श्रवणम्

9.84.3 समानपद
आ यो गोभि᳚ः सृ॒ज्यत॒ ओष᳚धी॒ष्वा दे॒वानां᳚ सु॒म्न इ॒षय॒न्नुपा᳚वसुः ।
आ वि॒द्युता᳚ पवते॒ धार᳚या सु॒त इन्द्रं॒ सोमो᳚ मा॒दय॒न्दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । यः । गोभिः᳚ । सृ॒ज्यते᳚ । ओष᳚धीषु । आ । दे॒वाना᳚म् । सु॒म्ने । इ॒षय᳚न् । उप᳚॑वसुः ।
आ । वि॒॑द्युता᳚ । प॒व॒ते॒ । धार᳚या । सु॒तः । इन्द्र᳚म् । सोमः᳚ । मा॒दय᳚न् । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमोगोभिः रश्मिभिः आसृज्यते ओषधीषु यंसोमं स्थापयन्तीत्यर्थः । किमर्थं देवानां सुम्ने सुखे निमित्तेसति कीदृशोयः इषयन् देवान् प्राप्तुमिच्छन् इषगतौ । धन- मिच्छन्वा तथा उपावसुः शत्रुभ्यः सकाशात्प्राप्तधनः ससोमो विद्युता विद्योतमानया धारया आपवते सुतःसन् । किंकुर्वन् दैव्यं देवस्वामिनं इन्द्रं जनं देवसंबंधिसंघं माद- यन् ॥ ३ ॥