श्रवणम्

9.62.20
आ त᳚ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः᳚ ।
दे॒वा दे॒वेभ्यो॒ मधु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । इ॒न्दो॒ इति᳚ । मदा᳚य । कम् । पयः᳚ । दु॒ह॒न्ति॒ । आ॒यवः᳚ ।
दे॒वाः । दे॒वेभ्यः᳚ । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम ते तव मधु मधुभूतं पयः पेयरसं देवाः स्तोतारः आयवोमनुष्या मदाय कं मदार्थं देवेभ्य इन्द्रादिभ्यः आदुहन्ति ॥ २० ॥