श्रवणम्

9.106.3
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ᳚भ्णीत सान॒सिम् ।
वज्रं᳚ च॒ वृष᳚णं भर॒त्सम᳚प्सु॒जित् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । इन्द्रः᳚ । मदे᳚षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् ।
वज्र᳚म् । च॒ । वृष᳚णम् । भ॒र॒त् । सम् । अ॒प्सु॒॑जित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आअनन्तरं इन्द्रः अस्येत् अस्य सोमस्यैव मदेषु संजातेषु सानसिं सर्वैः संभजनीयं ग्राभं ग्राहं गृहीतव्यं धनुर्गृभ्णीत गृह्णाति हृग्रहोर्भइति भत्वम् । किंच अप्सुजित् उदका- र्थंवृत्रस्य जेता । यद्वा आपइत्यन्तरिक्षनाम अन्तरिक्षे अहिनामकस्य जेता इन्द्रः वृषणं वर्षितारं वज्रं च संभरत् संबिभर्तु बिभर्तेर्लेट्यडागमः ॥ ३ ॥