नवमं मण्डलम् - सूक्तम् 77

5 ऋचः

ऋषिः: कविः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.77 - सम्पूर्णम्

1 / 5
ऋक्: 9.77.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.77.1 समानपद
ए॒ष प्र कोशे॒ मधु᳚मा{4} अचिक्रद॒दिन्द्र᳚स्य॒ वज्रो॒ वपु᳚षो॒ वपु᳚ष्टरः ।
अ॒भीमृ॒तस्य᳚ सु॒दुघा᳚ घृत॒श्चुतो᳚ वा॒श्रा अ᳚र्षन्ति॒ पय᳚सेव धे॒नवः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । प्र । कोशे᳚ । मधु᳚॑मान् । अ॒चि॒क्र॒द॒त् । इन्द्र᳚स्य । वज्रः᳚ । वपु᳚षः । वपुः᳚॑तरः ।
अ॒भि । ई॒म् । ऋ॒तस्य᳚ । सु॒॑दुघाः᳚ । घृ॒त॒॑श्चुतः᳚ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय᳚सा॑इव । धे॒नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोयं सोमोमधुमान् मधुररसः कोशे द्रोणकलशे प्राचेक्रदत् प्रकर्षेणशब्दायते कीदृश- एषः इन्द्रस्यवज्रो वज्रस्थानीयः बलकरत्वेन वज्रवत् प्रहरणसाधनत्वात् वज्रत्वोपचारः एषएवहिसोमः वज्रे इन्द्रस्यसाधने तथा वपुषो बीजानांवप्तुरन्यस्माद्वपुष्टरः अतिशयेन वप्ता बीजावापस्य सोमकर्तृकत्वात् । सोमोवैरेतोधाइतिश्रुतेः । ईमस्य ऋतस्य सत्यफलस्य सोमस्य धाराइतिशेषः । अभ्यर्षन्ति अभिगच्छन्ति । कीदृश्यस्ताः सुदुघाः सुष्ठुदोग्ध्र्यः फलानाम् । घृतश्चुतः उदकस्य रसस्य वा क्षरयित्र्यः वाश्राः शब्दयन्त्यः किमिव पयसेव पयसायुक्ता वाश्राः धेनवइवेति ॥ १ ॥

9.77.2 समानपद
स पू॒र्व्यः प᳚वते॒ यं दि॒वस्परि᳚ श्ये॒नो म᳚था॒यदि᳚षि॒तस्ति॒रो रजः᳚ ।
स मध्व॒ आ यु᳚वते॒ वेवि᳚जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह᳚ बि॒भ्युषा᳚ ॥
▶ पदपाठः (Word-by-word)
सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि᳚ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः᳚ ।
सः । मध्वः᳚ । आ । यु॒व॒ते॒ । वेवि᳚जानः । इत् । कृ॒शानोः᳚ । अस्तुः᳚ । मन᳚सा । अह᳚ । बि॒भ्युषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सः सोमः पूर्व्यः प्रत्नः पवते पूयतेभिषूयतइत्यर्थः । यंसोमंदिवोद्युलोकात् श्येनइषितः स्वमात्राप्रेषितः सन् परिमथायत् पर्यमश्नात् तिरस्तीर्णं तिरस्कुर्वन् । किंच रजः तृतीयं- लोकं सएव सोमो मध्वो मधुररसं सोमं आयुवते यौति पृथक्करोति द्युलोकात् स्वयं वेविजानइत् चलन्नधोगच्छन् कृशानोः सोमपालस्य अस्तुः शरक्षेप्तुः सकाशाद्बिभ्युषा भी- तेनमनसा अह सह मध्वआयुवतइतिसंबंधः । कृशानोः सोमपालत्वं ब्राह्मणेस्पष्टमुक्तं—कृशानुः सोमपालःसव्यस्यपदः ॥ २ ॥

9.77.3
ते न॒ः पूर्वा᳚स॒ उप᳚रास॒ इन्द᳚वो म॒हे वाजा᳚य धन्वन्तु॒ गोम᳚ते ।
ई॒क्षे॒ण्या᳚सो अ॒ह्यो॒३॒᳚ न चार᳚वो॒ ब्रह्म᳚ब्रह्म॒ ये जु᳚जु॒षुर्ह॒विर्ह᳚विः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । पूर्वा᳚सः । उप᳚रासः । इन्द᳚वः । म॒हे । वाजा᳚य । ध॒न्व॒न्तु॒ । गो॑म᳚ते ।
ई॒क्षे॒ण्या᳚सः । अ॒ह्यः᳚ । न । चार᳚वः । ब्रह्म᳚॑ब्रह्म । ये । जु॒जु॒षुः । ह॒विः॑ह᳚विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते वक्ष्यमाणाः पूर्वासः पूर्वे उपरासः उपरता अत्रेत्युपराः तादृशाइन्दवः सोमाः महे महते गोमते नोमह्यं वाजायान्नायान्नलाभार्थं धन्वन्तु गच्छन्तु प्राप्नुवन्तु । कीदृशाइन्दवः ईक्षेण्यासः ईक्षणीयाः संदर्शनीयाः अह्योन अह्यः स्त्रियः आहननात् ताइव सुवेषाःस्त्रियइव चारवोरमणीयाः । तेइत्युक्तं केइत्याह येइन्दवोब्रह्मब्रह्म सर्वमपिस्तावकंमंत्रजातं हविर्हविः सर्वमपिहविर्जातंच जुजुषुः सेवन्ते ॥ ३ ॥

9.77.4
अ॒यं नो᳚ वि॒द्वान्व᳚नवद्वनुष्य॒त इन्दु᳚ः स॒त्राचा॒ मन᳚सा पुरुष्टु॒तः ।
इ॒नस्य॒ यः सद᳚ने॒ गर्भ᳚माद॒धे गवा᳚मुरु॒ब्जम॒भ्यर्ष᳚ति व्र॒जम् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः᳚ । स॒त्राचा᳚ । मन᳚सा । पु॒रु॒॑स्तु॒तः ।
इ॒नस्य᳚ । यः । सद᳚ने । गर्भ᳚म् । आ॒॑द॒धे । गवा᳚म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष᳚ति । व्र॒जम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयामिन्दुः सोमोनोस्मान् वनुष्यतोहन्तुमिच्छतः शत्रून् विद्वान् जानन् हन्तुं वनवत् हन्तु तान् । केनसाधनेन सत्राचा सहांचता मनसा कीदृशः पुरुष्टुतः बहुभिःस्तुतः यः सोमो इनस्येश्वरस्याग्नेः सदनेस्थाने भूमौ वेद्यांवा वर्तमानोगर्भमादधे धारयत्योषधीषु यश्चगवाम स्मदीयानां शत्रुभिरपहृतानामुरुब्जं प्रभूतानामपांपयसां जनकं व्रजमभ्यर्षति गच्छति सव नवदिति ॥ ४ ॥

9.77.5
चक्रि᳚र्दि॒वः प᳚वते॒ कृत्व्यो॒ रसो᳚ म॒हा{4} अद᳚ब्धो॒ वरु᳚णो हु॒रुग्य॒ते ।
असा᳚वि मि॒त्रो वृ॒जने᳚षु य॒ज्ञियो॑त्यो॒ न यू॒थे वृ᳚ष॒युः कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
चक्रिः᳚ । दि॒वः । प॒व॒ते॒ । कृत्व्यः᳚ । रसः᳚ । म॒हान् । अद᳚ब्धः । वरु᳚णः । हु॒रुक् । य॒ते ।
असा᳚वि । मि॒त्रः । वृ॒जने᳚षु । य॒ज्ञियः᳚ । अत्यः᳚ । न । यू॒थे । वृ॒ष॒॑युः । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चक्रिः सर्वस्यकर्ता कृत्व्यः कर्मण्योरसोरसात्मकोमहान् गुणैरधिकः अदब्धः अहिंस्यः वरुणः हुरुक् कुटिलं यते गच्छते इतस्ततः परिचरतइत्यर्थः । तदर्थं दिवःसकाशात् पवते पूयते अन्तरिक्षस्थाद्दशापवित्रादित्यर्थः । किंच सोमः असावि सूयते कदा वृजनेषु अरिष्टे षुसत्सु तत्परिहारार्थम् । कीदृशः समित्रः सर्वेषांमित्रभूतः यज्ञियोयष्टव्यः अत्योन अश्वइव यूथे वडवायूथे सयथावृषयुःसन् शब्दंकरोति तद्वदसौ वृषभोरसस्यवर्षिता कनिक्रदच्छब्दं कुर्वन् असाविइति ॥ ५ ॥

प्रराजावाचमिति पंचर्चमेकादशंसूक्तं ऋष्याद्याः पूर्ववत् । प्रराजेत्यनुक्रान्तम् । गतोविनि- योगः ।