नवमं मण्डलम् - सूक्तम् 5

11 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: इध्मः समिद्धोग्निर्वा छन्दः: गायत्री

सूक्तम् 9.5 - सम्पूर्णम्

1 / 11
ऋक्: 9.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
9.5.1
समि᳚द्धो वि॒श्वत॒स्पति॒ः पव᳚मानो॒ वि रा᳚जति ।
प्री॒णन्वृषा॒ कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । वि॒श्वतः᳚ । पतिः᳚ । पव᳚मानः । वि । रा॒ज॒ति॒ ।
प्री॒णन् । वृषा᳚ । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आप्रीयसोमस्तुतिरत्र समिद्धः सम्यग्दीप्तः विश्वतस्पतिः सर्वतः स्वामी वृषा कामानां वर्षिता पवमानः सोमः कनिक्रदत् अभिषूयमाणः शब्दंकुर्वन् प्रीणन् देवान् प्रीणयन् विराजति यागेषु प्रकाशते ॥ १ ॥

9.5.2
तनू॒नपा॒त्पव᳚मान॒ः शृङ्गे॒ शिशा᳚नो अर्षति ।
अ॒न्तरि᳚क्षेण॒ रार᳚जत् ॥
▶ पदपाठः (Word-by-word)
तनू॒३॒᳚॑नपा᳚त् । पव᳚मानः । शृङ्गे॒ इति᳚ । शिशा᳚नः । अ॒र्ष॒ति॒ ।
अ॒न्तरि᳚क्षेण । रार᳚जत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तनूनपात् पवमानः सोमः तनूनपादत्रसोमोभवति । तथाचश्रूयते-अड्भ्योंशवोजायन्ते ततः सोमोजायतइति । शृंगे दीप्तउन्नतप्रदेशे । हृणिः शृंगाणीति ज्वलनामसुपाठात् । शिशानस्तीक्ष्णीकुर्वन् अन्तरिक्षेण रारजत् अर्षति द्रोणकलशंप्रति गच्छति । तथाचाम्नायते-द्वाभ्यांधाराभ्यां आग्नयणंगृह्णातीति ॥ २ ॥

9.5.3
ई॒ळेन्य॒ः पव᳚मानो र॒यिर्वि रा᳚जति द्यु॒मान् ।
मधो॒र्धारा᳚भि॒रोज᳚सा ॥
▶ पदपाठः (Word-by-word)
ई॒ळेन्यः᳚ । पव᳚मानः । र॒यिः । वि । रा॒ज॒ति॒ । द्यु॒॑मान् ।
मधोः᳚ । धारा᳚भिः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईळेन्यः स्तुत्यः पवमानः सोमः रयिः उभीष्टस्यदाता द्युमान् दीप्तिमांश्चसन् मधोरुदकस्य धाराभिः सहक्षरन् ओजसा बलेन विराजति प्रकाशते ॥ ३ ॥

9.5.4
ब॒र्हिः प्रा॒चीन॒मोज᳚सा॒ पव᳚मानः स्तृ॒णन्हरि᳚ः ।
दे॒वेषु᳚ दे॒व ई᳚यते ॥
▶ पदपाठः (Word-by-word)
ब॒र्हिः । प्रा॒चीन᳚म् । ओज᳚सा । पव᳚मानः । स्तृ॒णन् । हरिः᳚ ।
दे॒वेषु᳚ । दे॒वः । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिः हरितवर्णोदेवोद्योतमानः सोमः पवमानः देवेषु यज्ञेषु बर्हिः प्राचीनं प्राचीनाग्रं स्तृणन् तारयन् ओजसा बलेन ईयते गच्छति ॥ ४ ॥

9.5.5
उदातै᳚र्जिहते बृ॒हद्द्वारो᳚ दे॒वीर्हि᳚र॒ण्ययी᳚ः ।
पव᳚मानेन॒ सुष्टु᳚ताः ॥
▶ पदपाठः (Word-by-word)
उत् । आतैः᳚ । जि॒ह॒ते॒ । बृ॒हत् । द्वारः᳚ । दे॒वीः । हि॒र॒ण्ययीः᳚ ।
पव᳚मानेन । सु॑स्तु᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्ययीः हिरण्मय्यः द्वारोदेवीर्द्वारोदेव्यः पवमानेन सोमेन सह सुष्टुताः स्तोतृभिः सम्यक् स्तुताः सत्यः बृहत् बृहतीभ्यो महतीभ्यः आतैः आताभ्योदिग्भ्यः । आता आशाइति दिङ्मामसुपाठात् उज्जिहते उद्गच्छन्ति ॥ ५ ॥

9.5.6
सु॒शि॒ल्पे बृ᳚ह॒ती म॒ही पव᳚मानो वृषण्यति ।
नक्तो॒षासा॒ न द᳚र्श॒ते ॥
▶ पदपाठः (Word-by-word)
सु॒शि॒ल्पे इति᳚ सु॑शि॒ल्पे । बृ॒ह॒ती इति᳚ । म॒ही इति᳚ । पव᳚मानः । वृ॒ष॒ण्य॒ति॒ ।
नक्तो॒षसा᳚ । न । द॒र्श॒ते इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुशिल्पे सुरूपे बृहती परिवृढे मही महत्यौ न संप्रतिदर्शनीये नक्तोषासा नक्तोषसौ पवमानः सोमोवृषण्यति कामयते ॥ ६ ॥

9.5.7
उ॒भा दे॒वा नृ॒चक्ष᳚सा॒ होता᳚रा॒ दैव्या᳚ हुवे ।
पव᳚मान॒ इन्द्रो॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒भा । दे॒वा । नृ॒॑चक्ष᳚सा । होता᳚रा । दैव्या᳚ । हु॒वे॒ ।
पव᳚मानः । इन्द्रः᳚ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृचक्षसा मनुष्याणां द्रष्टारौ दैव्या दैव्यौ देवसंबन्धिनौ होतारा होतारौ उभा उभौ देवा देवौ हुवे आह्वयामि । यज्ञे पवमानः सोमः इन्द्रोदीप्तः । तथाचयास्कः –इन्द्रइरांदृणातीति वेरां ददातीति वेरांदधातीति वेरांदारयतीति वेरांधारयतीति वेन्दवेद्रवतीति वेन्दौरमतइति वेन्धेभूतानी- तिवातद्यदेनंप्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वमितिविज्ञायतइति । वृषा कामानांवर्षिताच भवति ॥ ७ ॥

9.5.8
भार᳚ती॒ पव᳚मानस्य॒ सर᳚स्व॒तीळा᳚ म॒ही ।
इ॒मं नो᳚ य॒ज्ञमा ग᳚मन्ति॒स्रो दे॒वीः सु॒पेश᳚सः ॥
▶ पदपाठः (Word-by-word)
भार᳚ती । पव᳚मानस्य । सर᳚स्वती । इळा᳚ । म॒ही ।
इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒॑पेश᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारती भारत्याख्या सरस्वती सरस्वत्याख्याच मही महती इळाख्याच तिस्रः सुपेशसः सुरूपा देवीर्देव्योनोस्माकं पवमानस्य सोमस्य संबन्धिनं इमं यज्ञं प्रत्यागमन् आगच्छन्तु ॥ ८ ॥

9.5.9 समानपद
त्वष्टा᳚रमग्र॒जां गो॒पां पु᳚रो॒यावा᳚न॒मा हु᳚वे ।
इन्दु॒रिन्द्रो॒ वृषा॒ हरि॒ः पव᳚मानः प्र॒जाप᳚तिः ॥
▶ पदपाठः (Word-by-word)
त्वष्टा᳚रम् । अ॒ग्र॒॑जाम् । गो॒पाम् । पु॒रः॒॑यावा᳚नम् । आ । हु॒वे॒ ।
इन्दुः᳚ । इन्द्रः᳚ । वृषा᳚ । हरिः᳚ । पव᳚मानः । प्र॒जा॑प᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्रजां अग्रेजातं गोपां प्रजानां पालयितारं पुरोयावानं देवानां पुरस्ताद्गन्तारं त्वष्टारं देवमाहुवे अहमाह्वयामि । यज्ञे हरिः हरितवर्णः पवमानः इन्दुः सोमः इन्द्रोदेवानामीश्वरो वृषा कामानांवर्षिताच प्रजापतिः प्रजानां पालयिताच भवतीति ॥ ९ ॥

9.5.10
वन॒स्पतिं᳚ पवमान॒ मध्वा॒ सम᳚ङ्ग्धि॒ धार᳚या ।
स॒हस्र᳚वल्शं॒ हरि᳚तं॒ भ्राज᳚मानं हिर॒ण्यय᳚म् ॥
▶ पदपाठः (Word-by-word)
वन॒स्पति᳚म् । प॒व॒मा॒न॒ । मध्वा᳚ । सम् । अ॒ङ्ग्धि॒ । धार᳚या ।
स॒हस्र᳚॑वल्शम् । हरि᳚तम् । भ्राज᳚मानम् । हि॒र॒ण्यय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम हरितं हरितवर्णं हिरण्ययं कदाचिद्धिरण्मयवर्णंच भ्राजमानं दीप्यमानं सहस्रवल्शं सहस्रशाखं वनस्पतिं देवं धारया धारामयेन मध्वा मधुना समङ्धि अंक्ष्व संस्कुर्वित्यर्थः ॥ १० ॥

9.5.11 समानपद
विश्वे᳚ देवा॒ः स्वाहा᳚कृतिं॒ पव᳚मान॒स्या ग᳚त ।
वा॒युर्बृह॒स्पति॒ः सूर्यो॒॑ग्निरिन्द्र᳚ः स॒जोष᳚सः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः॒ । स्वाहा᳚॑कृतिम् । पव᳚मानस्य । आ । ग॒त॒ ।
वा॒युः । बृह॒स्पतिः᳚ । सूर्यः᳚ । अ॒ग्निः । इन्द्रः᳚ । स॒॑जोष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वेदेवा वायुर्बृहस्पतिश्च सूर्यश्चाग्निरिन्द्रश्च सर्वे यूयं सजोषसः सगतः सन्तः पवमानस्य सोमस्य स्वाहाकृतिं स्वाहाकरं आगत प्रत्यागच्छत ॥ ११ ॥

मन्द्रयेति नवर्चं षष्ठं सूक्तं काश्यपस्यासितस्य देवलस्यार्षं गायत्रं पवमानसोमदेवताकम् ।