श्रवणम्

9.47.1
अ॒या सोमः᳚ सुकृ॒त्यया᳚ म॒हश्चि᳚द॒भ्य᳚वर्धत ।
म॒न्दा॒न उद्वृ᳚षायते ॥
▶ पदपाठः (Word-by-word)
अ॒या । सोमः᳚ । सु॒॑कृ॒त्यया᳚ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ ।
म॒न्दा॒नः । उत् । वृ॒ष॒॑य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमः अया अनया सुकृत्यया शोभनया अभिषवादिलक्षणया क्रियया महश्चित् महतोदेवान् प्रत्यभ्यवर्धत् प्रवृद्धोभूत् मन्दानोमोदमानः उद्वृषायते वृषवदाचरति । यथा मोदमानोवृषभः शब्दं करोति तथाभिषववेलायामुपरवेषु शब्दंकरोतीत्यर्थः ॥ १ ॥