नवमं मण्डलम् - सूक्तम् 3

10 ऋचः

ऋषिः: शुनःशेपः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.3 - सम्पूर्णम्

1 / 10
ऋक्: 9.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
9.3.1
ए॒ष दे॒वो अम᳚र्त्यः पर्ण॒वीरि᳚व दीयति ।
अ॒भि द्रोणा᳚न्या॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दे॒वः । अम᳚र्त्यः । प॒र्ण॒वीः॑इ᳚व । दी॒य॒ति॒ ।
अ॒भि । द्रोणा᳚नि । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषदेवइति दशर्चं तृतीयं सूक्तं आजीगर्तेः शुनःशेपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-एषशुनःशेपइति । उक्तोविनियोगः ।

देवोद्योतमानः अमर्त्योमरणरहितः एषसोमो द्रोणानि द्रोणकलशानि अभि अभिलक्ष्य आसदं आसदनार्थं पर्णवीरिव यथा पक्षी तथा वेगेन दीयति गच्छति ॥ १ ॥

9.3.2
ए॒ष दे॒वो वि॒पा कृ॒तो॑ति॒ ह्वरां᳚सि धावति ।
पव᳚मानो॒ अदा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति᳚ । ह्वरां᳚सि । धा॒व॒ति॒ ।
पव᳚मानः । अदा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विपा अंगुल्या । विपः कक्ष्याः इत्यंगुलिनामसुपाठात् । कृतोभिषुतःएषसोमोदेवः पवमानः क्षरन् अदाभ्यः केनाप्यहिंसितश्चसन् ह्वरांसि शत्रूनतिधावति हन्तुमतिगच्छति ॥ २ ॥

9.3.3
ए॒ष दे॒वो वि᳚प॒न्युभि॒ः पव᳚मान ऋता॒युभि᳚ः ।
हरि॒र्वाजा᳚य मृज्यते ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दे॒वः । वि॒प॒न्यु॑भिः᳚ । पव᳚मानः । ऋ॒त॒यु॑भिः᳚ ।
हरिः᳚ । वाजा᳚य । मृ॒ज्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः क्षरन्नेष सोमोदेवोविपन्युभिः स्तोतृभिः ऋतायुभिः यज्ञकामैर्वा हरिरश्वइव वाजाय संग्रामार्थं मृज्यते स्तुतिभिरलंक्रियते ॥ ३ ॥

9.3.4
ए॒ष विश्वा᳚नि॒ वार्या॒ शूरो॒ यन्नि᳚व॒ सत्व᳚भिः ।
पव᳚मानः सिषासति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । विश्वा᳚नि । वार्या᳚ । शूरः᳚ । यन्॑इ᳚व । सत्व᳚॑भिः ।
पव᳚मानः । सि॒सा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः क्षरन् शूरोवीर एषसोमो विश्वानि सर्वाणि वार्या वरणीयानि धनानि सत्वभिर्बलैः यन्निव गच्छन्निव सिषासति अस्मदर्थं संभक्तु- मिच्छति ॥ ४ ॥

9.3.5
ए॒ष दे॒वो र᳚थर्यति॒ पव᳚मानो दशस्यति ।
आ॒विष्कृ᳚णोति वग्व॒नुम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव᳚मानः । द॒श॒स्य॒ति॒ ।
आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः क्षरन्नेष सोमोदेवो रथर्यति अस्मदीयं यागं प्रत्यागमनाय रथं कामयते । दशस्यति आगत्यच अस्मभ्यमभिलषितं प्रयच्छति । वग्वनुं शब्दं आविः कृणोति अभिषूयमाणः प्रकटयति ॥ ५ ॥

9.3.6
ए॒ष विप्रै᳚र॒भिष्टु᳚तो॒॑पो दे॒वो वि गा᳚हते ।
दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । विप्रैः᳚ । अ॒भि॑स्तु᳚तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ ।
दध᳚त् । रत्ना᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रैर्मेधाविभिः स्तोतृभिः अभिष्टुतः परितः स्तुतः एषसोमोदेवो दाशुषे हविषां प्रदात्रे यजमानाय रत्नानि रमणीयानि धनानि दधत् धारयन् प्रयच्छन् अपोवसतीवरीर्विगाहते प्रविशति ॥ ६ ॥

9.3.7
ए॒ष दिवं॒ वि धा᳚वति ति॒रो रजां᳚सि॒ धार᳚या ।
पव᳚मान॒ः कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दिव᳚म् । वि । धा॒व॒ति॒ । ति॒रः । रजां᳚सि । धार᳚या ।
पव᳚मानः । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धारया पवमानः क्षरन्नेषसोमः कनिक्रदत् अभिषूयमाणः शब्दंकुर्वन् रजांसि लोकान् तिरः तिरस्कुर्वन् यागाद्दिवं स्वर्गं विधावति गच्छति ॥ ७ ॥

9.3.8
ए॒ष दिवं॒ व्यास᳚रत्ति॒रो रजां॒स्यस्पृ᳚तः ।
पव᳚मानः स्वध्व॒रः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । दिव᳚म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां᳚सि । अस्पृ᳚तः ।
पव᳚मानः । सु॒॑अ॒ध्व॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः क्षरन्नेषसोमः स्वध्वरः सुयज्ञः अस्पृतः केनाप्यहिंसितश्चसन् रजांसि लोकान् तिरः तिरस्कुर्वन् यज्ञाद्दिवं प्रतिव्यासरत् विसरति गच्छति ॥ ८ ॥

9.3.9
ए॒ष प्र॒त्नेन॒ जन्म᳚ना दे॒वो दे॒वेभ्य᳚ः सु॒तः ।
हरि᳚ः प॒वित्रे᳚ अर्षति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । प्र॒त्नेन᳚ । जन्म᳚ना । दे॒वः । दे॒वेभ्यः᳚ । सु॒तः ।
हरिः᳚ । प॒वित्रे᳚ । अ॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिर्हरितवर्णोदेवः द्योतमानः एषसोमः प्रत्नेन पुराणेन जन्मना जननेन देवेभ्यो देवार्थं सुतोभिषुतः सन् पवित्रे स्थातुं अर्षति गच्छति ॥ ९ ॥

9.3.10
ए॒ष उ॒ स्य पु᳚रुव्र॒तो ज᳚ज्ञा॒नो ज॒नय॒न्निषः᳚ ।
धार᳚या पवते सु॒तः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । ऊं॒ इति᳚ । स्यः । पु॒रु॒॑व्र॒तः । ज॒ज्ञा॒नः । ज॒नय᳚न् । इषः᳚ ।
धार᳚या । प॒व॒ते॒ । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः एषउ ससोमएव पुरुव्रतो बहुकर्मा जज्ञानो जायमानएव इषोन्नानि जनयन् उत्पादयन् सुतोभिषुतःसन् धारया पवते क्षरति ॥ १० ॥

सनाचेति दशर्चं सूक्तं अंगिरसकुलस्य हिरण्यस्तूपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-सनहिरण्यस्तूपइति । उक्तोविनियोगः ।