नवमं मण्डलम् - सूक्तम् 98

12 ऋचः

ऋषिः: अंबरीष ऋजिश्वा च देवता: पवमानः सोमः छन्दः: अनुष्टुप्

सूक्तम् 9.98 - सम्पूर्णम्

1 / 12
ऋक्: 9.98.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
9.98.1
अ॒भि नो᳚ वाज॒सात᳚मं र॒यिम᳚र्ष पुरु॒स्पृह᳚म् ।
इन्दो᳚ स॒हस्र᳚भर्णसं तुविद्यु॒म्नं वि᳚भ्वा॒सह᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । नः॒ । वा॒ज॒॑सात᳚मम् । र॒यिम् । अ॒र्ष॒ । पु॒रु॒॑स्पृह᳚म् ।
इन्दो॒ इति᳚ । स॒हस्र᳚॑भर्णसम् । तु॒वि॒॑द्यु॒म्नम् । वि॒भ्व॒॑सह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो दीप्त वाजसातमं अत्यन्तं बलप्रदं अन्नप्रदंवा रयिं धनं पुत्रंवानोस्माकमभ्यर्ष अभिगमय । कीदृशं पुरुस्पृहं बहुभिःस्पृहणीयं सहस्रभार्णसं बहुविधभरणं अनेकपोषणयुक्त मित्यर्थः तुविद्युम्नं द्युम्नंद्योततेर्यशोवान्नंवेतियास्कः । बह्वन्नं बहुयशोयुक्तंवा विभ्वसहं वि भ्वइतिमहन्नाम महतोभिभवितारं ॥ १ ॥

9.98.2
परि॒ ष्य सु᳚वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा᳚व्यत ।
इन्दु᳚र॒भि द्रुणा᳚ हि॒तो हि᳚या॒नो धारा᳚भिरक्षाः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । स्यः । सु॒वा॒नः । अ॒व्यय᳚म् । रथे᳚ । न । वर्म᳚ । अ॒व्य॒त॒ ।
इन्दुः᳚ । अ॒भि । द्रुणा᳚ । हि॒तः । हि॒या॒नः । धारा᳚भिः । अ॒क्षा॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानः सूयमानः स्यः ससोमः अव्ययमविमयं पवित्रं परिपवते । तत्रदृष्टान्तः—रथेन यथा रथेस्थितः पुरुषः वर्मकवचमव्यत परिव्ययति । व्ययतेर्लुङिवर्णलोपश्छान्दसः । अभि- हितः अभितः प्रेरितः । यद्वा स्तोतृभिरभिष्टुतः सइन्दुः सोमः द्रुणा द्रुममयेन द्रोणकलशॆ- न हियानः हि गतौवृद्धौच तेन पूर्यमाणःसन् धाराभिः अक्षाः क्षरति । क्षरतेर्लुङिरूपं ॥ २ ॥

9.98.3
परि॒ ष्य सु᳚वा॒नो अ᳚क्षा॒ इन्दु॒रव्ये॒ मद᳚च्युतः ।
धारा॒ य ऊ॒र्ध्वो अ᳚ध्व॒रे भ्रा॒जा नैति᳚ गव्य॒युः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति᳚ । इन्दुः᳚ । अव्ये᳚ । मद᳚॑च्युतः ।
धारा᳚ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति᳚ । ग॒व्य॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानः सूयमानः स्यः सइन्दुः सोमः मदच्युतः मदार्थं देवैः प्रेरितःसन् अव्ये अवि- भवे पवित्रे पर्यक्षाः परितःक्षरति अध्वरे । ऊर्ध्वः समुच्छ्रितः सर्वेषांमुख्योयः सोमः गव्य युः गोकामः । यद्वाक्षीरादिकं कामयमानःसन् धारा धारया सह एति गच्छति । भ्राजा न भ्राजमानया दीप्त्या यथान्तरिक्षे गच्छाति तद्वत् ॥ ३ ॥

9.98.4
स हि त्वं दे᳚व॒ शश्व᳚ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ ।
इन्दो᳚ सह॒स्रिणं᳚ र॒यिं श॒तात्मा᳚नं विवाससि ॥
▶ पदपाठः (Word-by-word)
सः । हि । त्वम् । दे॒व॒ । शश्व᳚ते । वसु᳚ । मर्ता᳚य । दा॒शुषे᳚ ।
इन्दो॒ इति᳚ । स॒ह॒स्रिण᳚म् । र॒यिम् । श॒त॑आ᳚त्मानम् । वि॒वा॒स॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव सोम सत्वं शश्वते पुत्रादिमत्वेन बहवे मर्ताय मनुष्याय दाशुषे हविर्दत्तवते यजमानाय वसु धनं विवाससि । हेइन्दो सोम त्वं सहस्रिणं सहस्रसंख्याकं रयिं धनं श- तात्मानं अपरिमितपुत्रपौत्राद्युपेतं मह्यंच विवाससि प्रेरयसि । एकवाक्यतापक्षेहि तिङ- न्तस्यहियोगादनिघातः स्यात् ॥ ४ ॥

9.98.5
व॒यं ते᳚ अ॒स्य वृ᳚त्रह॒न्वसो॒ वस्व᳚ः पुरु॒स्पृहः᳚ ।
नि नेदि᳚ष्ठतमा इ॒षः स्याम᳚ सु॒म्नस्या᳚ध्रिगो ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒॑ह॒न् । वसो॒ इति᳚ । वस्वः᳚ । पु॒रु॒॑स्पृहः᳚ ।
नि । नेदि᳚ष्ठ॑तमाः । इ॒षः । स्याम᳚ । सु॒म्नस्य᳚ । अ॒ध्रि॒गो॒ इत्य᳚ध्रि॑गो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् शत्रूणांहन्तः सोम अस्यैतादृशस्य ते तव स्वभूतावयं स्मः । हेवसो वास- यितः पुरुस्पृहः बहुभिः स्पृहणीयस्य वस्वोवसुनोधनस्य त्वयादीयमानस्य वयं नितरां नेदिष्ठतमाः अत्यंतमन्तिकतमाः स्याम । तथा इषोन्नस्य । किंच हे अध्रिगो अधृतगमन- सोम सुम्नस्य सुखस्य वयमन्तिकतमाः स्याम भवेम ॥ ५ ॥

9.98.6
द्विर्यं पञ्च॒ स्वय᳚शसं॒ स्वसा᳚रो॒ अद्रि᳚संहतम् ।
प्रि॒यमिन्द्र᳚स्य॒ काम्यं᳚ प्रस्ना॒पय᳚न्त्यू॒र्मिण᳚म् ॥
▶ पदपाठः (Word-by-word)
द्विः । यम् । पञ्च᳚ । स्व॑य᳚शसम् । स्वसा᳚रः । अद्रि᳚॑संहतम् ।
प्रि॒यम् । इन्द्र᳚स्य । काम्य᳚म् । प्र॒॑स्ना॒पय᳚न्ति । ऊ॒र्मिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विः पञ्च दशसंख्याकाः स्वसारः कर्मकरणार्थमितस्ततोगच्छंत्योंगुलयः स्वयशसं स्व- भूतयशस्कं अद्रिसंहतं ग्रावभिरभिषुतं इन्द्रस्य प्रियं काम्यं सर्वैःकाम्यमानं ऊर्मिणं धारा- भिस्तद्वन्तं यं सोमं प्रस्नापयन्ति वसतीवरीभिः प्रकर्षेण सेवयन्ति यजमानाः तं पुनन्ती- त्युत्तरत्रसंबन्धः ॥ ६ ॥

9.98.7
परि॒ त्यं ह᳚र्य॒तं हरिं᳚ ब॒भ्रुं पु᳚नन्ति॒ वारे᳚ण ।
यो दे॒वान्विश्वा{4}॒ इत्परि॒ मदे᳚न स॒ह गच्छ᳚ति ॥
▶ पदपाठः (Word-by-word)
परि᳚ । त्यम् । ह॒र्य॒तम् । हरि᳚म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे᳚ण ।
यः । दे॒वान् । विश्वा᳚न् । इत् । परि᳚ । मदे᳚न । स॒ह । गच्छ᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यतं सर्वैःस्पृहणीयं हरिं हरितवर्णं बभ्रुं बभ्रुवर्णंच त्यं तं सोमं वारेण वालेन पवि- त्रेण परिपुनन्ति परिशोधयन्ति । यः सोमः विश्वान् सर्वानिन्द्रादीन् देवानित् देवानेव मदेन मादकेन रसेन सह परिगच्छति ॥ ७ ॥

9.98.8
अ॒स्य वो॒ ह्यव᳚सा॒ पान्तो᳚ दक्ष॒साध᳚नम् ।
यः सू॒रिषु॒ श्रवो᳚ बृ॒हद्द॒धे स्व१॒᳚र्ण ह᳚र्य॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । वः॒ । हि । अव᳚सा । पान्तः᳚ । द॒क्ष॒॑साध᳚नम् ।
यः । सू॒रिषु᳚ । श्रवः᳚ । बृ॒हत् । द॒धे । स्वः᳚ । न । ह॒र्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वः इति छान्दसोवसादेशः हिरवधारणे वोयुयं अस्यसोमस्य अवसा रक्षणेन दक्षसाध नं बलस्यसाधनं रसं पान्तः पिबन्तोभवथ । स्वर्ण आदित्यइव हर्यतः सर्वैःकाम्यमानोयोयं सोमः सूरिषु स्तोत्राणि प्रेरयत्सु स्तोतृषु बृहन्महत् प्रभूतं श्रवोन्नं दधे विदधे स्थापय- न्तीतियावत् ॥ ८ ॥

9.98.9
स वां᳚ य॒ज्ञेषु᳚ मानवी॒ इन्दु᳚र्जनिष्ट रोदसी ।
दे॒वो दे᳚वी गिरि॒ष्ठा अस्रे᳚ध॒न्तं तु᳚वि॒ष्वणि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । वा॒म् । य॒ज्ञेषु᳚ । मा॒न॒वी॒ इति᳚ । इन्दुः᳚ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति᳚ ।
दे॒वः । दे॒वी॒ इति᳚ । गि॒रि॒॑स्थाः । अस्रे᳚धन् । तम् । तु॒वि॒॑स्वनि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मानवी मानव्यौ मनोःस्वभूते हेदेवी द्योतमाने हे रोदसी द्यावापृथिव्यौ वां युव- योः यज्ञेषुसइन्दुः सोमः जनिष्ट अजनि अन्तरिक्षे देवः स्वतेजसा सर्वंप्रकाशयन् पृथिव्यां गिरिष्ठाः ग्रावसुतिष्ठन् तंजातं सोमं तुविस्वनि बहुस्वने उपरे यज्ञेवा अस्रेधन् ऋत्विजो- ग्रावभिः अघ्नन् अभ्यषुण्वन्नितियावत् ॥ ९ ॥

9.98.10
इन्द्रा᳚य सोम॒ पात᳚वे वृत्र॒घ्ने परि᳚ षिच्यसे ।
नरे᳚ च॒ दक्षि᳚णावते दे॒वाय᳚ सदना॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । पात᳚वे । वृ॒त्र॒॑घ्ने । परि᳚ । सि॒च्य॒से॒ ।
नरे᳚ । च॒ । दक्षि᳚णा॑वते । दे॒वाय᳚ । स॒द॒न॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वृत्रघ्ने वृत्रस्यहंत्रे इन्द्राय षष्ट्यर्थेचतुर्थी इन्द्रस्य पातवे पानार्थं परिषिच्यसे परितः पात्रेषु सिच्यसे । वसतीवरीभिर्वा । किंच दक्षिणावते ऋत्विग्भ्योदक्षिणादानेन तद्वते देवाय देवार्थं हवींषिदातुं सदनसदे यज्ञगृहे सीदते नरे मनुष्याय यजमानाय तस्मै फलदा नार्थंपरिषिच्यसे ॥ १० ॥

9.98.11 समानपद
ते प्र॒त्नासो॒ व्यु᳚ष्टिषु॒ सोमा᳚ः प॒वित्रे᳚ अक्षरन् ।
अ॒प॒प्रोथ᳚न्तः सनु॒तर्हु᳚र॒श्चितः᳚ प्रा॒तस्ता{4} अप्र᳚चेतसः ॥
▶ पदपाठः (Word-by-word)
ते । प्र॒त्नासः᳚ । वि॑उ᳚ष्टिषु । सोमाः᳚ । प॒वित्रे᳚ । अ॒क्ष॒र॒न् ।
अ॒प॒॑प्रोथ᳚न्तः । स॒नु॒तः । हु॒रः॒॑चितः᳚ । प्रा॒तरिति᳚ । तान् । अप्र᳚॑चेतसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्युष्टिषु उषसां व्युच्छनेषु प्रकाशनेषु प्रत्नासः प्रत्नाः ते सोमाः पवित्रे अक्षरन् क्षरन्ति । योसोमाः सनुतः अन्तर्हितान् अप्रचेतसः प्रज्ञारहितान् हुरश्चितः स्तेननामैतत् कौटिल्येन चिन्वन्तीति तान् मायाविनः स्तेनान् प्रातः प्रातःकालएव अपप्रोथन्तः अपप्रोथनं चाप- प्रेरणं अपप्रेरयन्तः शब्देननिराकुर्वन्तोभवन्ति तेक्षरन्तीतिसमन्वयः ॥ ११ ॥

9.98.12
तं स᳚खायः पुरो॒रुचं᳚ यू॒यं व॒यं च᳚ सू॒रयः᳚ ।
अ॒श्याम॒ वाज᳚गन्ध्यं स॒नेम॒ वाज᳚पस्त्यम् ॥
▶ पदपाठः (Word-by-word)
तम् । स॒खा॒यः॒ । पु॒रः॒॑रुच᳚म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः᳚ ।
अ॒श्याम᳚ । वाज᳚॑गन्ध्यम् । स॒नेम᳚ । वाज᳚॑पस्त्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः स्तोतारः सूरयः प्राज्ञा यूयं वयंच यजमानाः पुरोरुचं पुरतोरोचमानं वा- जगंध्यं बलकरसाधुगंधोपेतं तत्रभवं सोमं अश्याम अश्नीम पिबेम । किंच वाजपस्त्यं अन्न युक्तगृहसहितम् । यद्वा बलकरं सोमं सनेम संभजेमहि सोमेन बलान्नगृहादीनि भवन्तीत्य- र्थः ॥ १२ ॥

आहर्यतायेत्यष्टर्चं तृतीयंसूक्तं कश्यपगोत्रौरेभसून् एतत्संज्ञौ द्वावृषी आद्याबृहती सप्ता- नुष्टुभः पवमानः सोमोदेवता । तथाचानुक्रान्तं—आहर्यतायाष्टौ रेभसूनूकाश्यपौबृहत्याद्येति । गतोविनियोगः ।