नवमं मण्डलम् - सूक्तम् 106

14 ऋचः

ऋषिः: अग्निष्चाक्षुषः देवता: पवमानः सोमः छन्दः: उष्णिक्

सूक्तम् 9.106 - सम्पूर्णम्

1 / 14
ऋक्: 9.106.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
9.106.1
इन्द्र॒मच्छ᳚ सु॒ता इ॒मे वृष᳚णं यन्तु॒ हर᳚यः ।
श्रु॒ष्टी जा॒तास॒ इन्द᳚वः स्व॒र्विदः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । अच्छ᳚ । सु॒ताः । इ॒मे । वृष᳚णम् । य॒न्तु॒ । हर᳚यः ।
श्रु॒ष्टी । जा॒तासः᳚ । इन्द᳚वः । स्वः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रं जातासोजाताः इन्दवः पात्रेषु क्षरन्तः स्वर्विदः सर्वज्ञाः हरयोहरितवर्णाः सुताअभिषुताः इमे सोमाः वृषणं कामानां सेक्तारमिन्द्रं अच्छयन्तु अ- भिगच्छन्तु ॥ १ ॥

9.106.2
अ॒यं भरा᳚य सान॒सिरिन्द्रा᳚य पवते सु॒तः ।
सोमो॒ जैत्र᳚स्य चेतति॒ यथा᳚ वि॒दे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । भरा᳚य । सा॒न॒सिः । इन्द्रा᳚य । प॒व॒ते॒ । सु॒तः ।
सोमः᳚ । जैत्र᳚स्य । चे॒त॒ति॒ । यथा᳚ । वि॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

भराय संग्रामाय तदर्थं सानसिर्भजनीयः सुतोभिषुतोयं सोमः इन्द्रायेन्द्रार्थं पवते ग्रहा दिषु क्षरति । ततः सोमः जैत्रस्य क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । जयशीलमिन्द्रं चेतति जानाति यथा इन्दोविदे लोकैर्ज्ञायते तथा जानाति ॥ २ ॥

9.106.3
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ᳚भ्णीत सान॒सिम् ।
वज्रं᳚ च॒ वृष᳚णं भर॒त्सम᳚प्सु॒जित् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । इन्द्रः᳚ । मदे᳚षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् ।
वज्र᳚म् । च॒ । वृष᳚णम् । भ॒र॒त् । सम् । अ॒प्सु॒॑जित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आअनन्तरं इन्द्रः अस्येत् अस्य सोमस्यैव मदेषु संजातेषु सानसिं सर्वैः संभजनीयं ग्राभं ग्राहं गृहीतव्यं धनुर्गृभ्णीत गृह्णाति हृग्रहोर्भइति भत्वम् । किंच अप्सुजित् उदका- र्थंवृत्रस्य जेता । यद्वा आपइत्यन्तरिक्षनाम अन्तरिक्षे अहिनामकस्य जेता इन्द्रः वृषणं वर्षितारं वज्रं च संभरत् संबिभर्तु बिभर्तेर्लेट्यडागमः ॥ ३ ॥

9.106.4
प्र ध᳚न्वा सोम॒ जागृ᳚वि॒रिन्द्रा᳚येन्दो॒ परि᳚ स्रव ।
द्यु॒मन्तं॒ शुष्म॒मा भ᳚रा स्व॒र्विद᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । ध॒न्व॒ । सो॒म॒ । जागृ᳚विः । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ।
द्यु॒॑मन्त᳚म् । शुष्म᳚म् । आ । भ॒र॒ । स्वः॒॑विद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम जागृविर्जागरणशीलस्त्वं प्रधन्व प्रक्षर । हे इन्दो सोम इन्द्राय परिस्रव प- रितः पात्रेषु क्षर । किंच द्युमन्तं दीप्तियुक्तं स्वर्विदं सर्वस्य लंभकं शुष्मं शत्रूणां शोषकं बलं आभराहर ॥ ४ ॥

9.106.5
इन्द्रा᳚य॒ वृष᳚णं॒ मदं॒ पव᳚स्व वि॒श्वद᳚र्शतः ।
स॒हस्र᳚यामा पथि॒कृद्वि᳚चक्ष॒णः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । वृष᳚णम् । मद᳚म् । पव᳚स्व । वि॒श्व॑द᳚र्शतः ।
स॒हस्र᳚॑यामा । प॒थि॒॑कृत् । वि॒॑च॒क्ष॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वृषणं वर्षितारं मदं मदहेतुं रसं इन्द्रायेन्द्रार्थं पवस्व क्षर । कीदृशः वि- श्वदर्शतः सर्वैर्दर्शनीयः सहस्रयामा बहुमार्गः पथिकृत् यजमानानां सन्मार्गकरणशीलः विचक्षणः सर्वस्य विद्रष्टा ॥ ५ ॥

9.106.6 समानपद
अ॒स्मभ्यं᳚ गातु॒वित्त᳚मो दे॒वेभ्यो॒ मधु᳚मत्तमः ।
स॒हस्रं᳚ याहि प॒थिभि॒ः कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । गा॒तु॒वित्॑त᳚मः । दे॒वेभ्यः᳚ । मधु᳚मत्॑तमः ।
स॒हस्र᳚म् । या॒हि॒ । प॒थि॑भिः᳚ । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अस्मभ्यं गातुवित्तमः अत्यन्तं मार्गस्य लंभकः तथा देवेभ्यश्च मधुमत्तमः अ- त्यन्तं स्वादुकारी त्वं कनिक्रदत् शब्दंकुर्वन् सहस्रं पथिभिर्बहुभिर्मार्गैः याहि कलशमा- गच्छ ॥ ६ ॥

9.106.7
पव᳚स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज᳚सा ।
आ क॒लशं॒ मधु᳚मान्त्सोम नः सदः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । दे॒व॑वी᳚तये । इन्दो॒ इति᳚ । धारा᳚भिः । ओज᳚सा ।
आ । क॒लश᳚म् । मधु᳚॑मान् । सो॒म॒ । नः॒ । स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम देववीतये देवानां भक्षणार्थं ओजसा बलेन धाराभिरामीयाभिः पवस्व क्षर । हे सोम मधुमान् मदकररसवांस्त्वं नोस्मदीयं कलशं द्रोणाभिधानं आसदः । सदे- र्लुङि रूपम् । आसीद ॥ ७ ॥

9.106.8
तव᳚ द्र॒प्सा उ᳚द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः ।
त्वां दे॒वासो᳚ अ॒मृता᳚य॒ कं प᳚पुः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । द्र॒प्साः । उ॒द॒॑प्रुतः᳚ । इन्द्र᳚म् । मदा᳚य । व॒वृ॒धुः॒ ।
त्वाम् । दे॒वासः᳚ । अ॒मृता᳚य । कम् । प॒पुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उदप्रुतः वसतीवर्याख्यमुदकं प्रति गच्छंतः यद्वा उदकस्य निर्गमयितारः तव स्वभूता- द्रप्साः द्रुतगामिनोरसाः मदाय मदार्थं इन्द्रं वावृधुर्वर्धयन्ति । ततः देवासोदेवाः इन्द्रादयः कं सुखकरं त्वां अमृताय अमरणार्थं पपुः पिबन्ति ॥ ८ ॥

9.106.9
आ नः᳚ सुतास इन्दवः पुना॒ना धा᳚वता र॒यिम् ।
वृ॒ष्टिद्या᳚वो रीत्यापः स्व॒र्विदः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । सु॒ता॒सः॒ । इ॒न्द॒वः॒ । पु॒ना॒नाः । धा॒व॒त॒ । र॒यिम् ।
वृ॒ष्टि॑द्या᳚वः । री॒ति॒॑आ॒पः॒ । स्वः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुतासः अभिषूयमाणाः हे इन्दवः दीप्ताः पात्रेषु क्षरन्तोवा हे रीत्यापः यैः पृथि वीं प्रति स्रवणशीलाआपः कृताः तादृशाः हे सोमाः पुनानाः पुयमानाः यूयं नोस्मभ्यं रयिं आधावत आगमयत । कीदृशाः वृष्टिद्यावः वृष्टभिर्द्यौः यैः क्रियते वृष्ट्यभिमुखद्युलो- कवन्तः स्वर्विदः सर्वस्य लंभकाः ॥ ९ ॥

9.106.10
सोमः᳚ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति ।
अग्रे᳚ वा॒चः पव᳚मान॒ः कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । पु॒ना॒नः । ऊ॒र्मिणा᳚ । अव्यः᳚ । वार᳚म् । वि । धा॒व॒ति॒ ।
अग्रे᳚ । वा॒चः । पव᳚मानः । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानः सोमः ऊर्मिणा स्वीयया धारया अव्यः अवेर्वारं वालं पवित्रं विधा वति विविधं गच्छति । कीदृशः पवमानः पूतः वाचः स्तोत्रस्याग्रे कनिक्रदत् पुनः पुनः शब्दंकुर्वन् विधावंति ॥ १० ॥

9.106.11
धी॒भिर्हि᳚न्वन्ति वा॒जिनं॒ वने॒ क्रीळ᳚न्त॒मत्य᳚विम् ।
अ॒भि त्रि᳚पृ॒ष्ठं म॒तय॒ः सम᳚स्वरन् ॥
▶ पदपाठः (Word-by-word)
धी॒भिः । हि॒न्व॒न्ति॒ । वा॒जिन᳚म् । वने᳚ । क्रीळ᳚न्तम् । अति᳚॑अविम् ।
अ॒भि । त्रि॒॑पृ॒ष्ठम् । म॒तयः᳚ । सम् । अ॒स्व॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनं बलवन्तं वननीये वसतीवर्याख्ये उदके क्रीळन्तं संक्रीडमानं अत्यविं अवि- शब्देन तद्रोमकृतं पवित्रमभिधीयते अत्गिक्रान्तपवित्रं सोमं ऋत्विजोधीभिः स्तुतिभिः हिन्वन्ति वर्धयन्ति । यद्वा धीभिर्वर्णलोपश्छान्दसः धीतिभिरंगुलीभिः हिन्वन्ति प्रेरयन्ति । हिगतौ वृद्धौचस्वादिः । किंच त्रिपृष्ठं त्रीणि पवित्राणि द्रोणकलशाधवनीयपूतभृदात्मकानि पात्राणि त्रीणि सवनानि वा स्पृशतीति सतथोक्तः तं सोमं मतयः स्तुतयः अभिसम- स्वरन् अभितः संस्तुवन्ति ॥ ११ ॥

9.106.12
अस᳚र्जि क॒लशा{4}᳚ अ॒भि मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः ।
पु॒ना॒नो वाचं᳚ ज॒नय᳚न्नसिष्यदत् ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । क॒लशा᳚न् । अ॒भि । मी॒ळ्हे । सप्तिः᳚ । न । वा॒ज॒॑युः ।
पु॒ना॒नः । वाच᳚म् । ज॒नय᳚न् । अ॒सि॒स्य॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजयुः यजमानानामन्नमिच्छन् ससोमः कलशानभिलक्ष्य कलशेषु असर्जि सृज्यते । तत्र दृष्टान्तः—सप्तिर्न यथा अश्वोमीह्ळे संग्रामनामैतत् संग्रामे सृज्यतेतद्वत् । ततः पुनानः पूयमानः सोमः वाचं शब्दं जनयन् उत्पादयन् असिष्यदत् पात्रेषु स्यन्दते ॥ १२ ॥

9.106.13
पव᳚ते हर्य॒तो हरि॒रति॒ ह्वरां᳚सि॒ रंह्या᳚ ।
अ॒भ्यर्ष᳚न्त्स्तो॒तृभ्यो᳚ वी॒रव॒द्यशः᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚ते । ह॒र्य॒तः । हरिः᳚ । अति᳚ । ह्वरां᳚सि । रंह्या᳚ ।
अ॒भि॒॑अर्ष᳚न् । स्तो॒तृ॑भ्यः᳚ । वी॒र॑व᳚त् । यशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यतः स्पृहणीयः हरिर्हरितवर्णः सोमः रंह्या तृतीयाया आकारः साधुवेगेनह्वरांसि कुटिलानि अनृजूनि पवित्राणि अतिपवते अतीत्यगच्छति । किंकुर्वन् स्तोतृभ्यो वीरवत् पुत्रयुक्तं यशः अभ्यर्षन् अभिगमयन् पवते ॥ १३ ॥

9.106.14
अ॒या प᳚वस्व देव॒युर्मधो॒र्धारा᳚ असृक्षत ।
रेभ᳚न्प॒वित्रं॒ पर्ये᳚षि वि॒श्वतः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒या । प॒व॒स्व॒ । दे॒व॒॑युः । मधोः᳚ । धाराः᳚ । अ॒सृ॒क्ष॒त॒ ।
रेभ᳚न् । प॒वित्र᳚म् । परि᳚ । ए॒षि॒ । वि॒श्वतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देवयुर्देवान् कामयमानस्त्वं अया अनया धारया पवस्व क्षर । ततः मधोर्म- दकरस्य तव धाराआत्मीयाः असृक्षत सृज्यन्ते । अनन्तरं रेभन् शब्दायमानः पवित्रं विश्वतः पर्येषि सर्वतः परिगच्छसि ॥ १४ ॥

परीतइति षड्विंशत्यृचंचतुर्थं सूक्तम् । त्वंसोमासीत्यत्रउक्ताभरद्वाजकश्यपाद्याः सप्तर्षयः । आद्याबृहती द्वितीयासतोबृहती अयमेकः प्रगाथः परिसुवानइत्येषा तृतीया एकविंशत्यक्ष- रा भुरिक् विराट् द्विपदा नृभिर्येमानइति षोडशो विंशत्यक्षराद्विपदाविराट् चतुर्थ्यादिद्वौ प्र- गाथौ दशम्यादित्रयः सप्तदश्यादिपंचप्रगाथाः पवमानसोमोदवता । तथाचानुक्रम्यते—परितः षड्विंशतिः सप्तऋषयः प्रागाथं तृतीयाषोडश्यौ द्विपदे अष्टम्याद्येबृहत्याविति । गतः सूक्तविनियोगः ।