नवमं मण्डलम् - सूक्तम् 80

5 ऋचः

ऋषिः: वसुर्भारद्वाजः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.80 - सम्पूर्णम्

1 / 5
ऋक्: 9.80.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.80.1
सोम᳚स्य॒ धारा᳚ पवते नृ॒चक्ष᳚स ऋ॒तेन᳚ दे॒वान्ह᳚वते दि॒वस्परि᳚ ।
बृह॒स्पते᳚ र॒वथे᳚ना॒ वि दि᳚द्युते समु॒द्रासो॒ न सव᳚नानि विव्यचुः ॥
▶ पदपाठः (Word-by-word)
सोम᳚स्य । धारा᳚ । प॒व॒ते॒ । नृ॒॑चक्ष᳚सः । ऋ॒तेन᳚ । दे॒वान् । ह॒व॒ते॒ । दि॒वः । परि᳚ ।
बृह॒स्पतेः᳚ । र॒वथे᳚न । वि । दि॒द्यु॒ते॒ । स॒मु॒द्रासः᳚ । न । सव᳚नानि । वि॒व्य॒चुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमस्याभिषूयमाणस्य सा धारा पवते श्चोतते । कीदृशस्यसोमस्य नृचक्षसः नृणां यज मानानांद्रष्टुः सच ऋतेन यज्ञेन देवान् सोमभाजइन्द्रादीन् हवते कुत्रदिवस्परि द्युलोकस्यो परि वर्तमानान् बृहस्पतेः मंत्रपालकस्य स्तोतुः रवथेन शब्देन स्तोत्रेण विदिद्युते विद्यो- तते समुद्रासोन समुद्राइव पृथिवीं सवनानि यज्ञसंबन्धीनि विव्यचुः व्याप्नुवन्ति ॥ १ ॥

9.80.2
यं त्वा᳚ वाजिन्न॒घ्न्या अ॒भ्यनू᳚ष॒तायो᳚हतं॒ योनि॒मा रो᳚हसि द्यु॒मान् ।
म॒घोना॒मायु᳚ः प्रति॒रन्महि॒ श्रव॒ इन्द्रा᳚य सोम पवसे॒ वृषा॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू᳚षत । अयः॒॑हतम् । योनि᳚म् । आ । रो॒ह॒सि॒ । द्यु॒॑मान् ।
म॒घोना᳚म् । आयुः᳚ । प्र॒॑ति॒रन् । महि᳚ । श्रवः᳚ । इन्द्रा᳚य । सो॒म॒ । प॒व॒से॒ । वृषा᳚ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिन् अन्नवत् सोम यं त्वां अघ्र्या अहननीयागावो अभ्यनूषत अभिष्टुवन्ति आशिरार्थंस्थिताः शब्दायन्तइत्यर्थः । सत्वं अयोहतं अयइतिहिरण्यनाम तेन तद्वान् पाणि र्लक्ष्यते हिरण्मयेनपाणिनाहतं संस्कृतं योनिं स्थानमारोहसि । द्युमान् दीप्तःसन् । अभियो- निमयोहतमिति ह्युक्तम् । किंच हे सोम मघोनां हविष्मतां यजमानानां आयुरायुष्यं महि- महत् श्रदोन्नं यशोवा प्रतिरन् वर्धयन्निन्द्रायेन्द्रार्थं पवसे पूयसे । वृषा वर्षको मदोमदकर- श्च त्वम् ॥ २ ॥

9.80.3
एन्द्र᳚स्य कु॒क्षा प᳚वते म॒दिन्त᳚म॒ ऊर्जं॒ वसा᳚न॒ः श्रव᳚से सुम॒ङ्गलः᳚ ।
प्र॒त्यङ्स विश्वा॒ भुव᳚ना॒भि प᳚प्रथे॒ क्रीळ॒न्हरि॒रत्य᳚ः स्यन्दते॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । इन्द्र᳚स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्॑त᳚मः । ऊर्ज᳚म् । वसा᳚नः । श्रव᳚से । सु॒॑म॒ङ्गलः᳚ ।
प्र॒त्यङ् । सः । विश्वा᳚ । भुव᳚ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ᳚न् । हरिः᳚ । अत्यः᳚ । स्य॒न्द॒ते॒ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः इन्द्रस्यकुक्षा कुक्षौ आपवते आसिच्यते किमर्थं श्रवसे तस्यान्नाय यष्टुर्वा- न्नसिध्यर्थं सोमोविशेष्यते—मदिन्तमः मादयितृतमः ऊर्जंवसानः बलकरं रसमाच्छादयन् । अपोवसानइतिह्युक्तम् । सुमंगलः शोभनमंगलप्रदः ससोमः प्रत्यङ् विश्वाभुवना सर्वाणिभूत- जातानि अभिपप्रथे अभिप्रथयति दिव्युदितःसन् क्रीळन् वेद्यां संक्रीडमानोहरिर्हरितवर्णः अत्यः अतनकुशलः वृषावर्षकः स्यन्दते रसरूपेद्ण ॥ ३ ॥

9.80.4
तं त्वा᳚ दे॒वेभ्यो॒ मधु᳚मत्तमं॒ नरः᳚ स॒हस्र᳚धारं दुहते॒ दश॒ क्षिपः᳚ ।
नृभि᳚ः सोम॒ प्रच्यु᳚तो॒ ग्राव᳚भिः सु॒तो विश्वा᳚न्दे॒वा{4} आ प᳚वस्वा सहस्रजित् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । दे॒वेभ्यः᳚ । मधु᳚मत्॑तमम् । नरः᳚ । स॒हस्र᳚॑धारम् । दु॒ह॒ते॒ । दश᳚ । क्षिपः᳚ ।
नृ॑भिः᳚ । सो॒म॒ । प्र॑च्यु᳚तः । ग्राव᳚॑भिः । सु॒तः । विश्वा᳚न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒॑जि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तं तादृशं त्वा त्वां देवेभ्यः इन्द्राद्यर्थं मधुमत्तमं अतिशयेन मधुमन्तं सहस्र- धारं बहुधारायुक्तं दुहते दुहन्ति । के नरोनेतारः ऋत्विजोदशक्षिपः तेषां दशसंख्याका अंगुलयश्च हे सोम नृभिर्मनुष्यैः प्रच्युतोग्रावभिः सुतोभिषुतस्त्वं सहस्रजित् सहस्रसंख्या- कस्यधनस्य जेता सन् विश्वान् देवान् आपवस्व ॥ ४ ॥

9.80.5
तं त्वा᳚ ह॒स्तिनो॒ मधु᳚मन्त॒मद्रि᳚भिर्दु॒हन्त्य॒प्सु वृ᳚ष॒भं दश॒ क्षिपः᳚ ।
इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव᳚मानो अर्षसि ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । ह॒स्तिनः᳚ । मधु᳚॑मन्तम् । अद्रि᳚॑भिः । दु॒हन्ति᳚ । अ॒प्॑सु । वृ॒ष॒भम् । दश᳚ । क्षिपः᳚ ।
इन्द्र᳚म् । सो॒म॒ । मा॒दय᳚न् । दैव्य᳚म् । जन᳚म् । सिन्धोः᳚॑इव । ऊ॒र्मिः । पव᳚मानः । अ॒र्ष॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं तादृशं मधुमन्तं मधुररसं वृषभं कामानांवर्षकं त्वा त्वां हस्तिनः सुहस्तस्य दश- क्षिपोंगुलयः अद्रिभिर्ग्रावभिरप्सु दुहंति । तादृश हेसोम इन्द्रं अन्यं दैव्यं जनं देवसंबन्धिनं संघं मादयन् सिंधोरूर्मिरिव पवमानः पूयमानः सन्नर्षसि गच्छसि ॥ ५ ॥

प्रसोमस्येति पंचर्चंचतुर्दशंसूक्तं ऋषिदैवतेपूर्ववत् अंत्यात्रिष्टुप् शिष्टाजगत्यः । प्रसोम- स्येत्यनुक्रान्तम् । गतोविनियोगः ।