श्रवणम्

9.32.6
अ॒स्मे धे᳚हि द्यु॒मद्यशो᳚ म॒घव᳚द्भ्यश्च॒ मह्यं᳚ च ।
स॒निं मे॒धामु॒त श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । धे॒हि॒ । द्यु॒॑मत् । यशः᳚ । म॒घव᳚त्॑भ्यः । च॒ । मह्य᳚म् । च॒ ।
स॒निम् । मे॒धाम् । उ॒त । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अस्ये अस्मभ्यं द्युमत् दीप्तिगत् यशोन्नं धेहि देहि । कीदृशेभ्योस्मभ्यं मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च मह्यंच स्तुतिकर्त्रेच । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यंचेति तेषामेवाशंसनाभेदादुभयत्र चशब्दोयुक्तम् । किंच सनिं धनं मेधां प्रज्ञां उतापिच श्रवः कीर्तिं च धेहि ॥ ६ ॥

प्रसोमासइति षळृचं नवमं सूक्तं त्रितस्यार्षं गायत्रं पवमानसोमदेवताकम् । प्रसोमासस्रितइत्यनुक्रान्तम् । गतोविनियोगः ।