नवमं मण्डलम् - सूक्तम् 101

16 ऋचः

ऋषिः: अंधीगुः श्यावाश्विः देवता: पवमानः सोमः छन्दः: अनुष्टुप्

सूक्तम् 9.101 - सम्पूर्णम्

1 / 16
ऋक्: 9.101.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
9.101.1 समानपद
पु॒रोजि᳚ती वो॒ अन्ध᳚सः सु॒ताय᳚ मादयि॒त्नवे᳚ ।
अप॒ श्वानं᳚ श्नथिष्टन॒ सखा᳚यो दीर्घजि॒ह्व्य᳚म् ॥
▶ पदपाठः (Word-by-word)
पु॒रः॑जि᳚ती । वः॒ । अन्ध᳚सः । सु॒ताय᳚ । मा॒द॒यि॒त्नवे᳚ ।
अप᳚ । श्वान᳚म् । श्न॒थि॒ष्ट॒न॒ । सखा᳚यः । दी॒र्घ॒॑जि॒ह्व्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

विज्ञातवेदगांभीर्यस्तुर्यं व्याख्यायसप्तमे । सायणार्यस्ततोध्यायं पंचमंव्याचिकीर्षति ॥ २ ॥

तत्र पुरोजितीवइति षोडशर्चं अनुवाकापेक्षया पंचमंसूक्तं आद्यस्यतृचस्य श्यावाश्वपुत्रा- अंधीगुर्नामर्षिः द्वितीयस्य नहुषस्यराज्ञःपुत्रोययातिर्नाम तृतीयस्य मनोःपुत्रोनहुषोनामरा- जर्षिः चतुर्थस्य संवरणाख्यराज्ञःपुत्रोमनुः एवं द्वादशगताः शिष्टस्यचतुरृचस्य वाचःपुत्रो- वैश्वामित्रोवा प्रजापतिरृषिः द्वितीयातृतीयेगायत्र्यौ शिष्टाश्चतुर्दशानुष्टुभः । तथाचानुक्रम्यते पुरोजितीषोळशांधीगुः श्यावाश्विर्ययातिर्नाहुषो नहुषोनाममानवो मनुःसांवरणइतितृचाः शेषोप्रजापतिरुपाद्येगायत्र्याविति गतःसूक्तविनियोगः ।

हे सखायः सखिभूताः समानख्यानावा हे स्तोतारः वो यूयं पुरोजिती षष्ठ्याःपूर्व- सवर्णदीर्घः पुरः स्थितस्य जयस्य अंधसो अदनीयस्य सोमस्य स्वभूताय सुतायाभिषुताय मादयित्नवे अत्यन्तं मदकराय रसाय दिर्घजिह्वं दीर्घाजिह्वा यस्यसः दीर्घजिह्वीचच्छं- दसीतिङीषंतत्वेन निपातितः तादृशं श्वानंच अपश्नथिष्टन अपश्नथयत अपबाधध्वं यथा श्वा राक्षसावा सुतं सोमं नलिहन्ति तथाकुरुतेत्यर्थः ॥ १ ॥ पवित्रेष्ट्यां द्वितीयस्याज्यभागस्य योधारयेत्येषानुवाक्या सूत्रितंच—पावकवन्तावाज्य- भागावग्नीरक्षांसिसेधतियोधारयापावकयेति ।

9.101.2
यो धार᳚या पाव॒कया᳚ परिप्र॒स्यन्द᳚ते सु॒तः ।
इन्दु॒रश्वो॒ न कृत्व्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । धार᳚या । पा॒व॒कया᳚ । प॒रि॒॑प्र॒स्यन्द᳚ते । सु॒तः ।
इन्दुः᳚ । अश्वः᳚ । न । कृत्व्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतः कृत्व्यः कृत्वीति कर्मनाम कर्मणि साधुर्यइन्दुः सोमः पावकया पापानां शोधकया धारया परिप्रस्यन्दते परितः प्रक्षरति । कथमिव अश्वोन अश्वोयथा वेगेन प्रग- च्छंति तद्वत् ॥ २ ॥

9.101.3
तं दु॒रोष᳚म॒भी नर॒ः सोमं᳚ वि॒श्वाच्या᳚ धि॒या ।
य॒ज्ञं हि᳚न्व॒न्त्यद्रि᳚भिः ॥
▶ पदपाठः (Word-by-word)
तम् । दु॒रोष᳚म् । अ॒भि । नरः᳚ । सोम᳚म् । वि॒श्वाच्या᳚ । धि॒या ।
य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्मनेतार ऋत्विजः दुरोषं रोषतेर्हिंसार्थस्यरेफलोपे दीर्घागाव आषतर्दाहार्थस्य वा खलु रूपमितिसंदेहादनवग्रहः । तं दुर्दहं दुर्वधंवा यज्ञं यष्टव्यं तंवा सोमं विश्वाच्या सर्वान् कामानंचित्र्या धिया बुध्या अद्रिभिर्ग्रावभिरभिहिन्वन्ति अभिप्रेरयन्ति अभिषुण्व- न्तीति यावत् ॥ ३ ॥ पृष्ठ्यस्य षष्ठेहनि ब्राह्मणाच्छंसिशस्त्रे सुतासइति –दधिक्राव्णोअकारिषमित्यनुष्टुप् सुतासोमधुमत्तमाइति च तिस्रइति ।

9.101.4
सु॒तासो॒ मधु᳚मत्तमा॒ः सोमा॒ इन्द्रा᳚य म॒न्दिनः᳚ ।
प॒वित्र᳚वन्तो अक्षरन्दे॒वान्ग᳚च्छन्तु वो॒ मदा᳚ः ॥
▶ पदपाठः (Word-by-word)
सु॒तासः᳚ । मधु᳚मत्॑तमाः । सोमाः᳚ । इन्द्रा᳚य । म॒न्दिनः᳚ ।
प॒वित्र᳚॑वन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधुमत्तमाः अतिशयेन माधुर्योपेताः अतएव मंदिनोमदकराः सुतासोभिषुताः सोमाः पवित्रवन्तः पवित्रे वर्तमानाः सन्तः इन्द्राय इन्द्रार्थं अक्षरन् पात्रेषु क्षरन्ति । अथ प्रत्य- क्षकृतः वोयुष्माकं मदामदकरारसाः देवानिन्द्रादीनागच्छन्तु ॥ ४ ॥

9.101.5 समानपद
इन्दु॒रिन्द्रा᳚य पवत॒ इति᳚ दे॒वासो᳚ अब्रुवन् ।
वा॒चस्पति᳚र्मखस्यते॒ विश्व॒स्येशा᳚न॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । इन्द्रा᳚य । प॒व॒ते॒ । इति᳚ । दे॒वासः᳚ । अ॒ब्रु॒व॒न् ।
वा॒चः । पतिः᳚ । म॒ख॒स्य॒ते॒ । विश्व᳚स्य । ईशा᳚नः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दुः सोमः इन्द्राय इन्द्रार्थं पवते कलशे क्षरति इति देवासः स्तुतिकारिणः स्तोता- रोब्रुवन् वदन्ति । यदा स्तोतार एवंवदन्ति तदानीं वाचः स्तुतेः पतिः पालयिता यद्वा शब्दस्य स्वामी अत्यन्तं शब्दायमानइत्यर्थः । तादृशः सोमः मखस्यते स्तुतिभिः पूजा- मिच्छति लालसायां सुगागमः । कीदृशः ओजसा बलेन विश्वस्य सर्वस्येशानः प्रभुः ॥ ५ ॥

9.101.6
स॒हस्र᳚धारः पवते समु॒द्रो वा᳚चमीङ्ख॒यः ।
सोम॒ः पती᳚ रयी॒णां सखेन्द्र᳚स्य दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑धारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्॑ई॒ङ्ख॒यः ।
सोमः᳚ । पतिः᳚ । र॒यी॒णाम् । सखा᳚ । इन्द्र᳚स्य । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रधारः बहुविधधारोपेतः सोमः पवते क्षरति । कीदृशः समुद्रः यस्मात्समुद्रवन्ति रसाः रसस्थानीयः वाचमींखयः ईंखतेर्ण्यन्तस्य सुप्युपपदे खच् प्रत्ययः । स्तुतीनां प्रेरयि- ता रयोणां धनानां पतिः प्रभुः यद्वा रयीणां हविषोदातॄणां यजमानानां पतिः पालयि- ता दिवेदिवे प्रत्यहं इन्द्रस्य सखामित्रभूतः सोमः पवते ॥ ६ ॥

9.101.7 समानपद
अ॒यं पू॒षा र॒यिर्भग॒ः सोमः᳚ पुना॒नो अ᳚र्षति ।
पति॒र्विश्व᳚स्य॒ भूम᳚नो॒ व्य᳚ख्य॒द्रोद᳚सी उ॒भे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । पू॒षा । र॒यिः । भगः᳚ । सोमः᳚ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
पतिः᳚ । विश्व᳚स्य । भूम᳚नः । वि । अ॒ख्य॒त् । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषा पोषकः सर्वेषां भगोभजनीयः रयिर्धनहेतुः अयं सोमः पुनानः पूयमानः सन् अर्षति कलशे गच्छति । तथा विश्वस्य सर्वस्य भूमनोभूतजातस्य पतिः पालयिता सोमः उभे रोदसी द्यावापृथिव्यौ व्यख्यत् स्वतेजसा प्रकाशयति । अनेन लोक्द्वयवर्तित्वं सूचितं ॥ ७ ॥

9.101.8
समु᳚ प्रि॒या अ᳚नूषत॒ गावो॒ मदा᳚य॒ घृष्व᳚यः ।
सोमा᳚सः कृण्वते प॒थः पव᳚मानास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । प्रि॒याः । अ॒नू॒ष॒त॒ । गावः᳚ । मदा᳚य । घृष्व᳚यः ।
सोमा᳚सः । कृ॒ण्व॒ते॒ । प॒थः । पव᳚मानासः । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रियाः प्रियतमाः घृष्वयः अत्यन्तदीप्ताः यद्वा अहं प्रथमतः स्तौमि अहं पुरस्तात् स्तौमीति परस्परं स्पर्धमानाः गावः स्तुतिलक्षणावाचः सोमस्य मदाय मदार्थं समनूषत संस्तुवन्ति । उःप्रसिद्धौ । यद्वा गावोधेनवः सोमस्य मदाय शब्दायन्ते ततः पवमानासः पूयमानाः इन्दवोदीप्ताः सोमासः सोमाः पथोमार्गान् कृण्वते रक्षणार्थं कुर्वन्ति ॥ ८ ॥

9.101.9 समानपद
य ओजि᳚ष्ठ॒स्तमा भ᳚र॒ पव᳚मान श्र॒वाय्य᳚म् ।
यः पञ्च᳚ चर्ष॒णीर॒भि र॒यिं येन॒ वना᳚महै ॥
▶ पदपाठः (Word-by-word)
यः । ओजि᳚ष्ठः । तम् । आ । भ॒र॒ । पव᳚मान । श्र॒वाय्य᳚म् ।
यः । पञ्च᳚ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन᳚ । वना᳚महै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान सोम ओजिष्ठः ओजस्वितमोयस्त्वदीयोरसोस्ति तं श्रवाय्यं श्रव- णीयं रसं आभर अस्मभ्यमाभर । किंच योरसः पञ्चचर्षणीः पञ्चजनान् निषादपञ्चमान् चतुरोवर्णान् अभितिष्ठति । अपिच येन रसेन वयं रयिं धनं च वनामहै संभजामहै यद्वा येन त्वां रयिं याचामहै तमाभर ॥ ९ ॥

9.101.10 समानपद
सोमा᳚ः पवन्त॒ इन्द᳚वो॒॑स्मभ्यं᳚ गातु॒वित्त᳚माः ।
मि॒त्राः सु᳚वा॒ना अ᳚रे॒पसः᳚ स्वा॒ध्य᳚ः स्व॒र्विदः᳚ ॥
▶ पदपाठः (Word-by-word)
सोमाः᳚ । प॒व॒न्ते॒ । इन्द᳚वः । अ॒स्मभ्य᳚म् । गा॒तु॒वित्॑त᳚माः ।
मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः᳚ । सु॒॑आ॒ध्यः᳚ । स्वः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गातुवित्तमाः अतिशयेन मार्गस्य लंभकाः इन्दवोदीप्ताः सोमाः पवन्ते अस्मभ्यं अस्म- दर्थं क्षरन्ति आगच्छन्तिवा । कीदृशाः मित्रादेवानां सखिभूताः सुवानाः अभिषूयमाणाः अरेपसः पापरहिताः अतएव स्वाध्यः शॊभनध्यानाः स्वर्विदः सर्वज्ञाः सर्वप्रापकावा ॥ १० ॥

9.101.11
सु॒ष्वा॒णासो॒ व्यद्रि᳚भि॒श्चिता᳚ना॒ गोरधि᳚ त्व॒चि ।
इष᳚म॒स्मभ्य᳚म॒भित॒ः सम᳚स्वरन्वसु॒विदः᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒स्वा॒णासः᳚ । वि । अद्रि᳚॑भिः । चिता᳚नाः । गोः । अधि᳚ । त्व॒चि ।
इष᳚म् । अ॒स्मभ्य᳚म् । अ॒भितः᳚ । सम् । अ॒स्व॒र॒न् । व॒सु॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोः अनडुहः अधित्वचि अधिषवणचर्मणि चितानाः ज्ञायमानाः अद्रिभिर्ग्रावभिः विविधं सुष्वाणासः सूयमानाः वसुविदोवसुनोलंभकाः एते सोमाः अस्मभ्यमिषमन्नमभि- तः समस्वरन् सम्यक् शब्दयन्ति प्रयच्छन्तीतियावत् ॥ ११ ॥

9.101.12
ए॒ते पू॒ता वि᳚प॒श्चित॒ः सोमा᳚सो॒ दध्या᳚शिरः ।
सूर्या᳚सो॒ न द᳚र्श॒तासो᳚ जिग॒त्नवो᳚ ध्रु॒वा घृ॒ते ॥
▶ पदपाठः (Word-by-word)
ए॒ते । पू॒ताः । वि॒पः॒॑चितः᳚ । सोमा᳚सः । दधि᳚॑आशिरः ।
सूर्या᳚सः । न । द॒र्श॒तासः᳚ । जि॒ग॒त्नवः᳚ । ध्रु॒वाः । घृ॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूताः पवित्रेण परिपूताः विपश्चितोमेधाविनोदध्याशिरः दध्यामिश्रणाः घृते वसतीवर्या ख्ये उदके जिगत्नवोगमनशीला ध्रुवाः तत्र स्थैर्येण वर्तमानाः एते सोमासः सोमाः सूर्या- सोन सूर्याइव दर्शतासः पात्रेषु सर्वैर्दर्शनीया भवन्ति ॥ १२ ॥

9.101.13
प्र सु᳚न्वा॒नस्यान्ध᳚सो॒ मर्तो॒ न वृ᳚त॒ तद्वचः᳚ ।
अप॒ श्वान᳚मरा॒धसं᳚ ह॒ता म॒खं न भृग᳚वः ॥
▶ पदपाठः (Word-by-word)
प्र । सु॒न्वा॒नस्य᳚ । अन्ध᳚सः । मर्तः᳚ । न । वृ॒त॒ । तत् । वचः᳚ ।
अप᳚ । श्वान᳚म् । अ॒रा॒धस᳚म् । ह॒त । म॒खम् । न । भृग᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुन्वानस्याभिषूयमाणस्य अन्धसोदनीयस्य सोमस्य तत्प्रसिद्धं वचः वचनं घोषं मर्तो- मारकः कर्मविघ्नकारी श्वा न प्रवृत नभजतां नश्रृणोत्विति यावत् । तथा हे स्तोतारः अराधसं राधककर्मरहितं तं श्वानं अपहत । तत्र दृष्टान्तः—मखं न यथा पुरा अपराद्ध- मखं एतन्नामानं भृगवोपहतवन्तः तथा अपहतेत्यर्थः ॥ १३ ॥

9.101.14 समानपद
आ जा॒मिरत्के᳚ अव्यत भु॒जे न पु॒त्र ओ॒ण्यो᳚ः ।
सर᳚ज्जा॒रो न योष᳚णां व॒रो न योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । जा॒मिः । अत्के᳚ । अ॒व्य॒त॒ । भु॒जे । न । पु॒त्रः । ओ॒ण्योः᳚ ।
सर᳚त् । जा॒रः । न । योष᳚णाम् । व॒रः । न । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जामिबंधुभूतो देवानां सोमः अत्के आच्छादके पवित्रे आव्यत आवृणोति संबद्धोभव- ति । तत्र दृष्टान्तः—भुजेन यथा ओण्योः रक्षकयोः मातापित्रोर्भुजे पुत्र आवृणोति तद्वत् । ततः सोयं सोमः योनिं स्वस्थानभूतं कलशमासदं आसत्तुं सरत् सरति । तत्र दृष्टान्तद्वयं- जारोन यथा जारोयोषणां असतीं स्त्रियं प्राप्तुं सरति यथावा वरः कन्यां प्राप्तुं गच्छति तद्वत् ॥ १४ ॥

9.101.15 समानपद
स वी॒रो द᳚क्ष॒साध᳚नो॒ वि यस्त॒स्तम्भ॒ रोद᳚सी ।
हरि᳚ः प॒वित्रे᳚ अव्यत वे॒धा न योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । वी॒रः । द॒क्ष॒॑साध᳚नः । वि । यः । त॒स्तम्भ᳚ । रोद᳚सी॒ इति᳚ ।
हरिः᳚ । प॒वित्रे᳚ । अ॒व्य॒त॒ । वे॒धाः । न । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षसाधनः बलसाधनः ससोमः वीरः समर्थो भवति । यः सोमः रोदसी द्यावापृथि- व्यौ वितस्तंभ स्वतेजसा व्यस्तभ्रात् आच्छादयतीत्यर्थः । किंच हरिर्हरितवर्णः सोमः वे- धान विधाता यजमानः यथा स्वगृहं असीदति तद्वत् योनिं स्वस्थानं कलशमासदं आस- त्तुं पवित्रे अव्यत आवृणोति संबद्धोभवति ॥ १५ ॥

9.101.16 समानपद
अव्यो॒ वारे᳚भिः पवते॒ सोमो॒ गव्ये॒ अधि᳚ त्व॒चि ।
कनि᳚क्रद॒द्वृषा॒ हरि॒रिन्द्र᳚स्या॒भ्ये᳚ति निष्कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
अव्यः᳚ । वारे᳚भिः । प॒व॒ते॒ । सोमः᳚ । गव्ये᳚ । अधि᳚ । त्व॒चि ।
कनि᳚क्रदत् । वृषा᳚ । हरिः । इन्द्र᳚स्य । अ॒भि । ए॒ति॒ । निः॒॑कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः अव्यः अवेर्वारेभिः वालैः पवित्रैः तेभ्यः पवते कलशं प्रति क्षरति । ग- व्ये आनडुहे अधित्वचि चर्मणि कनिक्रदत् शब्दायमानः वृषा कामानां वर्षकः हरिर्हरित- वर्णः सोमः इन्द्रस्य स्वभूतं निष्कृतं संस्कृतं स्थानं अभ्येति अभिगच्छति ॥ १६ ॥

क्राणाशिशुरित्यष्टर्चं षष्ठं सूक्तम् । आप्त्यस्य त्रितस्यार्षम् । इदमुत्तराणि चत्वारिसूक्तानि औष्णिहानि । पवमानः सोमोदेवता । तथाचानुक्रम्यते—क्राणाष्टौत्रितऔष्णिहंवैइति । गतो- विनियोगः ।