नवमं मण्डलम् - सूक्तम् 56

4 ऋचः

ऋषिः: अवत्सारः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.56 - सम्पूर्णम्

1 / 4
ऋक्: 9.56.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.56.1
परि॒ सोम᳚ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚ अर्षति ।
वि॒घ्नन्रक्षां᳚सि देव॒युः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सोमः᳚ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे᳚ । अ॒र्ष॒ति॒ ।
वि॒॑घ्नन् । रक्षां᳚सि । दे॒व॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशुः क्षिप्रकारी देवयुर्देवकामः सोमः पवित्रे स्थित्वा रक्षांसि राक्षसान्विघ्नन् निघ्नन् । बृ- हन्महदृतमन्नं पर्यर्षति परिगमयति अस्मभ्यं प्रयच्छतीत्यर्थः ॥ १ ॥

9.56.2
यत्सोमो॒ वाज॒मर्ष᳚ति श॒तं धारा᳚ अप॒स्युवः᳚ ।
इन्द्र᳚स्य स॒ख्यमा᳚वि॒शन् ॥
▶ पदपाठः (Word-by-word)
यत् । सोमः᳚ । वाज᳚म् । अर्ष᳚ति । श॒तम् । धाराः᳚ । अ॒प॒स्युवः᳚ ।
इन्द्र᳚स्य । स॒ख्यम् । आ॒॑वि॒शन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा अपस्युवः कर्मकामाः शतं शतसंख्याकाः धाराः सोमस्यधाराः इन्द्रस्य सख्यं सखि- त्वं आविशन् प्राप्नुवन्ति । तदा सोमोवाजमन्नमर्षति गमयति अस्मभ्यं प्रयच्छतीत्यर्थः ॥ २ ॥

9.56.3
अ॒भि त्वा॒ योष᳚णो॒ दश᳚ जा॒रं न क॒न्या᳚नूषत ।
मृ॒ज्यसे᳚ सोम सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । योष᳚णः । दश᳚ । जा॒रम् । न । क॒न्या᳚ । अ॒नू॒ष॒त॒ ।
मृ॒ज्यसे᳚ । सो॒म॒ । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वा त्वां याः दशसंख्याका योषणोंगुलयः कन्या पितृमतीकन्यका जारंन यथा प्रियमभिशब्दायते तद्वदभ्यनूषताभिशब्दायन्ते । ताभिः सातयेस्माकं धनस्य लाभाय मृज्यसे इन्द्रार्थं शोध्यसे ॥ ३ ॥

9.56.4
त्वमिन्द्रा᳚य॒ विष्ण᳚वे स्वा॒दुरि᳚न्दो॒ परि᳚ स्रव ।
नॄन्त्स्तो॒तॄन्पा॒ह्यंह᳚सः ॥
▶ पदपाठः (Word-by-word)
त्वम् । इन्द्रा᳚य । विष्ण᳚वे । स्वा॒दुः । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ।
नॄन् । स्तो॒तॄन् । पा॒हि॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम स्वादुः प्रियरस्त्वमिन्द्राय इन्द्रार्थं विष्णवे विष्णवर्थंच परिस्रव परिक्षर । नॄन् कर्मणां नेतॄन् स्तोतॄन् त्वद्विषयाणां स्तुतीनां कर्तॄन् अंहसोदुरितात्पाहि रक्ष च ॥ ४ ॥

प्रतेधाराइति चतुरृचं त्रयस्त्रिंशंसूक्तं ऋष्याद्याःपूर्ववत् । प्रतेधाराइत्यनुक्रान्तम् । उक्तोविनि- योगः ।