नवमं मण्डलम् - सूक्तम् 92

6 ऋचः

ऋषिः: कश्यपः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.92 - सम्पूर्णम्

1 / 6
ऋक्: 9.92.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.92.1
परि᳚ सुवा॒नो हरि᳚रं॒शुः प॒वित्रे॒ रथो॒ न स᳚र्जि स॒नये᳚ हिया॒नः ।
आप॒च्छ्लोक᳚मिन्द्रि॒यं पू॒यमा᳚न॒ः प्रति᳚ दे॒वा{4} अ᳚जुषत॒ प्रयो᳚भिः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सु॒वा॒नः । हरिः᳚ । अं॒शुः । प॒वित्रे᳚ । रथः᳚ । न । स॒र्जि॒ । स॒नये᳚ । हि॒या॒नः ।
आप᳚त् । श्लोक᳚म् । इ॒न्द्रि॒यम् । पू॒यमा᳚नः । प्रति᳚ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानः अभिषूयमाणः हियानः ऋत्विग्भिः प्रेर्यमाणः हरिर्हरितवर्णः अंशुः सोमः पवित्रे अविवालेन कृतेदशापवित्रे परिसर्जि परिसृज्यते । किमर्थं सनये धनलाभाय देवानां संभजनाय वा । तत्रदृष्टान्तः—रथोन रथोयथा युद्धे शत्रुवधार्थं शत्रुधनहरणार्थंवा सृज्यते तद्वत् । किंच पूयमानः पवित्रेण सोयंसोमः इन्द्रियं इन्द्रलिंगं इन्द्रस्य पर्याप्तं वा श्लोकं स्तोत्रमापत् आप्नोति आपॢव्याप्तौलेट्यडागमः । तथाससोमः प्रयोभिः प्रीणयितृभिः हवीरूपैः अन्नैर्देवान् प्रत्यजुषत प्रतिसेवते जुषीप्रीतिसेवनयोः ॥ १ ॥

9.92.2
अच्छा᳚ नृ॒चक्षा᳚ असरत्प॒वित्रे॒ नाम॒ दधा᳚नः क॒विर᳚स्य॒ योनौ᳚ ।
सीद॒न्होते᳚व॒ सद᳚ने च॒मूषूपे᳚मग्म॒न्नृष᳚यः स॒प्त विप्रा᳚ः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । नृ॒॑चक्षाः᳚ । अ॒स॒र॒त् । प॒वित्रे᳚ । नाम᳚ । दधा᳚नः । क॒विः । अ॒स्य॒ । योनौ᳚ ।
सीद᳚न् । होता᳚॑इव । सद᳚ने । च॒मूषु᳚ । उप᳚ । ई॒म् । अ॒ग्म॒न् । ऋष᳚यः । स॒प्त । विप्राः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृचक्षाः नृणांद्रष्टा कविः क्रान्तप्रज्ञः सोमः नाम वसतीवर्याख्यमुदकं दधानोधारयन् अस्य एतादृशस्यात्मनः योनौ स्थाने पवित्रे अच्छासरत् अभितः सरति ततः सदने सीदं- त्यत्रेति सदनोयज्ञः तस्मिन् होतेव होतायथा देवान् स्तोतुमुपविशति तद्वत् देवानागन्तुं सीदन् उपविशन् सोमः चमूषु चमन्ति चम्वोग्रहादयः तेषु अभिसर । अनंतरं सप्त सप्त- संख्याका विप्रामेधाविनः भरद्वाजः कश्यपोगोतमोत्रिर्मिश्वामित्रोजमदग्निर्वसिष्ठइत्येतेऋषयः ईमेनंसोमं उपाग्मन् स्तोत्रैरुपगच्छन्ति ॥ २ ॥

9.92.3 समानपद
प्र सु᳚मे॒धा गा᳚तु॒विद्वि॒श्वदे᳚व॒ः सोमः᳚ पुना॒नः सद᳚ एति॒ नित्य᳚म् ।
भुव॒द्विश्वे᳚षु॒ काव्ये᳚षु॒ रन्तानु॒ जना᳚न्यतते॒ पञ्च॒ धीरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सु॒॑मे॒धाः । गा॒तु॒॑वित् । वि॒श्व॑दे᳚वः । सोमः᳚ । पु॒ना॒नः । सदः᳚ । ए॒ति॒ । नित्य᳚म् ।
भुव᳚त् । विश्वे᳚षु । काव्ये᳚षु । रन्ता᳚ । अनु᳚ । जना᳚न् । य॒त॒ते॒ । पञ्च᳚ । धीरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुमेधाः । नित्यमसिच् प्रजामेधयोरिति असिच् समासान्तः । शोभनप्रज्ञः गातुवित् मार्गस्यवेत्ता यद्वा गातवः स्तोतारः तेषां धनस्यलंभयितावा विश्वदेवः सर्वदेवोपगतः यद्वादेवो देवनं दीप्तिः व्यापकदीप्तियुक्ताः एतादृशाः सोमः पुनानः पूयमानः सन् नित्यमविनश्वरं सदः स्थानं द्रोणकलशं प्रैति प्रगच्छति अतः विश्वेषु सर्वेषु काव्येषु कविकर्मसु स्तोत्रेषु रन्ताभुवत् रमणशीलोभवति रमेस्ताच्छीलिकस्तृन् । तथा धीरः प्राज्ञः सोयंपंचजनान् निषादपंचमान् चतुरोवर्णान् अनुयतते अनुगन्तुं प्रयत्नंकरोति अनुगच्छतीतियावत् ॥ ३ ॥

9.92.4
तव॒ त्ये सो᳚म पवमान नि॒ण्ये विश्वे᳚ दे॒वास्त्रय᳚ एकाद॒शासः᳚ ।
दश᳚ स्व॒धाभि॒रधि॒ सानो॒ अव्ये᳚ मृ॒जन्ति᳚ त्वा न॒द्य᳚ः स॒प्त य॒ह्वीः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे᳚ । दे॒वाः । त्रयः᳚ । ए॒का॒द॒शासः᳚ ।
दश᳚ । स्व॒धाभिः᳚ । अधि᳚ । सानौ᳚ । अव्ये᳚ । मृ॒जन्ति᳚ । त्वा॒ । न॒द्यः᳚ । स॒प्त । य॒ह्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान हेसोम तवस्वभूताः त्ये ते प्रसिद्धाः त्रयएकादशासः पूरणार्थे- डट्प्रत्ययः । त्रयस्त्रिंशत्संख्याका विश्वेसर्वेदेवाः निण्ये अन्तर्हितनामैतत् । अंतर्हिते स्थाने द्युलोकेवर्तन्ते तादृशं त्वां दशसंख्याका अंगुलयः अधिसानौ अधिकं समुच्छ्रिते अव्ये अविमये पवित्रे स्वधाभिरुदकैर्वा सृजन्ति शोधयन्ति । किंच यह्वीः वाछन्दसीति पूर्व- सवर्णदीर्घः । यत्द्भ्योमहत्यः सप्तसंख्याकागंगाद्यानद्यः त्वा त्वां मृजन्ति वसतीवर्यात्मकै- रेकधनात्मकैश्च स्वीयैरुदकैस्त्वां मार्जयन्ति इत्यर्थः ॥ ४ ॥

9.92.5
तन्नु स॒त्यं पव᳚मानस्यास्तु॒ यत्र॒ विश्वे᳚ का॒रवः᳚ सं॒नस᳚न्त ।
ज्योति॒र्यदह्ने॒ अकृ᳚णोदु लो॒कं प्राव॒न्मनुं॒ दस्य᳚वे कर॒भीक᳚म् ॥
▶ पदपाठः (Word-by-word)
तत् । नु । स॒त्यम् । पव᳚मानस्य । अ॒स्तु॒ । यत्र᳚ । विश्वे᳚ । का॒रवः᳚ । स॒म्॑नस᳚न्त ।
ज्योतिः᳚ । यत् । अह्ने᳚ । अकृ᳚णोत् । ऊं॒ इति᳚ । लो॒कम् । प्र । आ॒व॒त् । मनु᳚म् । दस्य᳚वे । कः॒ । अ॒भीक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्यं सत्यभूतं तत्प्रसिद्धस्य पवमानस्य सोमस्यस्थानं नुक्षिप्रं अस्माकमस्तु यत्र यस्मिन् स्थाने विश्वेसर्वे कारवः स्तोतारः संनसन्त स्तोतुं संगच्छंते तत् स्थानमस्तु । अस्यसोमस्य यत् ज्योतिः अह्ने दिवसाय लोकमालोकं प्रकाशं अकृणोत् करोति । उइत्यवधारणे । तत् ज्योतिः मनुं एतन्नामानं राजार्षिं प्रावत् प्रकर्षेणारक्षत् । तथा सोमः स्वीयंतेजः दस्यवे सर्वस्योपक्षपयित्रे असुराय अभीकं अभिगमनशीलं कःअका- र्षीत् करोतेर्लुङि मंत्रेघसेति च्लेर्लुक् ॥ ५ ॥

9.92.6 समानपद
परि॒ सद्मे᳚व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि᳚तीरिया॒नः ।
सोमः᳚ पुना॒नः क॒लशा{4}᳚ अयासी॒त्सीद᳚न्मृ॒गो न म᳚हि॒षो वने᳚षु ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सद्म᳚॑इव । प॒शु॒॑मन्ति᳚ । होता᳚ । राजा᳚ । न । स॒त्यः । सम्॑इ᳚तीः । इ॒या॒नः ।
सोमः᳚ । पु॒ना॒नः । क॒लशा᳚न् । अ॒या॒सी॒त् । सीद᳚न् । मृ॒गः । न । म॒हि॒षः । वने᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

होता देवानामाह्वाता ऋत्विक् पशुमन्ति पशुमतः सद्मेव यज्ञगृहान् यथापरिगच्छते । किंच राजा न यथाराजा सत्यः सत्यकर्मासन् समितीः संग्रामनामैतत् सम्यक् प्राप्यते योद्धृभिरत्रेतितान् संग्रामान् इयानोगच्छन् भवति । तथा पुनानः सोमोवनेषु वननीयेषु वसतीवर्याख्येषूदकेषुसीदन् मृगोन महिषः महिषाख्योमृगइव उदकेषुतिष्ठन् कलशान् द्रोणाभिधानान् अयासीत् परियाति । यद्वा महिषोमहान् पूज्योवा सोमः कलशान् परि- गच्छतीति ॥ ६ ॥

साकमुक्षइति पंचर्चमष्टमंसूक्तं गौतमस्यनोधसआर्षं पूर्ववच्छंदोदेवते । तथाचानुक्रम्यते । साकमुक्षःपंचनोधाइति । गतोविनियोगः ।