नवमं मण्डलम् - सूक्तम् 48

5 ऋचः

ऋषिः: कविर्भार्गवः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.48 - सम्पूर्णम्

1 / 5
ऋक्: 9.48.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.48.1
तं त्वा᳚ नृ॒म्णानि॒ बिभ्र᳚तं स॒धस्थे᳚षु म॒हो दि॒वः ।
चारुं᳚ सुकृ॒त्यये᳚महे ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । नृ॒म्णानि᳚ । विभ्र᳚तम् । स॒ध॑स्थे᳚षु । म॒हः । दि॒वः ।
चारु᳚म् । सु॒॑कृ॒त्यया᳚ । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महो दिवः महतोद्युलोकस्य सधस्थेषु सहस्थानेषु स्थितं नृम्णानि धनानि बिभ्रतमस्मदर्थं धारयन्तं चारुं कल्याणं तं पवमानं त्वा त्वां सुकृत्यया शोभनया क्रियया ईमहे धनानि याचामहे ॥ १ ॥

9.48.2
संवृ᳚क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम᳚हिव्रतं॒ मद᳚म् ।
श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ॥
▶ पदपाठः (Word-by-word)
संवृ᳚क्त॑धृष्णुम् । उ॒क्थ्य᳚म् । म॒हा॑म᳚हिव्रतम् । मद᳚म् ।
श॒तम् । पुरः᳚ । रु॒रु॒क्षणि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम संवृक्तधृष्णुं संवृक्ताः संछिन्ना धृष्णवो धर्षणशीलाः शत्रवो येनासौ संवृक्तधृष्णु स्तमुक्थ्यमुक्थार्हं प्रशंस्यं महामहिव्रतं मंहनीयबहुकर्माणं मदं मदकरं शतं बहूनि पुरः शत्रूणां पुराणि रुरुक्षणिं विनाशयन्तं त्वां धनानीमहइति संबन्धः ॥ २ ॥

9.48.3
अत᳚स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः ।
सु॒प॒र्णो अ᳚व्य॒थिर्भ᳚रत् ॥
▶ पदपाठः (Word-by-word)
अतः᳚ । त्वा॒ । र॒यिम् । अ॒भि । राजा᳚नम् । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । दि॒वः ।
सु॒॑प॒र्णः । अ॒व्य॒थिः । भ॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुक्रतो शोभनकर्मन् पवमानसोम रयिमभि धनंप्रति राजानं त्वा त्वां अतोदिवोमुष्मा- त् द्युलोकात् अव्यथिर्व्यथारहितः सुपर्णः रयेनोभरदाहरत् । तथाचनिगमान्तरं—आदायश्ये- नोअभरत्सोममिति ॥ ३ ॥

9.48.4
विश्व᳚स्मा॒ इत्स्व᳚र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् ।
गो॒पामृ॒तस्य॒ विर्भ᳚रत् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्मै । इत् । स्वः᳚ । दृ॒शे । साधा᳚रणम् । र॒जः॒॑तुर᳚म् ।
गो॒पाम् । ऋ॒तस्य᳚ । विः । भ॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रजस्तुरमुदकस्य प्रेरकमृतस्य यज्ञस्य गोपां गोपायितारं विश्वस्मै सर्वस्मै स्वर्दृशे सर्वेदृशे देवाय साधारणमित्समानमेवसन्तं सोमं विः पक्षी श्येनोभरत् स्वर्गादाहरत् ॥ ४ ॥

9.48.5
अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे ।
अ॒भि॒ष्टि॒कृद्विच᳚र्षणिः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि॒न्वा॒नः । इ॒न्द्रि॒यम् । ज्यायः᳚ । म॒हि॒॑त्वम् । आ॒न॒शे॒ ।
अ॒भि॒ष्टि॒॑कृत् । वि॑च᳚र्षणिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाथ विचर्षणिः कर्मणां विद्रष्टा अभिष्टिकृद्यजमानानामभीष्टस्य फलस्य कर्ता सोमः इन्द्रियः स्वकीयं बलं हिन्वानः प्रेरयन् ज्यायः प्रशस्यतरं महित्वं महत्त्वमानशे प्राप्नोति ॥ ५ ॥

पवस्वेति पंचर्चं पंचविंशं सूक्तं ऋष्याद्याः पूर्ववत् । पवस्वेत्यनुक्रान्तम् । गतोविनियोगः ।