श्रवणम्

9.32.3
आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व᳚स्यावीवशन्म॒तिम् ।
अत्यो॒ न गोभि᳚रज्यते ॥
▶ पदपाठः (Word-by-word)
आत् । ई॒म् । हं॒सः । यथा᳚ । ग॒णम् । विश्व᳚स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।
अत्यः᳚ । न । गोभिः᳚ । अ॒ज्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत् अपिच ईमयं सोमो हंसो यथा गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वद्विश्वस्य सर्वस्य स्तोतृजनस्य मतिं स्तुतिं बुद्धिं वा अवीवशत् वशं नयति । सच सोमः अत्योन अश्वइव गोभिर्गव्यैरुदकैर्वा अज्यते सिच्यते स्निग्धीक्रियते ॥ ३ ॥