नवमं मण्डलम् - सूक्तम् 84

5 ऋचः

ऋषिः: प्रजापतिर्वाच्यः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.84 - सम्पूर्णम्

1 / 5
ऋक्: 9.84.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.84.1
पव᳚स्व देव॒माद᳚नो॒ विच᳚र्षणिर॒प्सा इन्द्रा᳚य॒ वरु᳚णाय वा॒यवे᳚ ।
कृ॒धी नो᳚ अ॒द्य वरि᳚वः स्वस्ति॒मदु᳚रुक्षि॒तौ गृ᳚णीहि॒ दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । दे॒व॒॑माद᳚नः । वि॑च᳚र्षणिः । अ॒प्साः । इन्द्रा᳚य । वरु᳚णाय । वा॒यवे᳚ ।
कृ॒धि । नः॒ । अ॒द्य । वरि᳚वः । स्व॒स्ति॒॑मत् । उ॒रु॒॑क्षि॒तौ । गृ॒णी॒हि॒ । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देवमादनो देवानांमादयिता विचर्षणिः विद्रष्टा अप्साः अपांदातात्वं पवस्व क्षर । कस्मै इन्द्राय वरुणाय वायवे नोस्माकं वरिवोधनं स्वस्तिमत् । स्वस्तीत्यविनाश- नाम । तद्वद्धनं अद्य इदानीं कृधि कुरु । उरुक्षितौ विस्तीर्णायांभूमौ यज्ञसंबन्धिन्यां दैव्यं- जनं देवसंबन्धिनंसंघं जनशब्दःसंघवाची तंगृणीहि गृणातिःशब्दकर्मा शब्दय यथा त्वदी- याभिषवशब्दंश्रुत्वा देवाआगच्छन्ति तथागृणीहीत्यर्थः । अथवा दैव्यंजनमित्यृषिः स्वात्मा- नमाह देवसंबंधिनंजनं मांगृणीहि साधुसंभक्तेति शब्दय ॥ १ ॥

9.84.2
आ यस्त॒स्थौ भुव᳚ना॒न्यम᳚र्त्यो॒ विश्वा᳚नि॒ सोम॒ः परि॒ तान्य᳚र्षति ।
कृ॒ण्वन्त्सं॒चृतं᳚ वि॒चृत᳚म॒भिष्ट᳚य॒ इन्दु᳚ः सिषक्त्यु॒षसं॒ न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । यः । त॒स्थौ । भुव᳚नानि । अम᳚र्त्यः । विश्वा᳚नि । सोमः᳚ । परि᳚ । तानि᳚ । अ॒र्ष॒ति॒ ।
कृ॒ण्वन् । स॒म्॑चृत᳚म् । वि॒॑चृत᳚म् । अ॒भिष्ट᳚ये । इन्दुः᳚ । सि॒स॒क्ति॒ । उ॒षस᳚म् । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः अमर्त्योदेवः सोमोभुवनानि लोकानातस्थौ आस्थितवान् तानि विश्वानि सर्वाणि भुवनानि पर्यर्षति परितोगच्छति परितोरक्षतीत्यर्थः । सोयमिंदुः यज्ञं यजमानंवा संवृतं देवैःफलैर्वा संबद्धं कृण्वन् कुर्वन् विचृतं असुरादिभिः दुःखैर्वाविमुक्तं कृण्वन् अभितोया- गाय सिषक्ति सेवते यज्ञम् । उषसंनसूर्यः सूर्यउषसमिव । यथा । अभिष्टये अभितोगमनाय प्राणिनां संचृतं प्रकाशैः संयुक्तं विचृतं तमोभिर्विमुक्तंच लोकंकुर्वन्नुषसं सेवते तद्वत् ॥ २ ॥

9.84.3 समानपद
आ यो गोभि᳚ः सृ॒ज्यत॒ ओष᳚धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः ।
आ वि॒द्युता᳚ पवते॒ धार᳚या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । यः । गोभिः᳚ । सृ॒ज्यते᳚ । ओष᳚धीषु । आ । दे॒वाना᳚म् । सु॒म्ने । इ॒षय᳚न् । उप᳚॑वसुः ।
आ । वि॒॑द्युता᳚ । प॒व॒ते॒ । धार᳚या । सु॒तः । इन्द्र᳚म् । सोमः᳚ । मा॒दय᳚न् । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमोगोभिः रश्मिभिः आसृज्यते ओषधीषु यंसोमं स्थापयन्तीत्यर्थः । किमर्थं देवानां सुम्ने सुखे निमित्तेसति कीदृशोयः इषयन् देवान् प्राप्तुमिच्छन् इषगतौ । धन- मिच्छन्वा तथा उपावसुः शत्रुभ्यः सकाशात्प्राप्तधनः ससोमो विद्युता विद्योतमानया धारया आपवते सुतःसन् । किंकुर्वन् दैव्यं देवस्वामिनं इन्द्रं जनं देवसंबंधिसंघं माद- यन् ॥ ३ ॥

9.84.4
ए॒ष स्य सोमः᳚ पवते सहस्र॒जिद्धि᳚न्वा॒नो वाच᳚मिषि॒रामु᳚ष॒र्बुध᳚म् ।
इन्दु᳚ः समु॒द्रमुदि᳚यर्ति वा॒युभि॒रेन्द्र᳚स्य॒ हार्दि᳚ क॒लशे᳚षु सीदति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । सोमः᳚ । प॒व॒ते॒ । स॒ह॒स्र॒॑जित् । हि॒न्वा॒नः । वाच᳚म् । इ॒षि॒राम् । उ॒षः॒॑बुध᳚म् ।
इन्दुः᳚ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒यु॑भिः᳚ । आ । इन्द्र᳚स्य । हार्दि᳚ । क॒लशे᳚षु । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषः स्यः सः सोमः पवते पूयते । कीदृशएषः सहस्रजित् सहस्रजेता किंकुर्वन् वाचं ऋत्विजां स्तुतिरूपांवाचं हिन्वानः प्रेरयन् कीदृशींवाचं इषिरां गमनशीलां स्तुत्यंप्रतिगं- त्रीं उषर्बुधं उषसिप्रबुद्धं सोयमिन्दुः सोमः समुद्रं समुद्रियंरसं उदियर्ति उद्गमयति । वायुभीर्गंतृभिरध्वर्य्वादिभिः वायुरेववाप्रेर्यमाणः सन् तथेन्द्रस्यहार्दि हार्दं प्रियं तद्धार्दी- न्द्रस्य प्रियवद्यथाभवति तथा कलशेषु द्रोणकलशप्रभृतिष्वासीदति ॥ ४ ॥

9.84.5
अ॒भि त्यं गाव॒ः पय᳚सा पयो॒वृधं॒ सोमं᳚ श्रीणन्ति म॒तिभि᳚ः स्व॒र्विद᳚म् ।
ध॒नं॒ज॒यः प᳚वते॒ कृत्व्यो॒ रसो॒ विप्र᳚ः क॒विः काव्ये᳚ना॒ स्व᳚र्चनाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्यम् । गावः᳚ । पय᳚सा । प॒यः॒॑वृध᳚म् । सोम᳚म् । श्री॒ण॒न्ति॒ । म॒ति॑भिः᳚ । स्वः॒॑विद᳚म् ।
ध॒न॒म्॑ज॒यः । प॒व॒ते॒ । कृत्व्यः᳚ । रसः᳚ । विप्रः᳚ । क॒विः । काव्ये᳚न । स्वः᳚॑चनाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तं पयोवृधं पयसोवर्धकं सोगं गावः पयसा स्वकीयेन क्षीरेण अभिश्रीणन्ति श्रय- णं कुर्वन्ति । योमतिभिः स्तुतिभिः सर्वंप्रयच्छति तं स्वर्विदं सोमं स्रीणन्ति सधनंजयः शत्रुधनानां जेतासोमः काव्येन कर्मणापवते पूयते । कीदृशः सकृत्व्यः कर्मण्यः रसोरसरूपः विप्रोमेधावी कविःक्रांतप्रज्ञः स्वर्चनाः सर्वान्नः चनइत्यन्ननाम ॥ ५ ॥

इन्द्रायइति द्वादशर्चंअष्टादशंसूक्तं भृगुगोत्रस्य वेनस्यार्षं पवमानसोमदेवताकं एका-दशीद्वादश्यौत्रिष्टुभौ शिष्टाजगत्यः । तथाचानुक्रान्तं—इन्द्रायद्वादश वेनोभार्गवोद्वित्रिष्टुबन्त- मिति । गतोविनियोगः ।