ ३ ॥

9.31.4
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः᳚ सोम॒ वृष्ण्य᳚म् ।
भवा॒ वाज᳚स्य संग॒थे ॥
▶ पदपाठः (Word-by-word)
आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः᳚ । सो॒म॒ । वृष्ण्य᳚म् ।
भव᳚ । वाज᳚स्य । स॒म्॑ग॒थे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वायुभिरद्भिश्चाप्यायस्व प्रवृद्धोभव । ते त्वां विश्वतोवृष्णयं वर्षयोग्यं बलं समेत संगच्छताम् । संगथे संग्रामे वाजस्यान्नस्य प्रापको भव ॥ ४ ॥

9.31.5
तुभ्यं॒ गावो᳚ घृ॒तं पयो॒ बभ्रो᳚ दुदु॒ह्रे अक्षि᳚तम् ।
वर्षि᳚ष्ठे॒ अधि॒ सान᳚वि ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । गावः᳚ । घृ॒तम् । पयः᳚ । बभ्रो॒ इति᳚ । दु॒दु॒ह्रे । अक्षि᳚तम् ।
वर्षि᳚ष्ठे । अधि᳚ । सान᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बभ्रो बभ्रुवर्ण सोम तुभ्यं त्वदर्थं गावोघृतं पयश्च अक्षितं अक्षीणं दुदुह्रे वर्षिष्ठे प्रवृद्धे अधिसानवि समुच्छ्रिते प्रदेशे स्थिताय तुभ्यं ॥ ५ ॥

9.31.6
स्वा॒यु॒धस्य᳚ ते स॒तो भुव᳚नस्य पते व॒यम् ।
इन्दो᳚ सखि॒त्वमु᳚श्मसि ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒यु॒धस्य᳚ । ते॒ । स॒तः । भुव᳚नस्य । प॒ते॒ । व॒यम् ।
इन्दो॒ इति᳚ । स॒खि॒॑त्वम् । उ॒श्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भुवनस्य भूतजातस्य पते स्वामिन् पालक सोम । सोमस्य जगदाप्यायकत्वं तत्स्वामित्वम् । हे इन्दो सोम वयं अनुष्ठातारः स्वायुधस्य ते तव सतः सखित्वमुश्मसि कामयामहे ॥ ६ ॥

प्रसोमासइति षळृचमष्टमं सूक्तं आत्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यतेच-प्रसोमासःश्यावाश्वइति । गतोविनियोगः ।