श्रवणम्

9.80.5
तं त्वा᳚ ह॒स्तिनो॒ मधु᳚मन्त॒मद्रि᳚भिर्दु॒हन्त्य॒प्सु वृ᳚ष॒भं दश॒ क्षिपः᳚ ।
इन्द्रं᳚ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो᳚रिवो॒र्मिः पव᳚मानो अर्षसि ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । ह॒स्तिनः᳚ । मधु᳚॑मन्तम् । अद्रि᳚॑भिः । दु॒हन्ति᳚ । अ॒प्॑सु । वृ॒ष॒भम् । दश᳚ । क्षिपः᳚ ।
इन्द्र᳚म् । सो॒म॒ । मा॒दय᳚न् । दैव्य᳚म् । जन᳚म् । सिन्धोः᳚॑इव । ऊ॒र्मिः । पव᳚मानः । अ॒र्ष॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं तादृशं मधुमन्तं मधुररसं वृषभं कामानांवर्षकं त्वा त्वां हस्तिनः सुहस्तस्य दश- क्षिपोंगुलयः अद्रिभिर्ग्रावभिरप्सु दुहंति । तादृश हेसोम इन्द्रं अन्यं दैव्यं जनं देवसंबन्धिनं संघं मादयन् सिंधोरूर्मिरिव पवमानः पूयमानः सन्नर्षसि गच्छसि ॥ ५ ॥

प्रसोमस्येति पंचर्चंचतुर्दशंसूक्तं ऋषिदैवतेपूर्ववत् अंत्यात्रिष्टुप् शिष्टाजगत्यः । प्रसोम- स्येत्यनुक्रान्तम् । गतोविनियोगः ।