श्रवणम्

9.62.30
पव᳚मान ऋ॒तः क॒विः सोमः᳚ प॒वित्र॒मास᳚दत् ।
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । ऋ॒तः । क॒विः । सोमः᳚ । प॒वित्र᳚म् । आ । अ॒स॒द॒त् ।
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतः सत्यभूतः कविः क्रान्तकर्मा पवमानः सोमोस्मदीये स्तोत्रे सुवीर्यं शोभनवीर्यं द- धत् प्रयच्छन् पवित्रमासददासीदति ॥ ३० ॥

आपवस्वेति त्रिंशदृचं तृतीयं सूक्तं काश्यपस्य निध्रुवेरार्षं गायत्रं पवमानसोमदेव- ताकम् । तथाचानुक्रान्तं—आपवस्वनिध्रुविः काश्यपइति । गतोविनियोगः ।