श्रवणम्

9.80.3
एन्द्र᳚स्य कु॒क्षा प᳚वते म॒दिन्त᳚म॒ ऊर्जं॒ वसा᳚न॒ः श्रव᳚से सुम॒ङ्गलः᳚ ।
प्र॒त्यङ्स विश्वा॒ भुव᳚ना॒भि प᳚प्रथे॒ क्रीळ॒न्हरि॒रत्य᳚ः स्यन्दते॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । इन्द्र᳚स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्॑त᳚मः । ऊर्ज᳚म् । वसा᳚नः । श्रव᳚से । सु॒॑म॒ङ्गलः᳚ ।
प्र॒त्यङ् । सः । विश्वा᳚ । भुव᳚ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ᳚न् । हरिः᳚ । अत्यः᳚ । स्य॒न्द॒ते॒ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः इन्द्रस्यकुक्षा कुक्षौ आपवते आसिच्यते किमर्थं श्रवसे तस्यान्नाय यष्टुर्वा- न्नसिध्यर्थं सोमोविशेष्यते—मदिन्तमः मादयितृतमः ऊर्जंवसानः बलकरं रसमाच्छादयन् । अपोवसानइतिह्युक्तम् । सुमंगलः शोभनमंगलप्रदः ससोमः प्रत्यङ् विश्वाभुवना सर्वाणिभूत- जातानि अभिपप्रथे अभिप्रथयति दिव्युदितःसन् क्रीळन् वेद्यां संक्रीडमानोहरिर्हरितवर्णः अत्यः अतनकुशलः वृषावर्षकः स्यन्दते रसरूपेद्ण ॥ ३ ॥