श्रवणम्

9.106.7
पव᳚स्व दे॒ववी᳚तय॒ इन्दो॒ धारा᳚भि॒रोज᳚सा ।
आ क॒लशं॒ मधु᳚मान्त्सोम नः सदः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । दे॒व॑वी᳚तये । इन्दो॒ इति᳚ । धारा᳚भिः । ओज᳚सा ।
आ । क॒लश᳚म् । मधु᳚॑मान् । सो॒म॒ । नः॒ । स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम देववीतये देवानां भक्षणार्थं ओजसा बलेन धाराभिरामीयाभिः पवस्व क्षर । हे सोम मधुमान् मदकररसवांस्त्वं नोस्मदीयं कलशं द्रोणाभिधानं आसदः । सदे- र्लुङि रूपम् । आसीद ॥ ७ ॥