कृ॒तानीद᳚स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह᳚णा ।
ऋ॒णा च᳚ धृ॒ष्णुश्च᳚यते ॥
ऋ॒णा च᳚ धृ॒ष्णुश्च᳚यते ॥
पदपाठः (Word-by-word)
कृ॒तानि᳚ । इत् । अ॒स्य॒ । कर्त्वा᳚ । चेत᳚न्ते । द॒स्यु॒॑तर्ह᳚णा ।
ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥
ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
अस्य यस्यैतस्य सोमस्य दस्युतर्हणा दस्यूनामसुराणां तर्हणानि नाशकानि कर्त्वा कर्माणि कृतानीत् अस्माभिरेव कृतानि सोयं धृष्णुर्धृष्टःसोमो यजमानानामृणाच ऋणान्यपि चयते कामप्रदानेन चातयति ॥ २ ॥