अ॒भि गावो᳚ अनूषत॒ योषा᳚ जा॒रमि᳚व प्रि॒यम् ।
अग᳚न्ना॒जिं यथा᳚ हि॒तम् ॥
अग᳚न्ना॒जिं यथा᳚ हि॒तम् ॥
पदपाठः (Word-by-word)
अ॒भि । गावः᳚ । अ॒नू॒ष॒त॒ । योषा᳚ । जा॒रम्॑इ᳚व । प्रि॒यम् ।
अग᳚न् । आ॒जिम् । यथा᳚ । हि॒तम् ॥
अग᳚न् । आ॒जिम् । यथा᳚ । हि॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वां गावः शब्दाः अभ्यनूषत अभिष्टुवन्ति । योषा प्रियं जारमिव सा यथा तं स्तौति तद्वत् । ससोमः आजिं गंतव्यं हितं मित्रमिव तं यथा अन्यः अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरं वा आजिं शूरइव अयमागच्छति पात्रं ॥ ५ ॥