नवमं मण्डलम् - सूक्तम् 32

6 ऋचः

ऋषिः: श्यावाश्वः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.32 - सम्पूर्णम्

1 / 6
ऋक्: 9.32.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.32.1
प्र सोमा᳚सो मद॒च्युत॒ः श्रव᳚से नो म॒घोनः᳚ ।
सु॒ता वि॒दथे᳚ अक्रमुः ॥
▶ पदपाठः (Word-by-word)
प्र । सोमा᳚सः । म॒द॒॑च्युतः᳚ । श्रव᳚से । नः॒ । म॒घोनः᳚ ।
सु॒ताः । वि॒दथे᳚ । अ॒क्र॒मुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमासःसोमा मदच्युतो मदस्राविणः सुताअभिषुताःसन्तो विदथे यज्ञे मघोनो हविष्मतो नोस्मान् श्रवसे अन्नाय कीर्तयेवा प्राक्रमुःप्रगच्छन्ति ॥ १ ॥

9.32.2
आदीं᳚ त्रि॒तस्य॒ योष᳚णो॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । त्रि॒तस्य᳚ । योष᳚णः । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत् अपिच ई एनं हरिं हरितवर्णं सोमं त्रितस्य ऋषेषणोंगुलय अद्रिभिर्ग्रावभिः हिन्वन्ति प्रेरयन्ति । किमर्थं इन्दुं दीप्तं सोमं इन्द्राय इन्द्रस्य पीतये पानाय ॥ २ ॥

9.32.3
आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व᳚स्यावीवशन्म॒तिम् ।
अत्यो॒ न गोभि᳚रज्यते ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । हं॒सः । यथा᳚ । ग॒णम् । विश्व᳚स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।
अत्यः᳚ । न । गोभिः᳚ । अ॒ज्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत् अपिच ईमयं सोमो हंसो यथा गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वद्विश्वस्य सर्वस्य स्तोतृजनस्य मतिं स्तुतिं बुद्धिं वा अवीवशत् वशं नयति । सच सोमः अत्योन अश्वइव गोभिर्गव्यैरुदकैर्वा अज्यते सिच्यते स्निग्धीक्रियते ॥ ३ ॥

9.32.4
उ॒भे सो᳚माव॒चाक᳚शन्मृ॒गो न त॒क्तो अ᳚र्षसि ।
सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । सो॒म॒ । अ॒व॒॑चाक᳚शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।
सीद᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम उभे द्यावापृथिव्यौ अवचाकशत् पश्यतिकर्मेदं पश्यन् मृगोन मृगइव नक्तोगव्यैः पयाआदिभिर्मिश्रितःसन् । दध्ना तनक्तीत्यादौ तथा दृष्टत्वात् । अर्षसि गच्छसि च । किं कुर्वन् ऋतस्य यज्ञस्य योनिं स्थानं आसीदन् आश्रयन् गच्छसि यज्ञसाधनाय गच्छसीत्यर्थः ॥ ४ ॥

9.32.5
अ॒भि गावो᳚ अनूषत॒ योषा᳚ जा॒रमि᳚व प्रि॒यम् ।
अग᳚न्ना॒जिं यथा᳚ हि॒तम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । गावः᳚ । अ॒नू॒ष॒त॒ । योषा᳚ । जा॒रम्॑इ᳚व । प्रि॒यम् ।
अग᳚न् । आ॒जिम् । यथा᳚ । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वां गावः शब्दाः अभ्यनूषत अभिष्टुवन्ति । योषा प्रियं जारमिव सा यथा तं स्तौति तद्वत् । ससोमः आजिं गंतव्यं हितं मित्रमिव तं यथा अन्यः अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरं वा आजिं शूरइव अयमागच्छति पात्रं ॥ ५ ॥

9.32.6
अ॒स्मे धे᳚हि द्यु॒मद्यशो᳚ म॒घव᳚द्भ्यश्च॒ मह्यं᳚ च ।
स॒निं मे॒धामु॒त श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । धे॒हि॒ । द्यु॒॑मत् । यशः᳚ । म॒घव᳚त्॑भ्यः । च॒ । मह्य᳚म् । च॒ ।
स॒निम् । मे॒धाम् । उ॒त । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अस्ये अस्मभ्यं द्युमत् दीप्तिगत् यशोन्नं धेहि देहि । कीदृशेभ्योस्मभ्यं मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च मह्यंच स्तुतिकर्त्रेच । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यंचेति तेषामेवाशंसनाभेदादुभयत्र चशब्दोयुक्तम् । किंच सनिं धनं मेधां प्रज्ञां उतापिच श्रवः कीर्तिं च धेहि ॥ ६ ॥

प्रसोमासइति षळृचं नवमं सूक्तं त्रितस्यार्षं गायत्रं पवमानसोमदेवताकम् । प्रसोमासस्रितइत्यनुक्रान्तम् । गतोविनियोगः ।