नवमं मण्डलम् - सूक्तम् 62

30 ऋचः

ऋषिः: जमदग्निः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.62 - सम्पूर्णम्

1 / 30
ऋक्: 9.62.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
9.62.1
ए॒ते अ᳚सृग्र॒मिन्द᳚वस्ति॒रः प॒वित्र᳚मा॒शवः᳚ ।
विश्वा᳚न्य॒भि सौभ᳚गा ॥
▶ पदपाठः (Word-by-word)
ए॒ते । अ॒सृ॒ग्र॒म् । इन्द᳚वः । ति॒रः । प॒वित्र᳚म् । आ॒शवः᳚ ।
विश्वा᳚नि । अ॒भि । सौभ᳚गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशवः शीघ्रा एते पवमानाइन्दवः सोमा विश्वानि सर्वाणि सौभगा सौभगानि धनान्य- भिलक्ष्य पवित्रं तिरः असृग्रं ऋत्विग्भिः सृज्यन्ते ॥ १ ॥

9.62.2
वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय᳚ वा॒जिनः᳚ ।
तना᳚ कृ॒ण्वन्तो॒ अर्व᳚ते ॥
▶ पदपाठः (Word-by-word)
वि॒॑घ्नन्तः᳚ । दुः॒॑इ॒ता । पु॒रु । सु॒॑गा । तो॒काय᳚ । वा॒जिनः᳚ ।
तना᳚ । कृ॒ण्वन्तः᳚ । अर्व᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनो बलवन्तः सोमाः पुरु बहूनि दुरिता दुरितानि विघ्नन्तो विशेषेण नाशयन्तः तो- कायास्माकं पुत्रायार्वतेश्वाय च सुगा सुखानि तना धनानि च कृण्वन्तः कुर्वन्तः तिरः पवित्रं सज्यन्त इति संबन्धः ॥ २ ॥

9.62.3
कृ॒ण्वन्तो॒ वरि᳚वो॒ गवे॒॑भ्य᳚र्षन्ति सुष्टु॒तिम् ।
इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ॥
▶ पदपाठः (Word-by-word)
कृ॒ण्वन्तः᳚ । वरि᳚वः । गवे᳚ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒॑स्तु॒तिम् ।
इळा᳚म् । अ॒स्मभ्य᳚म् । स॒म्॑यत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्माकं गवेस्मभ्यंच संयतं यदास्मान् संयच्छति तद्वरिवोधनमिळामन्नं च कृण्वन्तः कुर्वंतः सोमाः सुष्टुतिमस्मदीयां शोभनां स्तुतिमभ्यर्षंत्याभिमुख्येन गच्छन्ति ॥ ३ ॥

9.62.4
असा᳚व्यं॒शुर्मदा᳚या॒प्सु दक्षो᳚ गिरि॒ष्ठाः ।
श्ये॒नो न योनि॒मास᳚दत् ॥
▶ पदपाठः (Word-by-word)
असा᳚वि । अं॒शुः । मदा᳚य । अ॒प्॑सु । दक्षः᳚ । गि॒रि॒॑स्थाः ।
श्ये॒नः । न । योनि᳚म् । आ । अ॒स॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गिरिष्ठाः पर्वतेजातोंशुः सोमोमदाय मदार्थमसाव्यभिषुतः अप्सु वसतीवरीषु दक्षः प्रवृ- द्धश्च भवति । किंच श्येनोन यथा श्येनोवेगेन आगत्य स्थानमासीदति तद्वदयं सोमो योनिं स्वकीयं स्थानमसददासीदति ॥ ४ ॥

9.62.5
शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभि᳚ः सु॒तः ।
स्वद᳚न्ति॒ गाव॒ः पयो᳚भिः ॥
▶ पदपाठः (Word-by-word)
शु॒भ्रम् । अन्धः᳚ । दे॒व॑वा᳚तम् । अ॒प्॑सु । धू॒तः । नृ॑भिः᳚ । सु॒तः ।
स्वद᳚न्ति । गावः᳚ । पयः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्देववातं देवैःप्रार्थितं शुभ्रं शोभनमन्धोन्नं गावः पशवः पयोभिराशिरैः स्वदन्ति स्वादय- न्ति सोयं सोमो नृभिर्नेतृभिरृत्विग्भिः सुतोभिषुतः सन्नप्सु वसतीवरीषु धूतः शोधितोभवति ॥ ५ ॥

9.62.6
आदी॒मश्वं॒ न हेता॒रो॑शू᳚शुभन्न॒मृता᳚य ।
मध्वो॒ रसं᳚ सध॒मादे᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । अश्व᳚म् । न । हेता᳚रः । अशू᳚शुभन् । अ॒मृता᳚य ।
मध्वः᳚ । रस᳚म् । स॒ध॒॑मादे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदनन्तरं हेतारः प्रेरकाऋत्विजः सधमादे यज्ञे ईमेनं मध्वोमदकरस्य सोमस्य रसं अमृतायामरणायाश्वं नाश्वमिवाशूशुभन् शोभयन्ति ॥ ६ ॥

9.62.7
यास्ते॒ धारा᳚ मधु॒श्चुतो॑सृ᳚ग्रमिन्द ऊ॒तये᳚ ।
ताभि᳚ः प॒वित्र॒मास᳚दः ॥
▶ पदपाठः (Word-by-word)
याः । ते॒ । धाराः᳚ । म॒धु॒॑श्चुतः᳚ । असृ᳚ग्रम् । इ॒न्दो॒ इति᳚ । ऊ॒तये᳚ ।
ताभिः᳚ । प॒वित्र᳚म् । आ । अ॒स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम ते तव मधुश्चुतो मधुररसस्य श्चोतयित्र्योयाधारा ऊतये रक्षणाय असृयमसृ- ज्यन्त ताभिर्धाराभिस्त्वं पवित्रमासदआसीद ॥ ७ ॥

9.62.8
सो अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ ।
सीद॒न्योना॒ वने॒ष्वा ॥
▶ पदपाठः (Word-by-word)
सः । अ॒र्ष॒ । इन्द्रा᳚य । पी॒तये᳚ । ति॒रः । रोमा᳚णि । अ॒व्यया᳚ ।
सीद᳚न् । योना᳚ । वने᳚षु । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सोभिषुतस्त्वं अव्यया अव्ययानि अविमयानि रोमाणि वालानि तिरस्तिरस्कुर्वन् वमेषु पात्रेषु योना योनौ स्थाने आसीदन्निन्द्रायेन्द्रस्य पीतये पानायार्ष क्षर ॥ ८ ॥

9.62.9
त्वमि᳚न्दो॒ परि᳚ स्रव॒ स्वादि᳚ष्ठो॒ अङ्गि᳚रोभ्यः ।
व॒रि॒वो॒विद्घृ॒तं पयः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ । स्वादि᳚ष्ठः । अङ्गि᳚रः॑भ्यः ।
व॒रि॒वः॒॑वित् । घृ॒तम् । पयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम स्वादिष्ठः स्वादुतमो वरिवोविदस्मदभिलषितस्य धनस्य लंभकश्च त्वमं- गिरोभ्योंगिरसामर्थाय घृतमाज्यं पयश्च परिस्रव परिक्षर ॥ ९ ॥

9.62.10
अ॒यं विच᳚र्षणिर्हि॒तः पव᳚मान॒ः स चे᳚तति ।
हि॒न्वा॒न आप्यं᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वि॑च᳚र्षणिः । हि॒तः । पव᳚मानः । सः । चे॒त॒ति॒ ।
हि॒न्वा॒नः । आप्य᳚म् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विचर्षणिर्विद्रष्टा हितः पात्रेषु निहितः पवमानः अयं सोम आप्यमप्सुभवं बृहन्महदन्नं हिन्वानः प्रेरयन् सचेतति सर्वैः सज्ञायते ॥ १० ॥

9.62.11
ए॒ष वृषा॒ वृष᳚व्रत॒ः पव᳚मानो अशस्ति॒हा ।
कर॒द्वसू᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वृषा᳚ । वृष᳚॑व्रतः । पव᳚मानः । अ॒श॒स्ति॒॑हा ।
कर᳚त् । वसू᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानां सेक्ता वृषव्रतो वृषकर्मा अशास्तिहा राक्षसानां हन्ता पवमान एषसोमो दाशुषे हविषां दात्रे यजमानाय वसूनि धनानि करत् करोति प्रयच्छतीत्यर्थः ॥ ११ ॥

9.62.12
आ प᳚वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् ।
पु॒रु॒श्च॒न्द्रं पु᳚रु॒स्पृह᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । स॒ह॒स्रिण᳚म् । र॒यिम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् ।
पु॒रु॒॑च॒न्द्रम् । पु॒रु॒॑स्पृह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं सहस्रिणं बहुसंख्याकं गोमन्तं गोभिरुपेतमश्विनमश्ववन्तं पुरुश्चन्द्रं बहूनां हर्षकं पुरुस्पृहं बहुस्पृहणीयं रयिं धनमापवस्व परिक्षर ॥ १२ ॥

9.62.13
ए॒ष स्य परि᳚ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभि᳚ः ।
उ॒रु॒गा॒यः क॒विक्र᳚तुः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । परि᳚ । सि॒च्य॒ते॒ । म॒र्मृ॒ज्यमा᳚नः । आ॒यु॑भिः᳚ ।
उ॒रु॒॑गा॒यः । क॒वि॑क्र᳚तुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उरुगायो बहुस्तुतिः कविक्रतुः क्रांतप्रज्ञः क्रान्तकर्मा वा स्यः सएषोयं सोम आयुभिर्मनुष्यै- र्मर्मृज्यमानः शोध्यमानः परिषिच्यते ॥ १३ ॥

9.62.14
स॒हस्रो᳚तिः श॒ताम᳚घो वि॒मानो॒ रज᳚सः क॒विः ।
इन्द्रा᳚य पवते॒ मदः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑ऊतिः । श॒त॑म᳚घः । वि॒॑मानः᳚ । रज᳚सः । क॒विः ।
इन्द्रा᳚य । प॒व॒ते॒ । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रोतिरपरिमितरक्षणः शतमघो बहुधनो रजसो लोकस्य विमानो निर्माता कविः क्रान्त कर्मा मदो मदकरः सोमइन्द्रायेन्द्रार्थं पवते धारया क्षरति ॥ १४ ॥

9.62.15
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते ।
विर्योना᳚ वस॒तावि᳚व ॥
▶ पदपाठः (Word-by-word)
गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः᳚ । इन्द्रा᳚य । धी॒य॒ते॒ ।
विः । योना᳚ । व॒स॒तौ॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातः प्रादुर्भूतः गिरा स्तुत्या स्तुतश्चेन्दुः सोम इहास्मिन्यज्ञे योना योनौ स्वस्थाने इन्द्रा- येन्द्रार्थं वसताविव विःपक्षी यथा स्ववासे तथा धीयते निधीयते ॥ १५ ॥

9.62.16
पव᳚मानः सु॒तो नृभि॒ः सोमो॒ वाज᳚मिवासरत् ।
च॒मूषु॒ शक्म᳚ना॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । सु॒तह् । नृ॑भिः᳚ । सोमः᳚ । वाज᳚म्॑इव । अ॒स॒र॒त् ।
च॒मूषु᳚ । शक्म᳚ना । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृभिर्नेतृभिरृत्विग्भिः सुतोभिषुतः पवमानः सोमश्च चमूषु चमसेषु शक्मना बलेनासद- मुपवेष्टुं वाजमिव युद्धमिव स्थानमसरत्सरति ॥ १६ ॥

9.62.17
तं त्रि᳚पृ॒ष्ठे त्रि᳚वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात᳚वे ।
ऋषी᳚णां स॒प्त धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । त्रि॒॑पृ॒ष्ठे । त्रि॒॑व॒न्धु॒रे । रथे᳚ । यु॒ञ्ज॒न्ति॒ । यात᳚वे ।
ऋषी᳚णाम् । स॒प्त । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिपृष्ठे त्रिषवणपृष्ठे त्रिवंधुरे त्रिवेदवधुरे ऋषीणांरथे यज्ञरथे तं सोमं सप्त सप्तभिः धीतिभि- श्छंदोभिः यातवे देवान्प्रतिगन्तुं युंजन्ति ऋत्विजोयोजयन्ति ॥ १७ ॥

9.62.18
तं सो᳚तारो धन॒स्पृत᳚मा॒शुं वाजा᳚य॒ यात᳚वे ।
हरिं᳚ हिनोत वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । सो॒ता॒रः॒ । ध॒न॒॑स्पृत᳚म् । आ॒शुम् । वाजा᳚य । यात᳚वे ।
हरि᳚म् । हि॒नो॒त॒ । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोतारोभिषवकर्तार ऋत्विजः धनस्पृतं धनानां स्प्रष्टारं वाजिनं बलिनं आशुं वेगवंतं सोमात्मकं हरिमश्वं वाजाय यज्ञाख्यं संग्रामं यातवे गतुं हिनोत प्रेरयत । यथा योद्धारोयुद्धं गंतुं बलिनं वेगवंतमश्वं प्रेरयन्ति तद्वत् यज्ञमभीगन्तुं बलवन्तं सोमं प्रेरयतेति भावः ॥ १८ ॥

9.62.19
आ॒वि॒शन्क॒लशं᳚ सु॒तो विश्वा॒ अर्ष᳚न्न॒भि श्रियः᳚ ।
शूरो॒ न गोषु᳚ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
आ॒॑वि॒शन् । क॒लश᳚म् । सु॒तः । विश्वा᳚ । अर्ष᳚न् । अ॒भि । श्रियः᳚ ।
शूरः᳚ । न । गोषु᳚ । ति॒ष्ठ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतः सोमः कलशं द्रोण्माविशन् विश्वाः सर्वाः श्रियः संपदोभ्यर्षन् अस्मानभिगम- यन् गोषु शत्रूणां पशुषु शूरोन यथाशूरो निःशंकस्तिष्ठति तद्वद्यज्ञेषु निःशंकस्तिष्ठति ॥ १९ ॥

9.62.20
आ त᳚ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः᳚ ।
दे॒वा दे॒वेभ्यो॒ मधु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । इ॒न्दो॒ इति᳚ । मदा᳚य । कम् । पयः᳚ । दु॒ह॒न्ति॒ । आ॒यवः᳚ ।
दे॒वाः । दे॒वेभ्यः᳚ । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम ते तव मधु मधुभूतं पयः पेयरसं देवाः स्तोतारः आयवोमनुष्या मदाय कं मदार्थं देवेभ्य इन्द्रादिभ्यः आदुहन्ति ॥ २० ॥

9.62.21
आ न॒ः सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु᳚मत्तमम् ।
दे॒वेभ्यो᳚ देव॒श्रुत्त᳚मम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । सोम᳚म् । प॒वित्रे᳚ । आ । सृ॒जत᳚ । मधु᳚मत्॑तमम् ।
दे॒वेभ्यः᳚ । दे॒व॒श्रुत्॑त᳚मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो नोस्माकं देवश्रुत्तममत्यन्तं देवैः श्रूयमाणं मधुमत्तमं अतिशयेन मधुमन्तं सोमंदेवेभ्य इन्द्राधर्थं पवित्रे दशापवित्रे आसृजत साधयत ॥ २१ ॥

9.62.22
ए॒ते सोमा᳚ असृक्षत गृणा॒नाः श्रव᳚से म॒हे ।
म॒दिन्त᳚मस्य॒ धार᳚या ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमाः᳚ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव᳚से । म॒हे ।
म॒दिन्॑त᳚मस्य । धार᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृणानाः स्तूयमाना एते इमे सोमा महे महते श्रवसे अन्नाय मदिन्तमस्य मादयितृतमस्य रसस्य धारया असृक्षत ऋत्विग्भिः सृज्यन्ते ॥ २२ ॥

9.62.23
अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु᳚ना॒नो अ᳚र्षसि ।
स॒नद्वा᳚ज॒ः परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
अ॒भि । गव्या᳚नि । वी॒तये᳚ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ ।
स॒नत्॑वा᳚जः । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पुनानः पूयमानोयस्त्वं वीतये भक्षणाय गव्यानि गोसंबन्धीनि नृम्णा नृम्णानि धनानि क्षीरादीन्यभ्यर्षस्यभिगच्छसि । सत्वं सनद्वाजोदीयमानान्नः सन् परिस्रव परिक्षर ॥ २३ ॥

9.62.24
उ॒त नो॒ गोम᳚ती॒रिषो॒ विश्वा᳚ अर्ष परि॒ष्टुभः᳚ ।
गृ॒णा॒नो ज॒मद᳚ग्निना ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॑म᳚तीः । इषः᳚ । विश्वाः᳚ । अ॒र्ष॒ । प॒रि॒॑स्तुभः᳚ ।
गृ॒णा॒नः । ज॒मत्॑अ᳚ग्निना ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सोम जमदग्निनाम्ना ऋषिणा मया गृणानः स्तुयमानस्त्वं नोस्माकं गोमती- र्गोभिर्युक्तानि परिष्टुभः परितः श्रोतव्यानि विश्वाः सर्वाणि इषोन्नान्यर्ष गच्छ अस्मभ्यमेवं- विधान्यन्नानि देहीत्यर्थः ॥ २४ ॥

9.62.25
पव᳚स्व वा॒चो अ᳚ग्रि॒यः सोम᳚ चि॒त्राभि᳚रू॒तिभि᳚ः ।
अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । वा॒चः । अ॒ग्रि॒यः । सोम᳚ । चि॒त्राभिः᳚ । ऊ॒ति॑भिः᳚ ।
अ॒भि । विश्वा᳚नि । काव्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमाग्रियोमुख्यस्त्वं चित्राभिः पूजनीयैरूतिभीरक्षणैः सह वाचोस्मदीयाःस्तुतीः अभिपवस्व । एतदेव दर्शयति – विश्वानि सर्वाणि काव्या काव्यानि स्तुत्यात्मकानि वाक्यान्य भि पवस्वेति ॥ २५ ॥

9.62.26
त्वं स᳚मु॒द्रिया᳚ अ॒पो᳚॑ग्रि॒यो वाच᳚ ई॒रय᳚न् ।
पव᳚स्व विश्वमेजय ॥
▶ पदपाठः (Word-by-word)
त्वम् । स॒मु॒द्रियाः᳚ । अ॒पः । अ॒ग्रि॒यः । वाचः᳚ । ई॒रय᳚न् ।
पव᳚स्व । वि॒श्व॒म्॑ए॒ज॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वमेजय विश्वकंपक सोमाग्रियोमुख्यस्त्वं वाचईरयन् प्रेरयन् समुद्रियाआन्तरिक्षाण्य पउदकानि पवस्व धारया क्षर ॥ २६ ॥

9.62.27
तुभ्ये॒मा भुव᳚ना कवे महि॒म्ने सो᳚म तस्थिरे ।
तुभ्य᳚मर्षन्ति॒ सिन्ध᳚वः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इ॒मा । भुव᳚ना । क॒वे॒ । म॒हि॒म्ने । सो॒म॒ । त॒स्थि॒रे॒ ।
तुभ्य᳚म् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तकर्मन् सोम तुभ्य तुभ्यं तव महिम्ने इमा इमानि भुवना भुवनानि तस्थिरे तिष्ठन्ति त्वामेव पुरस्कुर्वन्तीत्यर्थः । अपिच सिंधवोनद्यस्तुभ्यमेवार्षंति गच्छन्ति त्वदाज्ञामे- वानुबलयन्तीत्यर्थः ॥ २७ ॥

9.62.28
प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः᳚ ।
अ॒भि शु॒क्रामु᳚प॒स्तिर᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । दि॒वः । न । वृ॒ष्टयः᳚ । धाराः᳚ । य॒न्ति॒ । अ॒स॒श्चतः᳚ ।
अ॒भि । शु॒क्राम् । उ॒प॒॑स्तिर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव असश्चतोसंगाधारा दिवोन्तरिक्षाद्वृष्टयोन वर्षाणीव शुक्रां शुक्लवर्णां सुक्लवर्णैरविलोमनिर्मितमुपस्तिर मुपस्तीर्यमाणं पवितमभि प्रति प्रयन्ति ॥ २८ ॥

9.62.29
इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध᳚नम् ।
ई॒शा॒नं वी॒तिरा᳚धसम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । इन्दु᳚म् । पु॒नी॒त॒न॒ । उ॒ग्रम् । दक्षा᳚य । साध᳚नम् ।
ई॒शा॒नम् । वी॒ति॑रा᳚धसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः उग्रमुद्र्गूर्णं दक्षाय बलस्य साधनं करणं ईशानं धनानामीश्वरं वीतिराधसं दत्तधनं इन्दुं सोमं इन्दायेन्द्रार्थं पुनीतन पुनीत ॥ २९ ॥

9.62.30
पव᳚मान ऋ॒तः क॒विः सोमः᳚ प॒वित्र॒मास᳚दत् ।
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । ऋ॒तः । क॒विः । सोमः᳚ । प॒वित्र᳚म् । आ । अ॒स॒द॒त् ।
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतः सत्यभूतः कविः क्रान्तकर्मा पवमानः सोमोस्मदीये स्तोत्रे सुवीर्यं शोभनवीर्यं द- धत् प्रयच्छन् पवित्रमासददासीदति ॥ ३० ॥

आपवस्वेति त्रिंशदृचं तृतीयं सूक्तं काश्यपस्य निध्रुवेरार्षं गायत्रं पवमानसोमदेव- ताकम् । तथाचानुक्रान्तं—आपवस्वनिध्रुविः काश्यपइति । गतोविनियोगः ।