नवमं मण्डलम् - सूक्तम् 66

30 ऋचः

ऋषिः: शतं वैखानसाः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.66 - सम्पूर्णम्

1 / 30
ऋक्: 9.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
9.66.1
पव᳚स्व विश्वचर्षणे॒॑भि विश्वा᳚नि॒ काव्या᳚ ।
सखा॒ सखि᳚भ्य॒ ईड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । वि॒श्व॒॑च॒र्ष॒णे॒ । अ॒भि । विश्वा᳚नि । काव्या᳚ ।
सखा᳚ । सखि᳚॑भ्यः । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विशचर्षणे सर्वव्यापित्वेन सर्वस्यद्रष्टः हे सोम सखा स्तुत्यः स्तोतृयष्टृत्वलक्षणेन संबन्धेन सखिभूतस्त्वं ईड्यः स्तोतव्यःसन् सखिभ्यः हविःप्रदानेनोपकारकत्वान्मित्रभूते- भ्योस्मभ्यं विश्वानि सर्वाणि काव्या कवेःकर्माणि काव्यानि । ब्राह्मणादित्वात् ष्यञ् । सर्वाणि स्तोत्राण्यभिलक्षीकृत्यपवस्वागच्छ ॥ १ ॥

9.66.2
ताभ्यां॒ विश्व᳚स्य राजसि॒ ये प᳚वमान॒ धाम᳚नी ।
प्र॒ती॒ची सो᳚म त॒स्थतु᳚ः ॥
▶ पदपाठः (Word-by-word)
ताभ्या᳚म् । विश्व᳚स्य । रा॒ज॒सि॒ । ये इति᳚ । प॒व॒मा॒न॒ । धाम᳚नी॒ इति᳚ ।
प्र॒ती॒ची इति᳚ । सो॒म॒ । त॒स्थतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान दशापवित्रेण पूयमान पुनान वा हे सोम ये धामनी पूर्वपक्षापरपक्षयो- र्लतारूपस्य सोमस्य तव एकैकपर्णवृद्धिह्रासाभ्यां तव स्वभूतौ पूर्वादिपक्षौ । यद्वा ये धामनी नामनी अंशुसोमात्मके अपि प्रतीची त्वदभिमुखंगच्छन्तौ गच्छतीवा पक्षौ नामनी तस्थतुः उपजग्मतुः । ताभ्यां त्वं विशस्य सर्वस्य लोकस्य राजसि स्वामीभवसि । पूर्वादि- पक्षाभ्यां सर्वलोकस्योपनायकत्वात्तस्य स्वामीभवसि । पृथिव्यां अंशुनाम्नां मनुष्याणां सर्वे- षां अभीप्सितदानेन तस्यलोकस्य द्युलोके देवेभ्यः स्वसुधामयकलादानेन तेषां प्रीणयिता भवति । देवाःखलु सोमस्य एकैकवृद्धिह्रासाभ्यां कलाः पिबन्ति ॥ २ ॥

9.66.3
परि॒ धामा᳚नि॒ यानि᳚ ते॒ त्वं सो᳚मासि वि॒श्वतः᳚ ।
पव᳚मान ऋ॒तुभि᳚ः कवे ॥
▶ पदपाठः (Word-by-word)
परि᳚ । धामा᳚नि । यानि᳚ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः᳚ ।
पव᳚मान । ऋ॒तु॑भिः᳚ । क॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यस्मात्ते त्वदीयानि धामानि तेजांसि परितोवर्तंते । अतएव हे पवमान पूयमान हे कवे क्रान्तकर्मन् हे सोम त्वमृतुभिः वसन्तादिकालविशेषैः सह विश्वतः सर्वतो- सि भवसि । अहोरात्रौ यत्रयत्र व्याप्तौ तत्रतत्र वसन्तादिकालोपाधिकः सोमस्तिष्ठति तयोस्तदधीनत्वादित्यर्थः ॥ ३ ॥

9.66.4
पव᳚स्व ज॒नय॒न्निषो॒॑भि विश्वा᳚नि॒ वार्या᳚ ।
सखा॒ सखि᳚भ्य ऊ॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । ज॒नय᳚न् । इषः᳚ । अ॒भि । विश्वा᳚नि । वार्या᳚ ।
सखा᳚ । सखि᳚॑भ्यः । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सखा सखिभूतस्त्वं विश्वानि सर्वाणि वार्या वरणीयानि अस्मद्गतानि स्तोत्रा- ण्यभीलक्षीकृत्य सखिभ्योस्मभ्यं ऊतये रक्षणाय जीवनाय इषोन्नानि जनयन् प्रयच्छन् पवस्वागच्छ् । पवतिर्गतिकर्मा ॥ ४ ॥

9.66.5
तव᳚ शु॒क्रासो᳚ अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते ।
प॒वित्रं᳚ सोम॒ धाम᳚भिः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । शु॒क्रासः᳚ । अ॒र्चयः᳚ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ ।
प॒वित्र᳚म् । सो॒म॒ । धाम᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम शुक्रासः सर्वत्रज्वलनशीलाः धामभिस्तेजोभिः सहितस्य तव स्वभूता अर्चयः अर्चनीया रश्मयः दिवः द्योतमानस्यादित्यस्य द्युलोकस्यवा पृष्ठे अधरभागे पृथिव्या- मित्यर्थः । पवित्रं पवमानसाधनमुदकं वितन्वते विशेशेण तन्वन्ति विस्तारयन्ति सर्वत्रकु- र्वन्तीत्यर्थः ॥ ५ ॥

9.66.6
तवे॒मे स॒प्त सिन्ध᳚वः प्र॒शिषं᳚ सोम सिस्रते ।
तुभ्यं᳚ धावन्ति धे॒नवः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । इ॒मे । स॒प्त । सिन्ध᳚वः । प्र॒॑शिष᳚म् । सो॒म॒ । सि॒स्र॒ते॒ ।
तुभ्य᳚म् । धा॒व॒न्ति॒ । धे॒नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्टिकर्तृत्वप्रसंगादाह हे सोम इमे इमास्त्वयासृष्टाः सप्त सप्तसंख्याकाः सिन्धवः स्य- न्दमाना गंगाद्यानद्यः यद्वा सप्त सप्रणशीलानद्यः तव प्रशिषं प्रशासनमाज्ञामभिसिस्रते अनुसरन्ति त्वदाज्ञामनुसृत्य समुद्रं गच्छन्तीत्यर्थः । किंच धेनवः नवप्रसूतिकाः देवानां हविः प्रदानेन प्रीणयित्र्योगावः तुभ्यं त्वदर्थमेव आशिरं प्रयच्छामइति धावंति आग- च्छन्ति ॥ ६ ॥

9.66.7
प्र सो᳚म याहि॒ धार᳚या सु॒त इन्द्रा᳚य मत्स॒रः ।
दधा᳚नो॒ अक्षि᳚ति॒ श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सो॒म॒ । या॒हि॒ । धार᳚या । सु॒तः । इन्द्रा᳚य । म॒त्स॒रः ।
दधा᳚नः । अक्षि᳚ति । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अभिषूयमाण देव मत्सरः इन्द्रस्यमदकरस्त्वं सुतोस्माभिरभिषुतःसन् इन्द्राय इन्द्रार्थं दशापवित्रान्निर्गतया सन्ततया त्वदीयया धारया द्रोणकलशं प्रयाहि प्रकर्षेण प्राप्नुहि । यद्वा हे सोम सुतोभिषुतस्त्वं इन्द्राय मत्सरः मादयितृतमःसन् धारया अग्नौ स्वाहाकारेण पात्रात्पतन्त्या धारया सह त्वमिन्द्रमुपयाहि । कीदृशः अक्षिति अक्षीणं श्रवः । श्रवइत्यन्ननाम । दधानोस्मभ्यं प्रयच्छन् प्रयाहीति ॥ ७ ॥

9.66.8
समु᳚ त्वा धी॒भिर᳚स्वरन्हिन्व॒तीः स॒प्त जा॒मयः᳚ ।
विप्र᳚मा॒जा वि॒वस्व᳚तः ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः᳚ ।
विप्र᳚म् । आ॒जा । वि॒वस्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम हिन्वतीः लिंगव्यत्ययः हिन्वन्तः स्तुतीः प्रेरयन्तः सप्त सप्तसंख्याका जामयः एक्स्मिन्यज्ञे कर्मकरणेन परस्परं बन्धुभूता होतृप्रभृतयः सप्तहोत्रकाः विवस्वतः देवानां हविः प्रदानेन परिचरणवतोयजमानस्य आजा आजौ अजन्ति गच्छन्ति ऋत्विजोत्रेति आजिर्यज्ञः तस्मिन् विप्रं मेधाविनं पवमानं त्वा त्वामेव धीभिः स्तुतिभिः समस्वरन् अशब्दयन् अस्तुवन् । यद्वा हिन्वतीः गच्छन्त्यः सप्तजामयोगंगाद्याः सप्तनद्यः धीभिर्व- र्णलोपश्छान्दसः धीतिभिरंगुलिभिर्विप्रं त्वां समस्वरन् प्रेरयन्ति वसतीवरीभिरेकधना- भिश्च परिशोधनार्थं प्रेरयन्तीति ॥ ८ ॥

9.66.9
मृ॒जन्ति᳚ त्वा॒ सम॒ग्रुवो॑व्ये᳚ जी॒रावधि॒ ष्वणि᳚ ।
रे॒भो यद॒ज्यसे॒ वने᳚ ॥
▶ पदपाठः (Word-by-word)
मृ॒जन्ति᳚ । त्वा॒ । सम् । अ॒ग्रुवः᳚ । अव्ये᳚ । जी॒रौ । अधि᳚ । स्वनि᳚ ।
रे॒भः । यत् । अ॒ज्यसे᳚ । वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अग्रुवः अंगुलिनामैतत् अजन्ति प्रक्षिपन्ति हवींष्यग्नाविति । यद्वा अगेर्गत्य- र्थस्य कर्मकरणार्थं इतस्ततोगच्छन्तीति । अग्रुवोंगुलयोस्मदीया जीरौ पापनामभिभावुके क्षिप्रं कृते वा स्वनि अधि अधिकं शब्दायमाने अव्ये अविवालेन कृते पवित्रे त्वा त्वां सदा संमृजन्ति सम्यक् शोधयन्ति । यद्यदा रेभो रेभृशब्दे उदकमध्ये प्रक्षेपेण शब्दायमा- नस्त्वं वने वननीये वसतीवर्याख्ये उदके अज्यसे अक्तः सिक्तोभवसि तदा मृजन्तीत्यन्व- यः ॥ ९ ॥

9.66.10
पव᳚मानस्य ते कवे॒ वाजि॒न्त्सर्गा᳚ असृक्षत ।
अर्व᳚न्तो॒ न श्र᳚व॒स्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚मानस्य । ते॒ । क॒वे॒ । वाजि᳚न् । सर्गाः᳚ । अ॒सृ॒क्ष॒त॒ ।
अर्व᳚न्तः । न । श्र॒व॒स्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मार्जनप्रसंगमाह हे कवे क्रान्तप्रज्ञ हे वाजिन्नन्नवन् सोम पवमानस्य दशापवित्रेण पूय- मानस्य ते तव सर्गाः सृज्यन्तइतिसर्गाः धाराः । कीदृशाः श्रवस्यवः छन्दसिपरेच्छायां- क्यच् । यष्टृणामन्नं कामयमानास्त्वदीयाधाराः असृक्षत सृजन्ति निर्गच्छन्तीत्यर्थः । तत्रदृ- ष्टान्तः—अर्वन्तोन यथा अश्वाः मन्दुरातोनिर्गच्छन्ति तद्वत् पवित्रान्निसरन्तीत्यर्थः । प्रयो- गापेक्षं चात्र धाराबाहुल्यम् ॥ १० ॥

9.66.11
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ᳚ग्रं॒ वारे᳚ अ॒व्यये᳚ ।
अवा᳚वशन्त धी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । कोश᳚म् । म॒धु॒॑श्चुत᳚म् । असृ᳚ग्रम् । वारे᳚ । अ॒व्यये᳚ ।
अवा᳚वशन्त । धी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धारानिर्गमनप्रसंगादभिधीयते मधुश्चुतं मधुररसस्य च्यावयितारं क्षारयितारं कोशं द्रोणकलशं अच्छ अभिलक्ष्य अव्यये अविमये अविस्वभूते वा वारे वाले दशापवित्रे असृ- ग्रं सोमा ऋत्विग्भिः सृज्यन्ते । सृजेः कर्मणि तिङांतिङोभवन्तीति झेरमादेशः । किंच धी- तयः अंगुलिनामैतत् धयन्ति पिबन्ति आभिरिति अस्मदीयाअंगुलयः अवावशन्त तान् सोमान् पुनःपुनः मार्जनार्थं कामयन्ते ॥ ११ ॥

9.66.12
अच्छा᳚ समु॒द्रमिन्द॒वो॑स्तं॒ गावो॒ न धे॒नवः᳚ ।
अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । स॒मु॒द्रम् । इन्द᳚वः । अस्त᳚म् । गावः᳚ । न । धे॒नवः᳚ ।
अग्म᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दवः क्षरन्तः सोमाः समुद्रं सोमानामेकत्रैव संगमनस्थानं द्रोणकलशमभिगच्छन्ति । तत्रदृष्टान्तः—धेनवः पयःप्रदानेन जनानां प्रीणयित्र्योनवप्रसूतिकागावः अस्तं गृहं यथाभिग- च्छन्ति तद्वत् । किंच ते सोमाः ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानमाग्मन् आभि- मुख्येनगच्छन्ति । गमेर्लुङि सिचोलुकि उपधालोपः ॥ १२ ॥

9.66.13
प्र ण᳚ इन्दो म॒हे रण॒ आपो᳚ अर्षन्ति॒ सिन्ध᳚वः ।
यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । नः॒ । इ॒न्दो॒ इति᳚ । म॒हे । रणे᳚ । आपः᳚ । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः ।
यत् । गोभिः᳚ । वा॒स॒यि॒ष्यसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो क्षरन् सोम नोस्माकं स्वभूताय रणे रणाय रणन्ति स्तुवन्ति देवानत्रेति रणो यज्ञः । अधिकरणे अप् ङेर्यइति नभवति सर्वविधीनां छन्दसि विकल्पितत्वात् । महे महते रणाय यज्ञाय तदर्थे सिंधवः स्यन्दमाना आपः वसतीवर्याख्याः सोमसेकार्थं अर्षन्ति प्रग- च्छन्ति । यद्यदा त्वं गोभिः गव्यैः दधिक्षीरादिभिः वासयिष्यसे आच्छाद्यसे मिश्रितो- भवसि तदा आपोगच्छन्तीति ॥ १३ ॥

9.66.14
अस्य᳚ ते स॒ख्ये व॒यमिय᳚क्षन्त॒स्त्वोत᳚यः ।
इन्दो᳚ सखि॒त्वमु᳚श्मसि ॥
▶ पदपाठः (Word-by-word)
अस्य᳚ । ते॒ । स॒ख्ये । व॒यम् । इय᳚क्षन्तः । त्वा॑ऊ᳚तयः ।
इन्दो॒ इति᳚ । स॒खि॒॑त्वम् । उ॒श्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो पवमान इयक्षन्तो यष्टुमिच्छन्तो पूजयितुमिच्छन्तोवा अस्य प्रसिद्धस्य ते तव सख्ये सखिकर्मणि स्थितावयं त्वोतयः त्वदायत्तरक्षणाःसन्तः सखित्वं सखिभावमेव उश्मसि उश्मः कामयामहे ॥ १४ ॥

9.66.15
आ प᳚वस्व॒ गवि᳚ष्टये म॒हे सो᳚म नृ॒चक्ष᳚से ।
एन्द्र᳚स्य ज॒ठरे᳚ विश ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । गो॑इ᳚ष्टये । म॒हे । सो॒म॒ । नृ॒॑चक्ष᳚से ।
आ । इन्द्र᳚स्य । ज॒ठरे᳚ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमान गविष्टये अंगिरसां गवामन्वेष्ट्रे महे महते नृचक्षसे नृणां मनुष्याणां द्रष्ट्रे कर्मनेतॄणां फलं पश्यतेवा इन्द्राय आपवस्व पात्रेषु दशापवित्रेण पूतो भव । किंच इन्द्रस्य जठरे उदरे उदरभूते द्रोणकलशे वा आविश प्रविश ॥ १५ ॥

9.66.16
म॒हा{4} अ᳚सि सोम॒ ज्येष्ठ᳚ उ॒ग्राणा᳚मिन्द॒ ओजि᳚ष्ठः ।
युध्वा॒ सञ्छश्व᳚ज्जिगेथ ॥
▶ पदपाठः (Word-by-word)
म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः᳚ । उ॒ग्राणा᳚म् । इ॒न्दो॒ इति᳚ । ओजि᳚ष्ठः ।
युध्वा᳚ । सन् । शश्व᳚त् । जि॒गे॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं महानसि यतस्त्वं देवानां प्रीणयितासि खलु त्वं ज्येष्ठः प्रशस्यतमोभवसि । किंच हे इंदो पवमान त्वमुग्राणामुद्गूर्णबलानामपि ओजस्वितमोभवसि त्वं युध्वासन् शत्रू- भिः सह युद्धं कुर्वन् एव शश्वत् सर्वदा जिगेथ तान् तेषां धनानिच जित्वानसि । जिजये थलि सन् लिटोर्जेरिति अभ्यासादुत्तरस्य कवर्गादेशः ॥ १६ ॥

9.66.17
य उ॒ग्रेभ्य᳚श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर᳚तरः ।
भू॒रि॒दाभ्य᳚श्चि॒न्मंही᳚यान् ॥
▶ पदपाठः (Word-by-word)
यः । उ॒ग्रेभ्यः᳚ । चि॒त् । ओजी᳚यान् । शूरे᳚भ्यः । चि॒त् । शूर᳚॑तरः ।
भू॒रि॒॑दाभ्यः᳚ । चि॒त् । मंही᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमः उग्रेभ्यश्चित् उद्गूर्णेभ्योबलवद्भ्योपि ओजीयान् ओजस्वितमः । किंच थः शूरे- भ्यश्चित् वीरेभ्योपि शूरतरः अत्यन्तसमर्थोभवति । तथा यः सोमः भूरिदाभ्यः डुदाञ् दाने आतोमनिन्नितिविच् । बहुधनानां दातृभ्योपि मंहीयान् दातृतमोभवति । तं त्वां वृणीमहे इति उत्तरेणसंबन्धः ॥ १७ ॥

9.66.18
त्वं सो᳚म॒ सूर॒ एष᳚स्तो॒कस्य᳚ सा॒ता त॒नूना᳚म् ।
वृ॒णी॒महे᳚ स॒ख्याय᳚ वृणी॒महे॒ युज्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । सूरः᳚ । आ । इषः᳚ । तो॒कस्य᳚ । सा॒ता । त॒नूना᳚म् ।
वृ॒णी॒महे᳚ । स॒ख्याय᳚ । वृ॒णी॒महे᳚ । युज्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सूरः सुवीर्यः यद्वा सर्वस्य यागादिकर्मणि प्रेरकस्त्वं इषोन्नानि अस्माकमाधे- हि । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किंच त्वं तोकस्य पुत्रस्य तनूनां तन्वन्ति विस्तारयन्ति कुलमितितन्वः पौत्राः । तेषांच साता दाता भव । षणुदाने जनसनेतिविट् जनसनेत्यात्वम् । वयं तं त्वां सख्याय सखिभावाय कर्मणेवा वृणीमहे संभजामहे । तथा युज्याय युज् सहायः तस्य भावे कर्मणि वा ष्यञ् संज्ञापूर्वकस्य विधेरनित्यत्वादवृद्धिः । शत्रुबाधादिलक्षणसहायायच वयं वृणीमहे ॥ १८ ॥ अग्निहोत्रे पूर्वस्यामाहुतौ हुतायामुपोषितेन यजमानेन प्रतिदिवसं प्रतिसंवत्सरंवा अनेन तृचेनाग्निरुपस्थेयः । सूत्रितंच—आग्नेयीभिश्चाग्नआयूंषिपवसइति तिसृभिः संवत्सरे संवत्सर- इति । चौलादिकर्मसु चतस्रआज्याहुतयोहोतव्यास्तत्रैवतिस्रः । सूत्रितंच—तेषांपुरस्ताच्चतस्र- आज्याहुतीर्जूहुयादग्नआयूंषिपवसइति तिसृभिरिति । आधाने पवमानेष्टौ अग्नेः पवमानस्याग्न- आयूंषीत्येषानुवाक्या अग्नेपवस्वेत्येषा याज्या । सूत्रितंच—प्रथमायांअग्निरग्निः पवमानोग्नआ- यूंषिपवसेग्नेपवस्वस्वपाइति । पुनराधेये द्वितीयाज्यभागस्याग्नआयूंषीत्येषा वैकल्पिकानुवा- क्या सूत्रितंचनित्यंपूर्वमनुब्राह्मणिनोग्नआयूंषिपवसइत्युत्तरमिति ।

9.66.19
अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः ।
आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । आयूं᳚षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज᳚म् । इष᳚म् । च॒ । नः॒ ।
आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने पवमानरूप त्वमस्माकं आयूंषि जीवनानि पवसे रक्षसि । नोस्माकमूर्जमन्नरसं इषमन्नंवा सुव आभिमुख्येन प्रेरय । किंच दुच्छुनां रक्षोनामैतत् रक्षांसि आरे अस्मत्तोदूरे एव बाधस्व संपीडय ॥ १९ ॥

9.66.20
अ॒ग्निरृषि॒ः पव᳚मान॒ः पाञ्च᳚जन्यः पु॒रोहि᳚तः ।
तमी᳚महे महाग॒यम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । ऋषिः᳚ । पव᳚मानः । पाञ्च᳚॑जन्यः । पु॒रः॑हि᳚तः ।
तम् । ई॒म॒हे॒ । म॒हा॒॑ग॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पांचजन्यः निषादपंचमाश्चत्वारोवर्णाः पंचजनाः । यद्वा गन्धर्वाः पितरो देवा असुरा र- क्षांसीत्येते पंचजनाः । अथवा देवमनुष्यागंधर्वाप्सरसः सर्पाः पितरइति ब्राह्मणेभिहिताः पंच- जनाः । गभीराञ् ञ्यइत्यत्र बहिर्देवपंचजनेभ्यइति वक्तव्यमिति वचनात् भवार्थेञ्यः प्रत्ययः तेषां तत्तदभीष्टदानेन स्वबूतऋषिः सर्वद्रष्टा पवमानस्त्द्रूपोग्निः पुरोहितः कर्मार्थमृत्विभिः पुरोनिहीतः तंपूर्वोक्तलक्षणं महागयं महद्भिर्देवादिभिरपि गीर्भिर्गातव्यं महान्तिप्रभूतानि यज्ञगृहाणि वा यस्य सतथोक्तः तं पवमानगुणविशिष्टमग्निमीमहे धनादीनि याचामहे ॥ २० ॥

9.66.21
अग्ने॒ पव᳚स्व॒ स्वपा᳚ अ॒स्मे वर्च᳚ः सु॒वीर्य᳚म् ।
दध᳚द्र॒यिं मयि॒ पोष᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । पव᳚स्व । सु॒॑अपाः᳚ । अ॒स्मे इति᳚ । वर्चः᳚ । सु॒॑वीर्य᳚म् ।
दध᳚त् । र॒यिम् । मयि᳚ । पोष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वपाः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । शोभनकर्मा त्वं अस्मे अस्मासु सुवीर्थं शोभनवीर्योपेतं वर्चः वर्चदीप्तौ तेजः पवस्व आगमय । तथा भवान् रयिं धनं पुत्रं वा पो- षम् । भावेकर्मणि वा घञ् । गवां पुष्टिं यद्वा गवादिकं मयि भवान् दधत् दधातु करोत्वित्यर्थः । दधातेर्लेटि अडागमोघोर्लोपोलेटिवेत्याकारलोपः ॥ २१ ॥

9.66.22
पव᳚मानो॒ अति॒ स्रिधो॒॑भ्य᳚र्षति सुष्टु॒तिम् ।
सूरो॒ न वि॒श्वद᳚र्शतः ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । अति᳚ । स्रिधः᳚ । अ॒भि । अ॒र्ष॒ति॒ । सु॒॑स्तु॒तिम् ।
सूरः᳚ । न । वि॒श्व॑द᳚र्शतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः सोमः अतिस्रिधः हिंसकान् शत्रून् अतिक्रम्य गच्छति । तथा सुष्टुतिं स्तोतॄणां शोभनां स्तुतिं अभ्यर्षति आभिमुख्येन गच्छति । ऋषीगतौ तौदादिकः बहुलंछन्दसीतिशप् गुणः । किंच सूरोन सूर्यइव विश्वदर्शतः सर्वस्य द्रष्टा सर्वैर्वा दर्शनीयोभवति ॥ २२ ॥

9.66.23
स म᳚र्मृजा॒न आ॒युभि॒ः प्रय᳚स्वा॒न्प्रय᳚से हि॒तः ।
इन्दु॒रत्यो᳚ विचक्ष॒णः ॥
▶ पदपाठः (Word-by-word)
सः । म॒र्मृ॒जा॒नः । आ॒यु॑भिः᳚ । प्रय᳚स्वान् । प्रय᳚से । हि॒तः ।
इन्दुः᳚ । अत्यः᳚ । वि॒॑च॒क्ष॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयुभिः कर्मनेतृभिर्मनुष्यैः मर्मृजानः पुनःपुनर्मृज्यमानः शोध्यमानः सइन्दुः ससोमः अ- त्योदेवान् सततं गन्ता भवति । कीदृशः प्रयस्वान् प्रीणनशीलान्नवान् । यद्वा स्तोतृभ्योदेय- त्वेनान्नयुक्तः अतएव प्रयसे हवीरूपायान्नाय हितः विचक्षणः सर्वस्यप्रदर्शनकारी सर्वस्यवि- द्रष्टा वा सोमः देवानभिगन्ता भवति । चक्षिङ्व्यक्तायांवाचि अनुदात्तेतश्चहलादेरितियुच् ॥ २३ ॥

9.66.24
पव᳚मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति᳚रजीजनत् ।
कृ॒ष्णा तमां᳚सि॒ जङ्घ᳚नत् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः᳚ । अ॒जी॒ज॒न॒त् ।
कृ॒ष्णा । तमां᳚सि । जङ्घ᳚नत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः ऋतं सत्यं यथार्थभूतं बृहत् प्रभूतं सर्वदेशेषुव्यापकं शुक्रं दीप्यमानं शेतवर्णं ज्योतिस्तेजः अजीजनत् द्युलोके उदपादयत् । किंकुर्वन् कृष्णा कृष्णवर्णानि तमांसि जंघ- नत् भृशं विनाशयन् । हन्तेर्यङ्लुकि शतरि रूपं अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ २४ ॥

9.66.25
पव᳚मानस्य॒ जङ्घ्न᳚तो॒ हरे᳚श्च॒न्द्रा अ᳚सृक्षत ।
जी॒रा अ᳚जि॒रशो᳚चिषः ॥
▶ पदपाठः (Word-by-word)
पव᳚मानस्य । जङ्घ्न᳚तः । हरेः᳚ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ ।
जी॒राः । अ॒जि॒र॑शो᳚चिषः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जङ्घ्नतः पुनः पुनस्तमांसि विनाशयतो हरेर्हरितवर्णस्य अजिरशोचिषः सर्वत्रगमनशील- तेजसः पवमानस्य सोमस्य चन्द्राः चदिआह्लादने देवानामाह्लादयित्र्यः जीराःक्षिप्रं क्षर- णशीलाधाराः असृक्षत सृजन्ति पवित्रान्निर्गच्छन्तीत्यर्थः ॥ २५ ॥

9.66.26
पव᳚मानो र॒थीत᳚मः शु॒भ्रेभि᳚ः शु॒भ्रश᳚स्तमः ।
हरि᳚श्चन्द्रो म॒रुद्ग᳚णः ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । र॒थि॑त᳚मः । शु॒भ्रेभिः᳚ । शु॒भ्रशः᳚॑तमः ।
हरि᳚॑चन्द्रः । म॒रुत्॑ग᳚णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानोदेवः स्थीतमः अतिशयेन रथवान् । ईद्रथिनइतीकारः । तथा शुभ्रेभिः शोभायुक्ते भ्यस्तेजोभ्योपि शुभ्रशस्तमः अत्यन्तदीप्यमानश्च यद्वा निर्मलेभ्योपि निर्मलतमयशोयुक्तः ह- रिश्चन्द्रः ह्रस्वाच्चन्द्रोत्तरपदइति सांहितिकःसुट् हरितवर्नदीप्तिः हरितधारावान् वा मरुद्गणः मरुतोयस्य गणः सहायभूताः सतथोक्तः तादृशः सर्वान् लोकान् स्वरश्मिभिः स्वदीप्तिभिः व्यश्नवत् व्याप्नोत्वित्युत्तरेण संबन्धः ॥ २६ ॥

9.66.27
पव᳚मानो॒ व्य᳚श्नवद्र॒श्मिभि᳚र्वाज॒सात᳚मः ।
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । वि । अ॒श्न॒व॒त् । र॒श्मि॑भिः᳚ । वा॒ज॒॑सात᳚मः ।
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः सोमः रश्मिभिः स्वदीप्तिभिः व्यश्नवत् सर्वंजगद्भ्याप्नोतु । कीदृशः वाजसातमः अतिशयेन अन्नस्यदाता बलस्य स्ंभक्तावा तथा स्तोत्रे पवमानः स्तोत्रंकुर्वते भनवे सुवीर्यं सुवीर्योपेतं पुत्रं धनंवा दधत् विदधत् प्रयच्छन् व्याप्नोतु अश्नोतेर्लेट्यडागमः ॥ २७ ॥

9.66.28
प्र सु᳚वा॒न इन्दु᳚रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
▶ पदपाठः (Word-by-word)
प्र । सु॒वा॒नः । इन्दुः᳚ । अ॒क्षा॒रिति᳚ । प॒वित्र᳚म् । अति᳚ । अ॒व्यय᳚म् ।
पु॒ना॒नः । इन्दुः᳚ । इन्द्र᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानः अभिषूयमाणः इन्दुः सोमः अव्ययमविमयं ऊर्णास्तुकेननिर्मितं दशापवित्रमती- त्य प्राक्षाः कलशं प्रकर्षेण क्षरति । क्षरतेर्लुङि तिपि सिचि छान्दसइडागमाभावः अतोल् रा- न्तस्येतिवृद्धिः रात्सस्येतिसिचोलोपः रेफान्तंस्पष्टयितुमितिकारः बहुलंछन्दसीतीडभावः हल् ङ्यादिना तोलोपः अनित्यमागमशासनमितिसिचइआ ततः पुनानः पवित्रेण शुद्धः इन्दुः सोमः इन्द्रमाविशति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २८ ॥

9.66.29
ए॒ष सोमो॒ अधि᳚ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि᳚भिः ।
इन्द्रं॒ मदा᳚य॒ जोहु᳚वत् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । सोमः᳚ । अधि᳚ । त्व॒चि । गवा᳚म् । क्री॒ळ॒ति॒ । अद्रि᳚॑भिः ।
इन्द्र᳚म् । मदा᳚य । जोहु᳚वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषः अंशुरूपः सोमः गवां त्वचि आनडुहे चर्मणि अधिशब्दउपर्यर्थद्योतकः चर्मण्युपरि अद्रिभिर्ग्रावभिःसह क्रीळति अभिषवाय संक्रीडते । इन्द्रं परमेश्वरं मदाय मदार्थं जोहुवत् आह्वानं क्रुतवान् । एतेन तत्काले इन्द्रविषयां स्तुतिं करोतीत्यवगम्यते ॥ २९ ॥

9.66.30
यस्य᳚ ते द्यु॒म्नव॒त्पय॒ः पव᳚मा॒नाभृ᳚तं दि॒वः ।
तेन᳚ नो मृळ जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । द्यु॒म्न॑व᳚त् । पयः᳚ । पव᳚मान । आ॑भृ᳚तम् । दि॒वः ।
तेन᳚ । नः॒ । मृ॒ळ॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान हे सोम दिवो द्युलोकात् आभृतं श्येनरूपया गायत्र्या आहृतं द्यु- म्नवदन्नवद्यशोयुक्तंवा पयः सोमलक्षणमन्नं यस्य ते तव स्वभूतं विद्यते तस्मात् त्वं तेनान्नेन नोस्मान् जीवसे चिरजीवनाय मृळ मृळय सुखय ॥ ३० ॥

त्वंसोमासीति द्वात्रिंशदृचं सप्तमं सूक्तं आद्यतृचस्य बार्हस्पत्योभरद्वाजऋषिः । द्वितीयस्य मारीचः कश्यपः । तृतीयस्य राहूगणोगोतमः । चतुर्थस्य भौमोत्रिः । पंचमस्य गाथिनोविश्वा- मित्रः । षष्ठस्य भार्गवोजमदग्निः । सप्तमस्यमैत्रावरुणिर्वसिष्ठः । सूक्तशेषस्यांगिरसः पवित्रः वसिष्ठोवा उभौ वा समुदितावृषी । पवस्वसोममन्दयन्नित्याद्यास्तिस्रोनित्यद्विपदागायत्र्यः । अवितानोअजाश्वइत्याद्यास्तिस्रः पवमानपूशदेवत्याः पवमानसोमदेवताका वा । यत्तेपवित्रम- र्चिषीत्याद्याःपंचर्चः पवमानाग्निदेवत्याः आसां पंचानांमध्ये उभाभ्यांदेवसवितरिति तृतीयाप- वमानसवितृदेवताकावा । चतुर्थी त्रिभिष्ट्वंदेवसवितरित्येषा विकल्पेनपवमानाग्निसवितृ- देवताका । पुनन्तुमामित्येषा विकल्पेनवैश्वदेवी यः पावमानीरध्येतीत्यादिके द्वे पवमानमण्डला ध्येतृस्तुतिप्रतिपादिके अतः सैव देवता शिष्टाः सर्वाः पवमानसोमदेवताकाः । तथाचानुक्रम्यते- त्वंसोमासिद्वात्रिंशद्भरवाजः कश्यपोगोतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठइतितृचाः सप्तऋषयः शेषे पवित्रोवसिष्ठोवोभौवा पवस्व सोमतिस्रोनित्यद्विपदागायत्र्यो वितानस्तिस्रःपौष्णयोवा यत्तेपवित्रंपंचाग्नेय्यः सावित्र्यग्निसावित्रीवैश्वदेवीवासामंत्याः त्रिंशीपुरउष्णिक् सप्तविंश्यंनुष्टुप् अन्त्ये च ते पावमान्यध्येतृस्तुतीति । गतः सूक्तविनियोगः ।