म॒न्दा॒न उद्वृ᳚षायते ॥
पदपाठः (Word-by-word)
म॒न्दा॒नः । उत् । वृ॒ष॒॑य॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
सोमः अया अनया सुकृत्यया शोभनया अभिषवादिलक्षणया क्रियया महश्चित् महतोदेवान् प्रत्यभ्यवर्धत् प्रवृद्धोभूत् मन्दानोमोदमानः उद्वृषायते वृषवदाचरति । यथा मोदमानोवृषभः शब्दं करोति तथाभिषववेलायामुपरवेषु शब्दंकरोतीत्यर्थः ॥ १ ॥