श्रवणम्

9.84.2
आ यस्त॒स्थौ भुव᳚ना॒न्यम᳚र्त्यो॒ विश्वा᳚नि॒ सोम॒ः परि॒ तान्य᳚र्षति ।
कृ॒ण्वन्त्सं॒चृतं᳚ वि॒चृत᳚म॒भिष्ट᳚य॒ इन्दु᳚ः सिषक्त्यु॒षसं॒ न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । यः । त॒स्थौ । भुव᳚नानि । अम᳚र्त्यः । विश्वा᳚नि । सोमः᳚ । परि᳚ । तानि᳚ । अ॒र्ष॒ति॒ ।
कृ॒ण्वन् । स॒म्॑चृत᳚म् । वि॒॑चृत᳚म् । अ॒भिष्ट᳚ये । इन्दुः᳚ । सि॒स॒क्ति॒ । उ॒षस᳚म् । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः अमर्त्योदेवः सोमोभुवनानि लोकानातस्थौ आस्थितवान् तानि विश्वानि सर्वाणि भुवनानि पर्यर्षति परितोगच्छति परितोरक्षतीत्यर्थः । सोयमिंदुः यज्ञं यजमानंवा संवृतं देवैःफलैर्वा संबद्धं कृण्वन् कुर्वन् विचृतं असुरादिभिः दुःखैर्वाविमुक्तं कृण्वन् अभितोया- गाय सिषक्ति सेवते यज्ञम् । उषसंनसूर्यः सूर्यउषसमिव । यथा । अभिष्टये अभितोगमनाय प्राणिनां संचृतं प्रकाशैः संयुक्तं विचृतं तमोभिर्विमुक्तंच लोकंकुर्वन्नुषसं सेवते तद्वत् ॥ २ ॥